अग्नि पुराण · अध्याय 85
:ए इत्य् आदिमहापुराणे आग्नेये निर्वाणदीक्षायां
निवृत्तिकलाशोधनं नाम चतुरशीतितमो ऽध्यायः ॥
:न्
1 शिवात्मनेति ख, चिह्नितपुस्तकपाठः
2 दग्धनिःशेषपाशस्य इति ख, ङ, चिह्नितपुस्तकपाठः
:प् 268
% छप्तेर् {85}
:श् अथ पञ्चाशीतितमो ऽध्यायः
प्रतिष्ठाकलाशोधनोक्तिः
ईश्वर उवाच
तत्त्वयोरथ सन्धानं कुर्याच्छुद्धविशुद्धयोः ।अप्_85.001अब्।
ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना
ओं हां ह्रूं हां(1)अप्तेजो वायुराकाशं तन्मात्रेन्द्रियबुद्धयः ।अप्_85.002अब्।
गुणत्रयमहङ्कारश् चतुर्विंशः पुमानिति
प्रतिष्ठायां निविष्ठानि तत्त्वान्येतानि भावयेत् ।अप्_85.003अब्।
पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च
पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः ।अप्_85.004अब्।
तावन्त एव रुद्राश् च विज्ञेयास्तत्र तद्यथा
अमरेशः प्रभावश् च नेमिषः पुष्करो ऽपि च ।अप्_85.005अब्।
तथा पादिश् च दण्डिश् च भावभूतिरथाष्टमः
नकुलीशो हरिश् चन्द्रः श्रीशैलो दशमः स्मृतः ।अप्_85.006अब्।
अन्वीशो ऽस्रातिकेशश् च(2) महाकालो ऽथ मध्यमः
केदारो भैरवश् चैव द्वितीयाष्टकमीरितं ।अप्_85.007अब्।
ततो गयाकुरुक्षेत्रखलानादिकनादिके
विमलश्चाट्टहासश् च(3) महेन्द्रो भाम एव च ।अप्_85.008अब्।
वस्वापदं रुद्रकोटिरवियुक्तो महावन्तः
गोकर्णो भद्रकर्णश् च स्वर्णाक्षः स्थाणुरेव च ।अप्_85.009अब्।
अजेशश् चैव सर्वज्ञो भास्वरः सूदनान्तरः
सुबाहुर्मत्तरूपी च विशालो जटिलस् तथा ।अप्_85.010अब्।
:न्
1 ओं हां हूं हूं हामिति ख, चिह्नितपुस्तकपाठः
2 अल्पीशो भ्रान्तिकेशश्चेति ङ, चिह्नितपुस्तकपाठः
3 विमलश् चण्डहासश्चेति ङ, चिह्नितपुस्तकपाठः
:प् 269
रौद्रो ऽथ पिङ्गलाक्षश् च कालदंष्ट्री भवेत्ततः
विदुरश् चैव घोरश् च प्राजापत्यो हुताशनः ।अप्_85.011अब्।
कामरूपी तथा कालः कर्णो ऽप्यथ भयानकः
मतङ्गः पिङ्गलश् चैव हरो वै धातृसज्ञकः ।अप्_85.012अब्।
शङ्कुकर्णो विधानश् च श्रीकण्ठश् चन्द्रशेखरः
सहैतेन च पर्यन्ताः कथ्यन्ते ऽथ पदान्यपि ।अप्_85.013अब्।
व्यापिन् ओं अरूप ओं प्रमथ ओं तेजः ओं ज्योतिः ओं पुरुष
ओं अग्ने ओं अधूम ओं अभस्म ओं अनादि ओं नाना ओं धूधू
ओं भूः ओं भुवः ओं स्वः अनिधन निधनोद्भव शिव शर्व
परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः
योगाधिपतये मुञ्च प्रथम सर्व सर्वेसर्वेति द्वात्रिंशत् पदानि
वीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा
गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा ।अप्_85.014अब्।
समानोदाननामानौ रसनापायुरिन्द्रिये
रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः ।अप्_85.015अब्।
मण्डलं वर्तुलं तच्च पुण्डरीकाङ्कितं सितं
स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजं ।अप्_85.016अब्।
प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकं
सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत् ।अप्_85.017अब्।
ओं हां खीं हां प्रतिष्ठाकलापाशाय ओं फट्
स्वाहान्तेनानैनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत् ततः
ओं हां ह्रूं ह्रां ह्रूं(1) प्रतिष्ठा कलापाशाय
ह्रूं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो
नाडी-[!!!]
