भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 86

86.001

:ए इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां
प्रतिष्ठाकलाशोधनं नाम पञ्चाशीतितमो ऽध्यायः ॥
% छप्तेर् {86}
:श् अथ षडशीतितमो ऽध्यायः
विद्याविशोधनविधानं
ईश्वर उवाच
सन्धानमथ विद्यायाः प्राचीनकलया सह ।अप्_86.001अब्।
कुर्वीत पूर्ववत् कृत्वा(1) तत्त्वं वर्णय तद्यथा

86.002

ओं हों क्षीमिति सन्धानं
राग्श् च शुद्धविद्या च नियतिः कलया सह ।अप्_86.002अब्।
कालो मया तथाविद्या तत्त्वानामिति सप्तकं

86.003

रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्तिताः ।अप्_86.003अब्।
पदानि प्रणवादीनि एकविंशतिसङ्ख्यया

86.004

ओं नमः शिवाय सर्वप्रभवे हं शिवाय(2) ईशानमूर्धाय
तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय(3)
सद्योजातमूर्तये(4) ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधाय
सर्वाधिपाय(5) ज्योतिरूपाय प्रमेश्वाराय भवेन ओं व्योम
:न्
1 पूर्ववत् धृत्वेति ख, चिह्नितपुस्तकपाठः
2 इं शिवाय इति ख, चिह्नितपुस्तकपाठः
3 वचोगुह्याय इति ख, चिह्नितपुस्तकपाठः
4 सद्योजाताय मूर्तये इति ख, चिह्नितपुस्तकपाठः
5 अथ निधाय सर्वाधिपतय इति ख, चिह्नितपुस्तकपाठः
:प् 273
ओं रुद्राणां भुवनानाञ्च स्वरूपमथ कश्यपे ।अप्_86.004अब्।
प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः

86.005

वज्रदेहः प्रभुर्धाता क्रविक्रमसुप्रभाः ।अप्_86.005अब्।
वटुः(1) प्रशान्तनामा च परमाक्षरसञ्ज्ञकः

86.006

शिवश् च सशिवो बभ्रुरक्षयः शम्भुरेव च ।अप्_86.006अब्।
अदृष्टरूपनामानौ तथान्यो रूपवर्धनः

86.007

मनोन्मनो महावीर्यश्चित्राङ्गस्तदनन्तरं ।अप्_86.007अब्।
कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया

86.008

मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा ।अप्_86.008अब्।
पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ

86.009

विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी ।अप्_86.009अब्।
शब्दः स्पर्शश् च रूपञ्च त्रय एते गुणाः स्मृताः

86.010

अवस्थात्र षुप्तिश् च रुद्रो देवस्तु कारणं ।अप्_86.010अब्।
विद्यामध्यगतं सर्वं भावयेद्भवनादिकं

86.011

ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं ।अप्_86.011अब्।
आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः

86.012

आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत् ।अप्_86.012अब्।
रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति

86.013

पित्रोरावहनं कृत्वा(2) हृदये ताडयेच्छिशुं ।अप्_86.013अब्।
प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत्

86.014

आकृष्यादाय पूर्वोक्तविधिना.अत्मनि योजयेत् ।अप्_86.014अब्।
वामया योजयेत् योनौ गृहीत्वा द्वादशान्ततः

86.015

:न्
1 बुद्ध इति घ, ङ, चिह्नितपुस्तकपाठः
2 आवाहनं कुर्यादिति ग, घ, चिह्नितपुस्तकपाठः
:प् 274
कुर्वीत देहसम्पत्तिं जन्माधिकारमेव च ।अप्_86.015अब्।
भोगं लयन्तथा श्रोतःशुद्धितत्त्वविशोधनं

86.016

निःशेषमलकर्मादिपाशबन्धनिवृत्तये ।अप्_86.016अब्।
निष्कृत्यैव विधानेन यजेत शतमाहुतीः

86.017

अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां ।अप्_86.017अब्।
छेदनं मर्दनं तेषां वर्तुलीकरणं तथा(1)

86.018

दाहं तदक्षराभावं प्रायश्चित्तमथोदितं ।अप्_86.018अब्।
रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं

86.019

ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा
संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं ।अप्_86.019अब्।
विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत्

86.020

विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः ।अप्_86.020अब्।
दद्यात् पूर्णां विधानेन समस्तविधिपूरणीं

86.021

पूर्वोक्तविधिना कार्यं विद्यायां ताडनादिकं ।अप्_86.021अब्।
स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc