अग्नि पुराण · अध्याय 92
:ए इत्य् आदिमहापुराणे आग्नेये नानामन्त्रादिकथनं नाम
एकनवतितमो ऽध्यायः ॥
% छप्तेर् {92}
:श् अथ द्विनवतितमो ऽध्यायः
प्रतिष्ठाविधिकथनं
ईश्वर उवाच
प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतो गुह ।अप्_92.001अब्।
पीठं शक्तिं शिवो लिङ्गं तद्योगः सा शिवाणुभिः
प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते ।अप्_92.002अब्।
यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः
स्थापनन्तु यथायोगं पीठ एव निवेशनं ।अप्_92.003अब्।
प्रतिष्ठाभिन्नपीठस्य स्थितस्थापनमुच्यते
उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा ।अप्_92.004अब्।
यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः
:न्
1 तथा क्षौ ह्रौ मन्त्राः सूर्यस्येति ग, घ,
चिह्नितपुस्तकपाठः
:प् 288
आथापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च(1) ।अप्_92.005अब्।
आसु सर्वासु चैतन्यं नियुञ्जीत परं शिवम्
यदाधारादिभेदेन(2) प्रासादेष्वपि पञ्चधा ।अप्_92.006अब्।
परीक्षमथ मेदिन्याः कुर्यात्प्रासादकाम्यया
शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी(3) ।अप्_92.007अब्।
पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात्
पूर्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते(4) ।अप्_92.008अब्।
आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत्
उत्तमान्तां महीं विद्यात्तोयाद्यैर् वा समुक्षितां ।अप्_92.009अब्।
अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः(5)
नगरग्रामदुर्गार्थं गृहप्रासादकारणं(6) ।अप्_92.010अब्।
खननैर् गोकुलावासैः कर्षणैर् वा मुहुर्मुहुः
मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकं(7) ।अप्_92.011अब्।
कर्म निर्वर्त्याघोरास्त्रं सहस्रं(8) विधिना यजेत्
समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः ।अप्_92.012अब्।
स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत(9) प्रदक्षिणं
मध्यादीशानकोष्टस्थे पूर्णकुम्भे(10) शिवं यजेत् ।अप्_92.013अब्।
वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकं
:न्
1 उत्थापनश्चेत्यादि, विष्ण्वादिकस्य चेत्येत्यन्तः
सार्धैकश्लोकात्मकपाठो ग.. पुस्तके नास्ति
2 यथाधाराभिभेदेनेति ग..
3 रक्तगन्धानुगन्धीति ख..
4 प्रशस्यते इति घ..
5 शोधयेत्ध्रुवमिति घ..
6 नगरग्रामेत्यर्धश्लोको घ. पुस्तके नास्ति
7 मन्त्रदीप्त्यवसानकमिति ग.. । मन्त्रभूम्यवसानकमिति घ..
8 निर्वर्त्य घोरास्त्रं महास्त्रमिति ग..
9 रेखां प्रकुर्वीतेति ख.. ,ग.. च
10 स्वर्णकुण्डे इति ग.. । स्वर्णकुम्भे इति घ.. , ङ.. , च
:प् 289
बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलं क्षिपेत् ।अप्_92.014अब्।
भूमिं संसिच्य संस्नाप्य(1) कुद्दालाद्यं(2) प्रपूजयेत्
अन्यं वस्त्रयुगच्छज्ञं कुम्भं स्कन्धे द्विजन्मनः ।अप्_92.015अब्।
निधाय गीतवाद्यादिब्रह्मगोषसमाकुलं
पूजां कुम्भे समाहृत्य प्राप्ते लग्ने ऽग्निकोष्ठके ।अप्_92.016अब्।
कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत्
नैरृत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत् ।अप्_92.017अब्।
पुरस्य पूर्वसीमन्तं(3) नयेद् यावदभीप्सितं
अथ तत्र क्षणं स्थित्वा भ्रामयेत्(4) परितः पुरं ।अप्_92.018अब्।
सिञ्चन् सीमन्तचिह्नानि यावदीशानगोचरं
अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिब्रमात् ।अप्_92.019अब्।
इत्थं परिग्रहं भूमेः कुर्वीत तदनन्तरं
कर्करान्तं जलान्तं वा शल्यदोषजिघांसया ।अप्_92.020अब्।
खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत्
अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु(5) ।अप्_92.021अब्।
अग्नेर्ध्वजादिपातिताः स्वस्थाने शल्यमाख्यान्ति
कर्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः ।अप्_92.022अब्।
पश्वादीनां प्रवेशेन कीर्तनैर् विरुतैर् दिशः
मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत् ।अप्_92.023अब्।
शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः(6) क्रमात्
अवर्गे चैव लोहन्तु कवर्गे ऽङ्गारमग्नितः ।अप्_92.024अब्।
:न्
1 भूमिं संसिच्य संस्थाप्येति ग.. , घ.. , ङ.. च
2 कुद्दालाख्यमिति ग..
3 पूर्वमीशान्तमिति ख..
4 स्रावयेत् इति ख..
5 नव चेत् प्रश्नाक्षराणि भाषन्ते इति ग.. , घ.. च
6 पूर्वादीनां तत इति ख..
:प् 290
चवर्गे भस्म दक्षे स्याट् टवर्गे ऽस्थि च नैरृते
तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके ।अप्_92.025अब्।
यवर्गे शवकीतादि शवर्गे लोहमादिशेत्
हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि ।अप्_92.026अब्।
प्रीक्ष्यात्मभिः करापूरैर् अष्टाङ्गुलमृदन्तरैः
पादोनं खातमापूर्य सजलैर् मुद्गराहतैः(1) ।अप्_92.027अब्।
लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः
सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यामाणकं ।अप्_92.028अब्।
तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत्
कुर्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिं ।अप्_92.029अब्।
कलसं वर्धनीसक्तं(2) लोकपालशिवार्चनं
अग्नेर्जननपूजादि सर्वं पूर्ववदाचरेत् ।अप्_92.030अब्।
यजमानान्वितो(3) यायाच्छिलानां स्नानमण्डपं
शिलाः प्रासादलिङ्गस्य पादधर्मादिसञ्ज्ञकाः ।अप्_92.031अब्।
अष्टाङ्गुलोच्छ्रिताः शस्ताश् चतुरस्राः करायताः
पाषाणानां शिलाः कार्या इष्टकानां तदर्धतः ।अप्_92.032अब्।
प्रासादे ऽश्मशिलाः शैले इष्टका इष्टकामये
अङ्किता नववक्त्राद्यैः(4) पङ्कजाः पङ्कजाङ्किताः ।अप्_92.033अब्।
नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता(5)
आसां पद्मो महापद्मः शङ्खो ऽथ मकरस् तथा ।अप्_92.034अब्।
समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमाधः
नन्दा भद्रा जया पूर्णा अजिता चापराजिता ।अप्_92.035अब्।
:न्
1 मुशलैर् मुद्गराहतैर् इति ङ..
2 वर्धनीयुक्तमिति ग.. , ङ.. च
3 यजमानार्चित इति घ..
4 नवरुद्राद्यैर् इति घ..
5 पाषाणानामित्यादिः, पञ्चमीर्मता इत्य् अन्तः
श्लोकद्वयात्मकपाठो ग.. पुस्तके नास्ति
:प् 291
विजया मङ्गलाख्या च धरणी नवमी शिला
सुभद्रश् च विभद्रश् च सुनन्दः पुष्पनन्दकः(1) ।अप्_92.036अब्।
जयो ऽथ विजयश् चैव कुम्भः पूर्णस्तथोत्तरः(2)
नवानान्तु यथासङ्ख्यं निधिकुम्भः पूर्णस्तथोत्तरः(2) ।अप्_92.037अब्।
आसनं प्रथमं दत्त्वा(3) ताड्योल्लिख्यशराणुना(4)
सर्वासामविशेषेण तनुत्रेणावगुण्ठनं(5) ।अप्_92.038अब्।
मृद्भिर्गोमययोगामूत्रकषायैर् गन्धवारिणा
अस्त्रेण हूं फडन्तेन(6) मलस्नानं समाचरेत् ।अप्_92.039अब्।
विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च
गन्धतोयान्तरं कुर्यान्निजनामाङ्किताणुना(7) ।अप्_92.040अब्।
फलरत्नसुवर्णानां गोशृङ्गसलिलैस्ततः
चन्दनेन समालभ्य(8) वस्त्रैर् आच्छादयेच्छिलां ।अप्_92.041अब्।
स्वर्णोत्थमासनं दत्वा नीत्वा यागं प्रदक्षिणं
शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्(9) ।अप्_92.042अब्।
सम्पूज्य न्यस्य बुद्ध्यादिधरान्तं तत्त्वसञ्चयं
त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत् ।अप्_92.043अब्।
बुद्ध्यादौ चित्तपर्यन्ते चिन्तातन्मात्रकावधौ(10)
:न्
1 पुष्पदन्तक इत् ख.. , ग.. , घ.. , ङ.. च
2 पूर्वस्तथोत्तर इति घ..
3 प्रणवं दत्वा इति ख..
4 शरात्मनेति ख.. , ग.. , च
5 तन्मात्रेणावगुण्ठनमिति ख..
6 हुं फडन्तेनेति ग..
7 कुर्याद् द्विजनामाङ्कितात्मनेति ख.. । कुर्यान् निजनामाङ्कितात्मनेति
ग..
8 समालिप्येति ग..
9 कुशतल्पे वा हॄदयेन विशेषयेत् इति ख.. । कुशतल्पे च हृदयेन
निवेशयेत् इति ग..
10 बुद्ध्यादौ चित्तपर्यन्ते चित्ततन्मात्रकावधौ इति घ.. । सम्पच्य इत्य्
आदिः तन्मात्रकावधावित्यन्तः सार्धैकश्लोकपाठो ग.. पुस्तके
नास्ति
:प् 292
तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः ।अप्_92.044अब्।
तत्त्वानि निजमन्त्रेण तत्त्वेशांश् च हृदार्चयेत्
स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमं ।अप्_92.045अब्।
ओं हूं(1) शिवतत्त्वाय नमः । ओं हूं(2) शिवतत्त्वाधिपतये
रुद्राय नमः । ओं हां विद्यातत्त्वाय नमः । ओं हां(3)
विद्यातत्त्वाधिपाय(4) विष्णवे नमः । ओं हां आत्मतत्त्वाय
नमः । ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः(5)
क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च
प्रतितत्त्वं न्यसेदष्टौ मूर्तीः प्रतिशिलां शिलां ।अप्_92.046अब्।
सर्वं पशुपतिं चोग्रं(6) रुद्रं भवमथेश्वरं(7)
महादेवं च भीमं च मूर्तीशांश् च यथाक्रमात् ।अप्_92.047अब्।
ओं धरामूर्तये नमः, ओं धराधिपतये नमः,इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः(8)
विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर् वा निजाणुभिः(9) ।अप्_92.048अब्।
इन्द्रादीनां तु वीजानि वक्ष्यमाणक्रमेण तु
लूं रूं शूं पूं वूं यूं मूं हूं
क्षूमिति(10)
उक्तो नवशिलापक्षः शिला पञ्चपदा तथा ।अप्_92.049अब्।
:न्
1,2 ओं ह्रं इति ग.. , घ.. च
3 ओं हीं इति घ..
4 विद्यातत्त्वाधिपतये इति ख..
5 ओं हूं शिवतत्त्वाधिपतये इत्य् आदिः, ओं हां
आत्मतत्त्वाधिपतये ब्रह्मणे नम इत्य् अन्तः पाठो ग.. पुस्तके
नास्ति
6 पशुपतिं भीममिति घ..
7 भवमखेश्वरम् इति घ..
8,9 निजात्मभिरिति ख.. , ग.. । विन्यस्येत्यर्धश्लोको ग.. पुस्तके नास्ति
10 ओं हूं घूं बूं यूं मूं हं क्षमितीति ग.. । ओं
कं सूं पूं शूं ह्रूं क्षमितीति घ.. । लूं रूं
शूं पूं वूं चूं मूं हूं क्षूमितीति ख..
:प् 293
प्रतितत्त्वं न्यसेन्मूर्तीः सृष्ट्या पञ्च धरादिकाः
ब्रह्मा विष्णुस् तथा रुद्र ईश्वरश् च सदाशिवः ।अप्_92.050अब्।
एते च पञ्च मूर्तीशा यष्टव्यास्तासु(1) पूर्ववत्
ओं पृथ्वीमूर्तये नमः । ओं पृथ्वीमूर्त्यधिपतये
ब्रह्मणे नमः । इत्य् आदि मन्त्राः
सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः ।अप्_92.051अब्।
निरुन्धीत(2) विधानेन न्यासो मध्यशिलाक्रमात्
कुर्यात् प्राकारमन्त्रेण भूतिदर्भैस्ततः ।अप्_92.052अब्।
कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत्
तत्त्वतत्त्वाधिपान् मूर्तीर्मूर्तीशांश् च(3) घृतादिभिः ।अप्_92.053अब्।
ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात्
कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैःशिलाः(4) ।अप्_92.054अब्।
पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात्
सांनिध्यमथ सन्धानं कृत्वा शुद्धं(5) पुनर्न्यसेत्(6) ।अप्_92.055अब्।
एवं भागत्रये कर्म गत्वा गत्वा समाचरेत्
ओं आं ईं आत्मतत्त्वविद्यातत्त्वाभ्यां नमः(7) इति ।अप्_92.056अब्।
:न्
1 न्यस्तव्य्स्तासु इति ख..
2 निबध्नीतीति ख.. , ग.. , ङ.. च
3 तत्र तत्राधिपान् मूर्तीर्मूर्तीशांश्चेति ङ.. ।
तन्त्रतत्त्वाधिपान् मूर्तीर्मूर्तीशांस्वेति ख..
4 प्रोक्ष्य शान्तिजलैः शिलामिति ख.. । प्रोक्ष्य शान्तिजलैः शिला
इति ग.. , घ.. च
5 कृत्वा मन्त्रमिति ग..
6 सान्निध्यमित्यर्थश्लोको ङ.. पुस्तके नास्ति । सान्निध्यमथ सन्धानं
इत्य् अतः परं ह्रस्वदीर्घप्रयोगतः इत्य् अतः
प्राङ्मध्वगपाठो घ.. पुस्तके नास्ति
7 ओं आं हां आत्मतत्त्वविद्यातत्त्वाय नम इति ग.. । ओं आं इं
उं विद्यातत्त्वशिवतत्त्वाभ्यां नम इति ड.. । ओं आं इं
आत्मविद्यातत्त्वाय नम इति ख..
:प् 294
संस्पृशेद् दर्भमूलाद्यैर् ब्रह्माङ्गादित्रयं क्रमात् ।अप्_92.056अब्।
कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः
ओं हां उं(1) विद्यातत्त्वशिवतत्त्वाभ्यां नमः ।अप्_92.057अब्।
घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान् ।अप्_92.057च्द्।
पञ्चगव्यार्घ्यर्ससिक्तान्(2) लोकपालाधिदैवतान्
पूजयित्वा निजैर् मन्त्रैः सन्निधौ होममाचरेत् ।अप्_92.058अब्।
शिलानामथ सर्वासां संस्मरेदधिदैवताः
विद्यारूपाः कृतस्नाना हेमवार्णाः शिलाम्बराः ।अप्_92.059अब्।
न्यूनादिदोषमोषार्थं(3) वास्तुभूमेश् च शुद्धये ।अप्_92.059च्द्।
यजेदस्त्रेण मूर्धान्तमाहुतीनां(4) शतं शतं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0