भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 94

94.002

:ए इत्य् आदिमहपुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमो
ऽध्यायः ॥
% छप्तेर् {94}
:श् अथ चतुर्णवतितमो ऽध्यायः
शिलाविन्यासविधानं
ईश्वर उवाच
ईशादिषु चरक्याद्याः(5) पूर्ववत् पूजयेद्वहिः ।अप्_94.002अब्।
आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात्

94.003

दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।अप्_94.003अब्।
मध्यसूत्रे(6) न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं(7)

94.004

नकारारूढमूलेन कुम्भे ऽस्मिन् धारयेच्छिलां ।अप्_94.004अब्।
कुम्भानष्टौ सभद्रादीन् दिक्षु पूर्वादिषु क्रमात्

94.005

लोकपालाणुभिर्न्यस्य(8) श्वभ्रेषु(6) न्यस्तशक्तिषु ।अप्_94.005अब्।
:न्
1 खातारम्भे समं पृष्ठे इति ङ.. । खातो बालोः समः
पृष्ठे इति छ..
2 निवेशेनेति ख.. , छ.. च
3 परं हस्तप्रमानत इति छ..
4 सर्वद इति ख.. , घ.. , छ.. च । सर्वश इति ग.. , च
5 ईशाद्यादिषु ब्रह्माद्या इति ग..
6 मध्ये श्वभ्र इति घ..
7 कुम्भञ्चानन्तमन्तिकमिति घ.. , छ.. च । कुम्भञ्चानन्तमन्तिममिति
ङ..
8 लोकपालात्मभिर्न्यस्येदिति ख.. , छ.. च । लोकपालाणुभिर्न्यस्येदिति
ङ..
9 सूत्रेष्विति क.. । कुम्भेष्विति ग..
:प् 300
शिलास्तेष्वथ(1) नन्दाद्याः क्रमेण(2) विनियोजयेत्

94.006

शम्बरैर् मूर्तिनाथानां(3) यथा स्युर्भित्तिमध्यतः ।अप्_94.006अब्।
तासु धर्मादिकानष्टौ(4) कोणात् कोणं विभागशः(5)

94.007

सुभद्रादिषु नन्दाद्याश् चतस्रो ऽग्न्यादिकोणगाः ।अप्_94.007अब्।
अजिताद्याश् च पूर्वादिजयादिष्वथ(6) विन्यसेत्

94.008

ब्रह्माणं चोपरि मस्य(7) व्यापकं च महेश्वरं ।अप्_94.008अब्।
चिन्तयेदेषु चाधानं व्योमप्रसादमध्यगं

94.009

बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं(8) ।अप्_94.009अब्।
शिलापञ्चकपक्षे ऽपि मनागुद्दिश्यते यथा

94.010

मध्ये पूर्णशिलान्यासः(9) सुभद्रकलशे ऽर्धतः ।अप्_94.010अब्।
पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात्

94.011

मध्यभावे(10) चतस्रो ऽपि मातृवद्भावसम्मताः ।अप्_94.011अब्।
ओं पूर्णे त्वं महाविश्वे(11) सर्वसन्दोहलक्षणे

94.012

सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।अप्_94.012अब्।
ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं

94.013

प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।अप्_94.013अब्।
आयुः कामं श्रियन्नन्दे देहि वासिष्ठ देहिनां(12)

94.014

:न्
1 शिलाद्यास्तथेति क..
2 क्रमश इति घ..
3 शम्बरैर् मूर्तिनाधानामिति ख. छ.. च । शम्बरैर्
मूर्तिमाधानमिति ङ..
4 तान् सुधर्मादिकानष्टौ इति ख..
5 विभागत इति घ..
6 पूर्वादिजयादिषु चेति ग..
7 ब्रह्माणं चोपविन्यस्येति ख.. , घ.. , ङ.. , छ.. , च
8 विघ्नदोषनिवारकमिति ग..
9 पूर्वशिलान्यास इति घ..
10 मध्याभावे इति ख.. , ग.. च
11 महाभागे इति ग..
12 देहि मामिति ख.. , छ.. च । देहि न इति घ..
:प् 301
अस्मिन् रक्षा सदा(1) कार्या प्रासादे यत्नतस्त्वया ।अप्_94.014अब्।
ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि

94.015

आयुर्दा कामदा देवि(2) श्रीप्रदा च सदा भव ।अप्_94.015अब्।
ओं जये ऽत्र सर्वदा देवि श्रीदा.अयुर्दा च सदा भव(3)

94.016

ओं जये ऽत्र सर्वदा(4) देवि तिष्ठ त्वं स्थापिता मय(5) ।अप्_94.016अब्।
नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि

94.017

ओं रिक्ते ऽतिरिक्तदोषघ्ने(6) सिद्धिमुक्तिप्रदे शुभं ।अप्_94.017अब्।
सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि(7)

94.018

गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं(8) न्यसेत् ।अप्_94.018अब्।
प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc