अग्नि पुराण · अध्याय 87
:ए इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां
विद्याविशोधनं नाम षडशीतितमो ऽध्यायः ॥
% छप्तेर् {87}
:श् अथ सप्ताशीतितमो ऽध्यायः
शान्तिशोधनकथनं
ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्धं यथाविधि ।अप्_87.001अब्।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ
:न्
1 छेदनं भेदनं तेषां बहुलीकरणन्तथा इति ग,
चिह्नितपुस्तकपाठः
:प् 275
हकारश् च क्षकारश् च द्वौ वर्णौ परिकीर्तितौ ।अप्_87.002अब्।
रुद्राः समाननामानो भुवनैः सह तद्यथा
प्रभवः समयः क्षुद्रो विमलः शिव इत्य् अपि ।अप्_87.003अब्।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ
त्रिदशेश्वरनामा च त्रिदशः कालसज्ज्ञकः ।अप्_87.004अब्।
सूक्ष्माम्बुजेश्वरश्चेति(1) रुद्राः शान्तौ प्रतिष्ठिताः
व्योमव्यापिने व्योमव्याप्यरूपाय(2) सर्वव्यापिने शिवाय अनन्ताय
अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय
नित्ययोगिने ध्यानाहारायेति(3) द्वादशपादानि
पुरुषः कवचौ मन्त्रौ वीजे विन्दूपकारकौ ।अप्_87.005अब्।
अलम्बुषायसानाड्यौ वायू कृकरकर्मकौ
इन्द्रिये त्वक्करावस्या स्पर्शस्तु विषयो मतः ।अप्_87.006अब्।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः
तुर्म्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं ।अप्_87.007अब्।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं
आकृष्य ग्रहणं कुर्याच्छान्तेर्वदनसूत्रतः ।अप्_87.008अब्।
आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत्
ईशं तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।अप्_87.009अब्।
भव्यं त्वयानुकूलेन(4) कुर्यात् विज्ञापनामिति
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं ।अप्_87.010अब्।
:न्
1 सूक्ष्मासूक्ष्मेश्वरश् चैव इति ग, चिह्नितपुस्तकपाठः
2 व्योमव्यापकरूपाय इति ख, चिह्नितपुस्तकपाठः । व्योमरूपायेति
ग, चिह्नितपुस्तकपाठः
3 ध्यायपरायेति ख, चिह्नितपुस्तकपाठः । व्यानाहारायेति ग,
चिह्नितपुस्तकपाठः
4 भाव्यं त्वया च शुद्धेन इति ग, ङ, चिह्नितपुस्तकपाठः
:प् 276
विधायादाय चैतन्यं विधिना.अत्मनि योजयेत्
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।अप्_87.011अब्।
हृत्सम्पुटात्मवीजेन देवीगर्भे नियोजयेत्
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे ।अप्_87.012अब्।
शिखया वाधिकाराय भोगाय कवचाणुना
लयाय शस्त्रमन्त्रेण श्रोतःशुद्धौ शिवेन च ।अप्_87.013अब्।
तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानादि पूर्ववत्
वर्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत् ।अप्_87.014अब्।
मलशक्तितिरोधने शस्त्रेणाहुतिपञ्चकं
एवं पाशवियोगे ऽपि(1) ततः सप्तास्त्रजप्तया ।अप्_87.015अब्।
छिन्द्यादस्त्रेण कर्तर्या पाशान्वीजवता यथा
ओं हौं(2) शान्तिकलापाशाय हः हूं फट्
विसृज्य वर्तुलीकृत्य पाशमन्त्रेण पूर्ववत् ।अप्_87.016अब्।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत्
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये ।अप्_87.017अब्।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ
ओं हः अस्त्राय हूं फट्
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे ।अप्_87.018अब्।
विदधीत विधानेन तस्मै शुल्कसमर्पणं
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण
स्वाहा
निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया ।अप्_87.019अब्।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति
:न्
1 एकं पाशवियोगार्थमिति ग, घ, चिह्नितपुस्तकपाठः
2 ओं ह्य् ऐमिति क, ङ, चिह्नितपुस्तकपाठः । ओं ओमिति ग,
चिह्नितपुस्तकपाठः । ओं यैमिति घ, चिह्नितपुस्तकपाठः
:प् 277
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत् ।अप्_87.020अब्।
ईषच्चन्द्रमिवात्मानं विधिना.अत्मनि योजयेत्
सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया ।अप्_87.021अब्।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।अप्_87.022अब्।
दद्यात् पूर्णां विधानज्ञो निःशेषविधिपूरणीं
अस्यामपि विधातव्यं पूर्ववत्ताडनादिअकं ।अप्_87.023अब्।
स्ववीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0