अग्नि पुराण · अध्याय 93
:ए इत्य् आदिमहापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमो
ऽध्यायः ॥
% छप्तेर् {93}
:श् अथ त्रिनवतितमो ऽध्यायः
वास्तुपूजादिविधानम्
ईश्वर उवाच
ततः प्रासादमासूत्र्य वर्तयेद्वास्तुमण्डपं(5) ।अप्_93.001अब्।
कुर्यात् कोष्ठचतुःषष्टिं क्षेत्रे वेदास्रके समे
कोणेषु विन्यसेद् वंशौ(6) रज्जवो ऽष्टौ विकोणगाः ।अप्_93.002अब्।
:न्
1 ओं इं उं इति घ.. , ङ्. च
2 पञ्चगव्येन संसिक्तान् इति ग..
3 न्यूनादिदोषनाशार्थमिति घ..
4 यजेदस्रेण शुद्ध्यर्थमाहुतीनामिति घ..
5 वास्तुमण्डलमिति ग. ङ.. । तत इति श्लोकार्धं घ.. पुस्तके
नास्ति
6 विन्यसेद्वंशमिति ख..
:प् 295
द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्चयेद् यथा
आकुञ्चितकचं(1) वास्तुमुत्तानमसुराकृतिं(2) ।अप्_93.003अब्।
स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं
जानुनी कूर्परौ शक्थि दिशि वातहुताशयोः ।अप्_93.004अब्।
पैत्र्यां पादपुटे रौद्र्यां शिरो ऽस्य हृदये ऽञ्जलिः
अस्य देहे समारूढा देवताः पूजिताः शुभाः ।अप्_93.005अब्।
अष्टौ कोणाधिपास्तत्र कोणार्धेष्वष्टसु स्थिताः(3)
षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् ।अप्_93.006अब्।
मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः(4) स्मृताः
समस्तनाडीसंयोगे महामर्मानुजं फलं ।अप्_93.007अब्।
त्रिशूलं स्वस्तिकं वज्रं(5) महास्वस्तिकसम्पुटौ
त्रिकुटुं(9) मणिबन्धं च सुविशुद्धं पदं तथा ।अप्_93.008अब्।
इति द्वादश मर्माणि वास्तोर्भित्त्यादिषु त्यजेत्
साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं ।अप्_93.009अब्।
ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलां(7)
रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं ।अप्_93.010अब्।
सत्याय घृतगोधूममाज्यभक्तं भृशाय च
विमांसमन्तरीक्षाय शुक्तुन्तेभ्यस्तु पूर्वतः ।अप्_93.011अब्।
मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये श्रुचं
लाजान् पूर्णं सुवर्णाम्बु वितथाय निवेदयेत् ।अप्_93.012अब्।
:न्
1 आकुञ्चितकरमिति घ..
2 कुर्यादित्यादिः मुत्तानमसुराकृतिमित्यन्तः
श्लोकद्वयात्मकपाठो ग.. पुस्तकके नास्ति
3 कोणार्धेषु व्यवस्थिता इति घ..
4 पादिका इति ख..
5 मुष्टिकं वक्त्रमिति ख..
6 त्रिकोष्ठमिति ग..
7 ददीतेति अर्धश्लोको ग.. पुस्तके नास्ति
:प् 296
दद्याद् गृहक्षते क्षौद्रं(1) यमराजे पलौदनं(2)
गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः ।अप्_93.013अब्।
मृगाय पद्मपर्णानि(3) याम्यामित्यष्टदेवताः(4)
पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं ।अप्_93.014अब्।
दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया(5)
सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्भकं ।अप्_93.015अब्।
रक्तं प्रचेतसे पद्ममसुराय(6) सुरासवं
घृतं गुडौदनं शेषे रोगाय घृतमण्डकान् ।अप्_93.016अब्।
लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं
मारुताय ध्वजं पीतं नागाय नागकेशरं ।अप्_93.017अब्।
मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतं
सोमाय पायसं साज्यं शालूकमूषये(7) दिशेत् ।अप्_93.018अब्।
लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं(8)
मोदकान् ब्रह्मणः प्राच्यां षट्पादाय मरीचये ।अप्_93.019अब्।
सवित्रे रक्तपुष्पाणि वह्न्यधःकोणकोष्ठके
तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं(9) ।अप्_93.020अब्।
दक्षिणे चन्दनं(10) रक्तं षट्पदाय विवस्वते
हरिद्रौदनमिन्द्राय रक्षोधःक्रीणकोष्ठके ।अप्_93.021अब्।
:न्
1 भूतक्षये रौद्रमिति ख.. , छ.. च । गृहकृते क्षौद्रमिति
घ..
2 फलौदनमिति ख. घ.. च
3 यवपर्णानीति घ.. । पद्मवर्णानीति ख.. छ.. च
4 याम्यामित्यष्टदेवता इति ख..
5 प्रदद्यादघमुद्रयेति ख.. । प्रदद्याद्वनमुद्रयेति घ.. , छ.. च
6 पद्मं सम्बरायेति घ..
7 शालूकं शृणयेति ख.. , छ.. च
8 पुरीमित्यवराष्टकमिति ग..
9 सवित्रे च कुशोदकमिति ग..
10 सावित्र्यै चन्दनमिति ग..
:प् 297
इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत्
वरुण्यां षट्पदासीने मित्रे सङुडमोदनं ।अप्_93.022अब्।
रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे
तदधो रुद्रदासाय मासं मार्गमथोत्तरे ।अप्_93.023अब्।
ददीत माषनैवेद्यं(1) षट्पदस्थे धराधरे(2)
आपाय शिवकोणाधः तद्वत्साय च तत्स्थले(3) ।अप्_93.024अब्।
क्रमाद्दद्याद्दधिक्षीरं पूजयित्वा विधानतः
चतुष्पदे निविष्टाय ब्रह्मणे मध्मदेशतः ।अप्_93.025अब्।
पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत्
ईशादिवायुपर्यन्तकोणेष्वथ यथाक्रमं ।अप्_93.026अब्।
वास्तुवाह्ये चरक्याद्याश् चतस्रः पूजयेद् यथा
चरक्यै(4) सघृतं मांसं विदार्यै(5) दधिपङ्कजे ।अप्_93.027अब्।
पूतनायै पलं पित्तं रुधिरं च निवेदयेत्
अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च ।अप्_93.028अब्।
ततो माषौदनं(6) प्राच्यां स्कन्दाय विनिवेदयेत्
अर्यम्णे दक्षिणाशायां पूपान् कृसरया युतान् ।अप्_93.029अब्।
जम्भकाय(7) च वारुण्यामामिषं रुधिरान्वितं
उदीच्यां पिलिपिञ्जाय(8) रक्तान्नं कुसुमानि च ।अप्_93.030अब्।
यजेद्वा सकलं वास्तुं कुशदध्यक्षतेर्जलैः
:न्
1 मांसनैवेद्यमिति ख.. , छ.. , च
2 वराधरे इति घ..
3 आपवत्सचतुष्टये इति ख.. । तद्वत्सायै च तत्तले इति घ.. , ज.. च
4 वाराह्यै इति ङ.. , छ.. च
5 विपचे इति ख.. , छ.. च
6 ततो मांसौदनमिति ख. घ.. छ.. च
7 कुम्भकायेति छ..
8 पिलिपिच्छायेति ङ.. । लिपिपिञ्जायेति छ..
:प् 298
गृहे च नगरादौ च एकाशीतिपदैर् यजेत् ।अप्_93.031अब्।
त्रिपदा रज्जवः कार्याः षट्पदाश् च विकोणके
ईशाद्याः पादिकास्तस्मिन्नागद्याश् च द्विकोष्ठगाः(1) ।अप्_93.032अब्।
षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः
नगरग्रामखेटादौ वास्तुः शतपदो ऽपि(2) वा ।अप्_93.033अब्।
वंशद्वयं कोणगतं दुर्जयं दुर्धरं सदा
यथा देवालये न्यसस् तथा शतपदे हितः ।अप्_93.034अब्।
ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश् चैव षट्पदाः
चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत् ।अप्_93.035अब्।
देशसंस्थापने(3) वास्तु चतुस्त्रिंशच्छतं(4) भवेत्
चतुःषष्टिपदो(5) ब्रह्मा मरीच्याद्याश् च देवताः ।अप्_93.036अब्।
चतुःपञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः
ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः(6) स्मृताः ।अप्_93.037अब्।
चरक्याद्यास्तद्वदेव रज्जुवंशादि पूर्ववत्(7)
ज्ञेयो वंशसहस्रैस्तु वास्तुमण्डलगः पदैः ।अप्_93.038अब्।
न्यासो नवगुणस्तत्र कर्तव्यो देशवास्तुवित्
पञ्चचिंशत्पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः ।अप्_93.039अब्।
अन्यो नवपदो वास्तुः षोडशाङ्घ्रिस् तथापरः
षडस्रत्र्यस्रवृत्तादेर्मध्ये स्याच्चतुरस्रकं ।अप्_93.040अब्।
:न्
1 नागाद्याश्चार्धकोष्टगा इति ख.. , छ.. च
2 शतपदे ऽपीति ग..
3 दशमं स्थापने इति ख.. , ग.. , घ.. , ङ.. , छ.. च
4 चतुर्विंशच्छतमिति ग..
5 चतुःषष्टिपदे इति घ..
6 ईशानाद्याः शिवपदा स्कन्दाद्याः पदिका इति घ..
7 समञ्च स्थापने वास्तुश् चतुस्त्रिंशच्छतं भवेदिति घ.. पुस्तके
ऽधिकः पाठः । चतुःषष्टिपदो ब्रह्मा इत्य् आदिः,
रज्जुवंशादि पूर्ववत् इत्य् अन्तः पाठो ग.. पुस्तके नास्ति
:प् 299
खाते वास्तोः समं पृष्ठे(1) न्यासे ब्रह्मशिलात्मके
शाषाकस्य निवेशे च(2) मूर्तिसंस्थापने तथा ।अप्_93.041अब्।
पायसेन तु नैवेद्यं सर्वेषां वा प्रदापयेत्
उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः ।अप्_93.042अब्।
गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा(4)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0