अग्नि पुराण · अध्याय 89
:ए इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम
अष्टाशीतितमो ऽध्यायः ॥
% छप्तेर् {89}
:श् अथोननवतितमो ऽध्यायः
एकतत्त्वदीक्षाकथनं
ईश्वर उवाच
अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।अप्_89.001अब्।
सूत्रबन्धादि कुर्वीत यथायोगं निजात्मना
कालाग्न्यादिशिवान्तानि तत्त्वानि परभावयेत् ।अप्_89.002अब्।
समतत्त्वे समग्राणि सूत्रे मणिगणानिव
आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत् ।अप्_89.003अब्।
मूलेन किन्तु कुर्वीत सर्वशुल्कसमर्पणं
प्रददीत ततः पूर्णां तत्त्ववातोपगर्भितां ।अप्_89.004अब्।
एकयैव यया शिष्यो निर्वाणमधिगच्छति
योजनायै शिवे चान्यां स्थिरत्वापादनाय च ।अप्_89.005अब्।
दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0