अग्नि पुराण · अध्याय 84
:ए इत्य् आदिमाहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं
नाम त्र्यशीतितमो ऽध्यायः ॥
:न्
1 यागालयं व्रजेदिति ङ, चिह्नितपुस्तकपाठः
2 विद्यामास्थाय पावनीमिति ङ, चिह्नितपुस्तकपाठः
:प् 261
% छप्तेर् {84}
:श् चतुरशीतितमो ऽध्यायः
निर्वाणदीक्षाविधानं
ईश्वर उवाच
अथ प्रातः समुत्थाय कृतस्ननादिको गुरुः ।अप्_84.001अब्।
दध्यार्द्रमांसमद्यादेः प्रशस्ताभ्यवहारिता
गजाश्वरोहणं स्वप्ने शुभं शुक्लांशुकादिकं(1) ।अप्_84.002अब्।
तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये(2)
नित्यकर्मद्वयं कृत्वा प्रविश्य मखमण्डपं ।अप्_84.003अब्।
स्वाचान्तो नित्यवत् कर्म कुर्यान्नैमित्तिके विधौ
ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि ।अप्_84.004अब्।
विन्यस्य कुम्भगं प्रार्च्य इन्द्रादीनामनुक्रमात्
मण्डले स्थण्डिले वापि प्रकुर्वीत शिवर्चनं ।अप्_84.005अब्।
तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं
दुःखप्रदोषमोषाय शस्त्रेणाष्टाधिकं शतं ।अप्_84.006अब्।
हुत्वा हूं सम्पुटेनैव विदध्यात् मन्त्रदीपनं
अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः ।अप्_84.007अब्।
कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो वहिर्व्रजेत्
कुर्यात्समयवत्तत्र मण्डलारोपणादिकं ।अप्_84.008अब्।
सम्पातहोमं तन्नाडीरूपदर्भकरानुगं
तत्सन्निधानाय तिस्त्रो हुत्वा मूलाणुना.अहुतीः ।अप्_84.009अब्।
कुम्भस्थं शिवमभ्यर्च्य पाशसूत्रमुपाहरेत्(3)
:न्
1 शुक्लाम्बरादिकमिति ख, चिह्नितपुस्तकपाठः
2 अस्मल्लब्धपञ्चपुस्तकेषु दध्यार्द्रमांसमद्यादेरित्यारभ्य होमो
घोरेण शान्तये इत्य् अन्तः पाठः पूर्वेणानन्वित इव
प्रतिभाति
3 पाशसूत्रं समाहरेदिति ङ, चिह्नितपुस्तकपाठः
:प् 262
स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्चितस्य च ।अप्_84.010अब्।
तच्छिखायां निबध्नीयात् पादाङ्गुष्ठावलम्बितं
तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा ।अप्_84.011अब्।
ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः
कपालो ऽजश् च बुद्धश् च वज्रदेहः प्रमर्दनः(1) ।अप्_84.012अब्।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः
अग्नी रुद्रो हुताशो च पिङ्गलः खादको हरः ।अप्_84.013अब्।
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ
याम्यमृत्युहरो धाता विधाता कार्यरञ्जकः ।अप्_84.014अब्।
कालो धर्मो ऽप्यधर्मश् च संयोक्ता च वियोगकः
नैरृतो मारणो(2) हन्ता क्रूरदृष्टिर्भयानकः ।अप्_84.015अब्।
ऊर्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान्
बलश्चातिबलश् चैव पाशहस्तो महाबलः ।अप्_84.016अब्।
श्वेतश् च जयभद्रश् च दीर्घबाहुर्जलान्तकः(3)
वडवास्यश् च भीमश् च दशैते वारुणाः स्मृताः ।अप्_84.017अब्।
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।अप्_84.018अब्।
जटामुकुटधारी च नानारत्नधरस् तथा
निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत् ।अप्_84.019अब्।
प्रकाशो ऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे
विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः ।अप्_84.020अब्।
मातृवृत्तश् च पिङ्गाक्षो भूतपालो बलिप्रियः
:न्
1 प्रवर्धन इति ङ, चिह्नितपुस्तकपाठः
2 वरुण इति ख, चिह्नितपुस्तकपाठः
3 जनान्तक इति ङ, चिह्नितपुस्तकपाठः
:प् 263
सर्वविद्याविधता च सुखदुःखहरा दश ।अप्_84.021अब्।
अनन्तः पालको धीरः(1) पातालाधिपतिस् तथा
वृषो वृषधरो वीर्यो ग्रसनः(2) सर्वतोमुखः ।अप्_84.022अब्।
लोहितश् चैव विज्ञेया दश रुद्राः फणिस्थिताः
शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः ।अप्_84.023अब्।
संहारश् च विहारश् च लाभो लिप्सुर्विचक्षणः
अत्ता कुहककालाग्निरुद्रो(3) हाटक एव च ।अप्_84.024अब्।
कुष्माण्डश् चैव सत्यश् च ब्रह्मा विष्णुश् च सप्तमः
रुद्रश्चाष्टाविमे रुद्राः कटाहाभ्यन्तरे स्थिताः ।अप्_84.025अब्।
एतेषामेव नामानि भुवनानामपि स्मरेत्
भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः ।अप्_84.026अब्।
सर्वसान्निध्यकृद् ब्रह्मविष्णुरुद्रशरार्चितः
संस्तुत पूर्वस्थित ओं साक्षिन् ओं रुद्रान्तक ओं पतङ्ग ओं
शब्द ओं सूक्ष्म ओं शिव सर्वसर्वद सर्वसान्निध्यकर
ब्रह्मविष्णुरुद्रकर ओं नमः शिवाय ओं नमो नमः(4)
अष्टाविंशति पादानि व्योमव्यापि मनो गुह ।अप्_84.027अब्।
सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टको मतः
:न्
1 घोर इति ङ, चिह्नितपुस्तकपाठः
2 वीर्याप्रसन्न इति ख, ग, चिह्नितपुस्तकपाठः
3 अथ शुक्लककालाग्निरुद्र इति ख, चिह्नितपुस्तकपाठः
4 अनर्चित संस्तुत पूर्वस्थित साक्षिन् तुङ्ग 2 पतङ्ग 2 ज्ञान 2
शब्द सूक्ष्म शिव सर्वद सर्वाध्यक्षकर ब्रह्मविष्णुरुद्र ओं
नमः शिवाय ओं नमो नमः ओं नमः शिवाय ओं नमो
नमः इति । अनर्चित संस्तुत पूर्वविन्द ओं साक्षिण ओं रुद्रान्तक
ओं पतङ्ग ओं ज्ञान ओं शब्द ओं सूक्ष्म ओं शिव ओं सर्व
ओं सर्वद ओं सर्वसान्निध्यकर ब्रह्मविष्णु रुद्रकर ओं नमः
शिवाय ओं नमो नम इति च, चिह्नितपुस्तकपाठः
:प् 264
वीजाकारो मकारश् च(1) नाड्याविडापिङ्गलाह्वये ।अप्_84.028अब्।
प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये
गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके ।अप्_84.029अब्।
पार्थिवं मण्डलं पीतं वज्राङ्गं चतुरस्रकं
विस्तारो योजनानान्तु कोटिरस्य शताहता ।अप्_84.030अब्।
अत्रैवान्तर्गता ज्ञेया योनयो ऽपि चतुर्दश
प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः ।अप्_84.031अब्।
मृगपक्षी च पशवश् चतुर्धा तु सरीसृपाः
स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी(2) ।अप्_84.032अब्।
पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च
सौम्यं प्राणेश्वरं(3) ब्राह्ममष्टमं परिकीर्तितं ।अप्_84.033अब्।
अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतं
लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणं ।अप्_84.034अब्।
ततो जाग्रदवस्थानैः समस्तैर् भुवनादिभिः
निवृत्तिं गर्भितां ध्यात्वा स्वमन्त्रेण नियोज्य च ।अप्_84.035अब्।
ओं हां ह्रूं हां(4) निवृत्तिकलापाशाय हूं फट् तत
ओं हां हां(5) निवृत्तिकलापाशाय
स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ओं ह्रूं
ह्रां ह्रूं(6) निवृत्तिकलापाशाय हूं फडित्यनेन
संहारमुद्रया कुम्भकेनाधः-[!!!]