:न्
1 ओं ह्रीं ह्रं हां हूं इति ख, चिह्नितपुस्तकपाठः
:प् 270
सूत्रादादाय ओं हां ह्रूं ह्रां हां(1)
प्रतिष्ठाकलापाशाय नम इत्य् अनेनोद्भवमुद्रया रेचकेन कुम्भे
समारोपयेत् ओं हां ह्रीं प्रतिष्ठाकलापाशाय नम इत्य्
अनेनार्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय
ततः ओं हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य
सन्तर्प्य
विष्णो तवाधिकारे ऽस्मिन् मुमुक्षुं दीक्षयाम्यहं
भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति ।अप्_85.018अब्।
ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत्
आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि ताडयेत् ।अप्_85.019अब्।
ओं हां हां हं फट्(2)प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः
शस्त्रेण पाशसंयुक्तं ज्येष्टयाङ्कुशमुद्रया ।अप्_85.020अब्।
ओं हां हं हों ह्रूं फट्(3)
स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना
गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत्(4) ।अप्_85.021अब्।
ओं हां हं हों (5) आत्मने नमः
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया(6)
वामया तदनेनैव देवीगर्भे विनिक्षिपेत् ।अप्_85.022अब्।
ओं हां हं हां आत्मने नमः
देहोत्पत्तौ हृदा ह्य् एवं शिरसा जन्मना तथा
:न्
1 ओं हूं ह्रां हां इति ख, चिह्नितपुस्तकपाठः
2 ओं हां हं हां हः फट् इति ख, ङ,
चिह्नितपुस्तकद्वयपाठः
3 ओं हां हं हां हूं फट् इति ख,
चिह्नितपुस्तकपाठः
4 निवेदयेदिति ख, चिह्नितपुस्तकपाठः
5 ओं हां हं हां इति ख, ङ, चिह्नितपुस्तकपाठः
6 भावयित्वा तु दक्षयेति ख, चिह्नितपुस्तकपाठः
:प् 271
शिखया वाधिकाराय भोगाय कवचाणुना ।अप्_85.023अब्।
तत्त्वशुद्धौ हृदा ह्य् एवं गर्भाधानाय पूर्ववत्
शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत् ।अप्_85.024अब्।
एवं पाशवियोगे ऽपि ततः शास्त्रजप्तया
छिन्द्यादस्त्रेण कर्तर्या कलावीजवता यथा ।अप्_85.025अब्।
ओं ह्रीं प्रतिष्ठाकलापाशाय हः फट्
विसृज्य वर्तुलीकृत्य(1) पाशमन्त्रेण पूर्ववत्
घृतपूर्णे श्रवे दत्वा कलास्त्रेणैव होमयेत् ।अप्_85.026अब्।
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुरनिवृत्तये
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ।अप्_85.027अब्।
ओं हः अस्त्राय ह्रूं फठृदावाह्य हृषीकेशं कृत्वा पूजतर्पणे
पूर्वोक्तविधिना कुर्यादधिकारसमर्पणं ।अप्_85.028अब्।
ओं हां रसशुल्कं गृहाण स्वाहा
निःशेषदग्धपाशस्य पशोरस्य हरे त्वया
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ।अप्_85.029अब्।
ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च
बाहुमुक्तार्धदृश्येन चन्द्रविम्बेन सन्निभं ।अप्_85.030अब्।
संहारमुद्रया स्वस्थं(2) विधायोद्भवमुद्रया
सूत्रे संयोज्य विन्यस्य तोयविन्दुं यथा पुरा ।अप्_85.031अब्।
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः ।अप्_85.031च्द्।
:न्
1 वर्धनीकृत्येति ख, चिह्नितपुस्तकपाठः
2 संहारमद्रयात्मस्थं इति ख, चिह्नितपुस्तकपाठः
:प् 272
दद्यात् पूर्णां विधानेन प्रतिष्ठापि विशोधिता
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0