अग्नि पुराण · अध्याय 88
:ए इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां
शान्तिशोधनं नाम सप्तशीतितमो ऽध्यायः ॥
% छप्तेर् {88}
:श् अथाष्टाशीतितमो ऽध्यायः
निर्वाणदीक्षाकथनं
ईश्वर उवाच
सन्धानं शान्त्यतीतायाः शान्त्या सार्धं विशुद्धया ।अप्_88.001अब्।
कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद् यथा
ओं हीं क्षौं हौं हां इति सन्धानानि
उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकं ।अप्_88.002अब्।
दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च
व्योमरूपमनाथञ्च स्यादनाश्रितनष्टमं ।अप्_88.003अब्।
ओङ्कारपदमीशाने मन्त्रो वर्णाश् च षोडश
अकारादिविसर्गान्ता वीजेन देहकारकौ ।अप्_88.004अब्।
कुहूश् च शङ्खिनी नाड्यौ देवदत्तधनञ्जयौ
मरुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नभः ।अप्_88.005अब्।
:प् 278
शब्दो गुणो ऽस्यावस्था तु तुर्यातीता तु पञ्चमी
हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं ।अप्_88.006अब्।
सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं
कलापाशं समाताड्य फडन्तेन विभिद्य च ।अप्_88.007अब्।
प्रविश्यान्तर् नमो ऽन्तेन फडन्तेन वियोजयेत्
शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया ।अप्_88.008अब्।
पूरकेण समाकृष्य पाशं मस्तकसूत्रतः
कुम्भकेन समादाय रेचकेनोद्भवाख्यया ।अप्_88.009अब्।
हृत्सम्पुटनमो ऽन्तेन वह्निं कुण्डे निवेशयेत्
अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् ।अप्_88.010अब्।
सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च
सदा ख्याते ऽधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।अप्_88.011अब्।
भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति
पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी ।अप्_88.012अब्।
हृत्सम्पुटात्मवीजेन शिष्यं वक्षसि ताडयेत्
ओं हां हूं हं फट्
प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः ।अप्_88.013अब्।
शस्त्रेण पाशसंयुक्तं ज्येष्ठयाङ्कुशमुद्रया
ओं हां हूं हं फट्(1)
स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना ।अप्_88.014अब्।
गृहीत्वा तन्नमो ऽन्तेन निजात्मनि नियोजयेत्
ओं हां हं हीं आत्मने नमः(2)
:न्
1 ओं हां हुं हः फट् इति ख, चिह्नितपुस्तकपाठः
2 ओं हां हं ह्रीमात्मने नम इति ख, चिह्नितपुस्तकपाठः
:प् 279
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।अप्_88.015अब्।
वामया तदनेनैव(1) देव्या गर्भे नियोजयेत्
गर्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत् ।अप्_88.016अब्।
मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत्
मलशक्तितिरोधाने पाशानाञ्च वियोजने ।अप्_88.017अब्।
पञ्चपञ्चाहुतीर्दद्यादायुधेन यथा पुरा
पाशानायुधमन्त्रेण सप्रवाराभिजप्तया ।अप्_88.018अब्।
छिन्द्यादस्त्रेण कर्तर्या कलावीजयुजा यथा
ओं हां शान्त्यतीतकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।अप्_88.019अब्।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत्
अस्त्रेण जुहुयात् पज्च पाशाङ्कुशनिवृत्तये ।अप्_88.020अब्।
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः
सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे ।अप्_88.021अब्।
पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं
ओं हां सदाशिव मनोविन्दु शुल्कं गृहाण स्वाहा
निःशेषदग्धपाशस्य पशोरस्य सदाशिव ।अप्_88.022अब्।
बन्धाय न त्वया स्थेयं शिवाज्ञां श्रावयेदिति
मूलेन जुहुयात् पूर्णां विसृजेत्तु सदाशिवं ।अप्_88.023अब्।
ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं
संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि ।अप्_88.024अब्।
कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया
दद्यादाप्यायनायास्य मस्तके ऽर्घ्याम्बुविन्दुकं ।अप्_88.025अब्।
क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा
:न्
1 वामया हृदयेनैवेति ग, चिह्नितपुस्तकपाठः
:प् 280
खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां ।अप्_88.026अब्।
कारुण्यनान्मोक्षयित्वा तद्व्रज त्वं स्थानमात्मनः
शिखामन्त्रितकर्तर्या बोधशक्तिस्वरूपिणीं ।अप्_88.027अब्।
शिखां छिद्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां
ओं क्लीं शिखायै हूं फट्(1) ओं हः अस्त्राय हूं
फट्
स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यगां(2) ।अप्_88.028अब्।
संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत्
ओं हौं हः अस्त्राय हूं फट्
प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं ।अप्_88.029अब्।
योजनिकास्थानमात्मानं शस्त्रमन्त्रेण ताडयेत्
वियोज्याकृष्य सम्पूज्य(3) पूर्ववद् द्वादशान्ततः ।अप्_88.030अब्।
आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत्
पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा ।अप्_88.031अब्।
नित्योक्तविधिना.अदाय शङ्खसन्निभमुद्रया
प्रसारितशिरोग्रीवो नादोच्चारानुसारतः ।अप्_88.032अब्।
समदृष्टिशिवश्चान्तः परभावसमन्वितः
कुम्भमण्डलवह्निभ्यः(4) शिष्यादपि निजात्मनः ।अप्_88.033अब्।
गृहीत्वा षड्विधविधानं श्रुगग्रे प्राणनाडिकं
सञ्चिन्त्य विन्दुवद् ध्यात्वा क्रमशः सप्तधा यथा ।अप्_88.034अब्।
प्रथमं प्राणसंयोगस्वरूपमपरन्ततः
:न्
1 ओं हूं शिखायै हूं फट् इति ख, ङ, चिह्नितपुस्तकपाठः
। ओं ह्रीं शिखायै ह्रं फडिति ग, चिह्नितपुस्तकपाठः
2 गोविन्दलोकमध्यगामिति ख, चिह्नितपुस्तकपाठः
3 वियोज्याकृष्य सङ्गृह्येति ख, ङ, चिह्नितपुस्तकपाठः
4 कुण्डमण्डलवह्निभ्य इति ख, चिह्नितपुस्तकपाठः
:प् 281
हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं ।अप्_88.035अब्।
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक्
सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं ।अप्_88.036अब्।
सप्तमे कारणे त्यागात्प्रशान्तविखरं लयः
शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविखरं मतं ।अप्_88.037अब्।
प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं
तत्कालविखरं षष्ठं शक्त्यतीतञ्च सप्तमं ।अप्_88.038अब्।
तदेतद् योजनास्थानं विखरन्तत्त्वसञ्ज्ञकं
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।अप्_88.039अब्।
शनैर् उदीरयन् मूलं कृत्वा शिष्यात्मनो लयं
हकारे तडिदाकारे षडध्वजप्राणरूपिणि ।अप्_88.040अब्।
उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितं
ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं ।अप्_88.041अब्।
ओङ्कारं वाचकं विष्णोस्ततो ऽष्टाङ्गुलकण्ठकं
चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकं ।अप्_88.042अब्।
तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं
नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं ।अप्_88.043अब्।
शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात्
दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च ।अप्_88.044अब्।
द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे
भावशून्ये मनो ऽतीते शिवे नित्यगुणोदये ।अप्_88.045अब्।
विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत्
विमुञ्चन् सर्पिषो धारां ज्वालान्ते ऽपि परे शिवे ।अप्_88.046अब्।
योजनिकास्थिरत्वाय वौषडन्तशिवाणुना(1)
:न्
1 वौषडन्तशिवात्मनेति ख, चिह्नितपुस्तकपाठः
:प् 282
दत्वा पूर्णां विधानेन गुणापदानमचरेत् ।अप्_88.047अब्।
ओं हां आत्मने(1) सर्वज्ञो भव स्वाहा । ओं हां आत्मने(2)
परितृप्तो भव स्वाहा । ओं ह्रूं आत्मने(3) अनादिबोधो भव स्वाहा
। ओं हौं आत्मने(4) स्वतन्त्रो भव स्वाहा । ओं हौं आत्मन्(5)
अलुप्तशक्तिर्भव स्वाहा । ओं हः आत्मने(6) अनन्तशक्तिर्भव
स्वाहाइत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात्
विधिना भावनोपेतः शिष्यदेहे नियोजयेत् ।अप्_88.048अब्।
तीव्राणुशक्तिसम्पातजनितश्रमशान्तये
शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं ।अप्_88.049अब्।
प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले(7)
सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः ।अप्_88.050अब्।
त्वयैवानुगृहीतो ऽयं मूर्तिमास्थाय मामकीं
देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्धय(8) ।अप्_88.051अब्।
इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं
:न्
1 ओं ह्रीं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हौं
आत्मन्निति घ, चिह्नितपुस्तकपाठः
2 ओं ह्रीं आत्मने इति ख, ग, चिह्नितपुस्तकपाठः । ओं हीं
आत्मन्निति ङ, चिह्नितपुस्तकपाठः
3 ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं आत्मन्निति ग,
घ, चिह्नितपुस्तकपाठः
4 ओं ह्रैं आत्मन्निति ख, चिह्नितपुस्तकपाठः । ओं हुं आत्मन्निति
ग, चिह्नितपुस्तकपाठः । ओं हौं आत्मन्निति घ, ङ,
चिह्नितपुस्तकपाठः
5 ओं हैं आत्मन्निति ख, चिह्नितपुस्तकपाठः
7 शिवदक्षिणमण्डले इति ग, चिह्नितपुस्तकपाठः
8 भक्तिं नाथास्य वर्धयेति ख, ङ, चिह्नितपुस्तकपाठः
:प् 283
श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात् ।अप्_88.052अब्।
ततः परमया भक्त्या दत्वा देवे ऽष्टपुष्पिकां ।अप्_88.052च्द्।
पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0