:न्
1 वीजोङ्कारो मकरश्चेति ग, ङ, चिह्नितपुस्तकपाठः
2 योनिः षष्ठी सुमानुषी इति ख, चिह्नितपुस्तकपाठः ।
योनिः षष्टीषु मानुषी इति ग, ङ,
चिह्नितपुस्तकपाठः
3 प्रजेश्वरमिति ङ, चिह्नितपुस्तकपाठः
4 ओं हां हूं हामिति ख, चिह्नितपुस्तकपाठः
5 तत ओं हां हां हामिति ख, चिह्नितपुस्तकपाठः
6 ओं हूं ह्रूं हूमिति ख, चिह्नितपुस्तकपाठः
:प् 265
स्थानादादाय ओं ओं ह्रां हां(1) निवृत्तिकलापाशाय नम
इत्य् अनेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओं हां
निवृत्तिकलापाशाय नम इत्य् अनेनार्घ्यं दत्वा सम्पूज्य विमुखेनैव
स्वाहान्तेनै सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं च दत्वा
ओं हां ब्रह्मणे नम इति ब्रह्माणमावाह्य सम्पूज्य च
स्वाहान्तेन सन्तर्प्य
ब्रह्मन् तवाधिकारे ऽस्मिन् मुमुक्षुं दोक्ष्ययाम्यहं
भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति ।अप्_84.036अब्।
आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा
इच्छाज्ञानक्रियारूपां षड्विधां ह्य् एककारणं ।अप्_84.037अब्।
पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः
वागीश्वरीं विनिःशेषयोनिविक्षोभकारणं ।अप्_84.038अब्।
हृत्सम्पुटार्थवीजादिहूं फडन्तशराणुना
ताडयेद्धृदये तस्य प्रविशेत्स(2) विधानवित् ।अप्_84.039अब्।
ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमं
निवृत्तिस्थं युतं पाशैर् ज्येष्ठया विभजेद्यथा ।अप्_84.040अब्।
ओं हां हूं हः हूं फटों हां स्वाहेत्यनेनाथ पूरकेणाङ्कुशमुद्रया
तदाकृष्य स्वमन्त्रेण गृहीत्वा.अत्मनि योजयेत् ।अप्_84.041अब्।
ओं हां ह्रूं हां(3) आत्मने नमः
पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत्
ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं ।अप्_84.042अब्।
:न्
1 ओं हूं ह्रीं हामिति ख, चिह्नितपुस्तकपाठः
2 प्रविश्येच्चेति ख, ङ, चिह्नितपुस्तकपाठः
3 ओं हां हां क्षं हामिति ख, चिह्नितपुस्तकपाठः
:प् 266
गर्भाधानार्थमादाय युगपत् सर्वयोनिषु
क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया ।अप्_84.043अब्।
ओं हां हां हां आत्मने नमः(1)
पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा
अन्ययोनिषु सर्वासु देहशुद्धिं हृदा चरेत् ।अप्_84.044अब्।
नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात्
सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत् ।अप्_84.045अब्।
शिरसा जन्म कुर्वीत जुगुप्सन् सर्वदेहिनां
तथैव भावयेदेषामधिकारं शिवाणुना(2) ।अप्_84.046अब्।
भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना
मोहरूपमभेदश् च लयसज्ञं विभावयेत् ।अप्_84.047अब्।
शिवेन श्रोतसां शुद्धिं हृदा तत्त्वविशोधनं
पञ्च पञ्चाहुतीः कुर्यात्(3) गर्भाधानादिषु क्रमात् ।अप्_84.048अब्।
मायया मलकर्मादिपाशबन्धनिवृत्तये
निष्कृत्यैव हृदा पश्चाद् यजेत शतमाहुतीः ।अप्_84.049अब्।
मलशक्तिनिरोधेन पाशानाञ्च वियोजनं
स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत् ।अप्_84.050अब्।
मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया
कर्तर्या छेदनं कुर्यात् कल्पशस्त्रेण तद्यथा ।अप्_84.051अब्।
ओं हूं निवृत्तिकलापाशाय हूं फट्
:न्
1 ओं हं हं हां आत्मने नम इति ख, चिह्नितपुस्तकपाठः
2 शिखात्मने ख, चिह्नितपुस्तकपाठः
3 पञ्चपञ्चाहुतीर्दद्यादिति ग, ङ, चिह्नितपुस्तकपाठः
:प् 267
बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना(1)
विसृज्य वर्तुलीकृत्य घृतपूर्णे स्रुवे धरेत् ।अप्_84.052अब्।
दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात्
कुर्यात् पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये ।अप्_84.053अब्।
ओं हः अस्त्राय हूं फट्
प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः
अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा ।अप्_84.054अब्।
तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण
स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत्
दग्धनिःशेषपापस्य(2) ब्रह्मन्नस्य पशोस्त्वया
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति ।अप्_84.055अब्।
ततो विसृज्य धातारं नाड्या दक्षिणया शनैः
संहारमुद्रयात्मानं कुम्भकेन निजात्मना ।अप्_84.056अब्।
राहुयुक्तैकदेशेन चन्द्रविम्बेन सन्निभं
आदाय योजयेत् सूत्रे रेचकेनोद्भवाख्यया ।अप्_84.057अब्।
पूजयित्वार्घ्यपात्रस्थतोयविन्दुसुधोपमं
विसृज्य पितरौ दद्याद्वौषडन्तशिवाणुना ।अप्_84.058अब्।
पूरणाय विधिः पूर्णा निवृत्तिरिति शोधिता
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0