अग्नि पुराण · अध्याय 83
:ए इत्य् आदिमहापुराणे आग्नेये समयदीक्षाकथनं नाम
द्व्यशीतितमो ऽध्यायः ॥
% छप्तेर् {83}
:श् अथ त्र्यशीतितमो ऽध्यायः
निर्वाणदीक्षाकथनं
ईश्वर उवाच
अथ निर्वाणदीक्षायां कुर्यान्मूलादिदीपनं ।अप्_83.001अब्।
पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा
एकैकया तदाहुत्या प्रत्येकं तत्त्रयेण वा ।अप्_83.002अब्।
वीजगर्भशिखार्धन्तु हूं फडन्तध्रुवादिना
ओं ह्रूं ह्रौं हौं ह्रूं फडिति(2) मूलमन्त्रस्य दीपनं ।अप्_83.003अब्।
ओं ह्रूं हौं हौं ह्रूं फडिति(3) हृदय एवं शिरोमुखे
प्रत्येकं दीपनं कुर्यात् सर्वस्मिन् क्रूरकर्मणि ।अप्_83.004अब्।
शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना(4)
वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः ।अप्_83.005अब्।
हवनं संवरैः कुर्यात् सर्वत्राप्यायनादिषु
ततः स्वसव्यभागस्थं मण्डले शुद्धविग्रहं ।अप्_83.006अब्।
:न्
1 ह्रीं फडन्तध्रुवादिना इति ख, चिह्नितपुस्तकपाठः
2 ओं हूं हौं हौं हूं फडिति ख, चिह्नितपुस्तकपाठः ।
ओं हूं हों हूं फडिति ग, चिह्नितपुस्तकपाठः
3 ओं हूं हां हां हूं फडिति ख, चिह्नितपुस्तकपाठः ।
ओं ह्रं ह्रीं ह्रं ह्रं फडिति ग, चिह्नितपुस्तकपाठः
4 वषडन्तादिनात्मनेति ख, ग, चिह्नितपुस्तकपाठः
:प् 256
शिष्यं सम्पूज्य तत् सूत्रं सुषुम्णेति विभावितं
मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत् ।अप्_83.007अब्।
संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके
पुंसस्तु दक्षिणे भागे वामे नार्या नियोजयेत् ।अप्_83.008अब्।
शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके
संहारमुद्रया.अदाय सूत्रं तेनैव योजयेत् ।अप्_83.009अब्।
नाडीन्त्वादाय मूलेन सूत्रे न्यस्य हृदार्चयेत्
अवगुण्ठ्य तु रुद्रेण हृदयेनाहुतित्रयं ।अप्_83.010अब्।
प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि
ओं हां वर्णाध्वने नमो हां भवनाध्वने नमः ।अप्_83.011अब्।
ओं हां कालाध्वने नमः(1) शोध्याध्वानं हि सूत्रके
न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च ।अप्_83.012अब्।
पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च
गुरुश् च तत्र हूङ्कारयुक्तं रेचकयोगतः ।अप्_83.013अब्।
चैतन्यं हंसवीजस्थं विश्लिष्येदायुधात्मना
ओं हौं हूं फट्(2)
आछिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना ।अप्_83.014अब्।
संहारमुद्रया सूत्रे नाडीभूते नियोजयेत्
ओं हां हं हां आत्मने नमः
व्यापकं भावयेदेनं तनुत्राणावगुण्ठयेत्(3) ।अप्_83.015अब्।
:न्
1 ओं द्वाम् पदाध्वने नमः । ओं हां वर्णाध्वने नमः ।
ओं हां भवनाध्वने नमः । ओं हां कलाध्वने नमः । इति
ग, चिह्नितपुस्तकपाठः । ओं हां पदात्मने नमः । ओं हां
वर्णात्मने नमः । ओं हां मन्त्रात्मने नमः । ओं हां
कालात्मने नम इति ङ, चिह्नितपुस्तकपाठः
2 ओं हां हौं हूं फट् इति ग, चिह्नितपुस्तकपाठः
3 तन्मात्रेणावगुण्ठयेदिति ग, चिह्नितपुस्तकपाठः
:प् 257
आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे
विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं ।अप्_83.016अब्।
तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत्
ओं हां हौं शान्त्यतीतकलापाशाय(1) नम इत्य्
अनेनावलोकयेत्
हे तत्त्वे मन्त्रमप्येकं पदं वर्णाश् च षोडश ।अप्_83.017अब्।
तथाष्टौ भुवनान्यस्यां वीजनाडीकथद्वयं
विषयञ्च गुणञ्चैकं कारणं च सदा शिवं ।अप्_83.018अब्।
सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत्
ओं हौं शान्त्यतीतकलापाशाय हूं फट्
संहारमुद्रया.अदाय विदध्यात् सूत्रमस्तके ।अप्_83.019अब्।
पूजयेदाहुतींस्तिस्रो दद्यात् सन्निधिहेतवे
तत्त्वे द्वे अक्षरे द्वे च वीजनाडीकथद्वयं ।अप्_83.020अब्।
गुणौ मन्त्रौ तथाब्जस्थमेकं कारणमीश्वरं
पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च ।अप्_83.021अब्।
एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत्
ताडयित्वा समादाय मुखसूत्रे नियोजयेत् ।अप्_83.022अब्।
जुहुयान्निजवीजेन सान्निध्यायाहुतित्रयं
विद्यायां सप्त तत्त्वानि पादानामेकविंशतिं ।अप्_83.023अब्।
षड् वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिं
गुणानान्त्रयमेकञ्च विषयं रुद्रकारणं ।अप्_83.024अब्।
अन्तर्भाव्यातिरिक्तायां जीवनाडीकथद्वयं
अस्त्रमादाय दध्याच्च पदं द्व्यधिकविंशतिं ।अप्_83.025अब्।
लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयं
:न्
1 ओं हां हौं हों शान्त्यतीतकलापाशायेति ग,
चिह्नितपुस्तकपाठः
:प् 258
मन्त्राणां त्रयमेकञ्च विषयं कारणं हरिं ।अप्_83.026अब्।
अन्तर्भाव्य प्रतिष्ठायां शुक्लयान्ताडनादिकं
विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत् ।अप्_83.027अब्।
ह्रीं भुवनानां(1) शतं साग्रंपदानामष्टविंशतिं(2) ।अप्_83.027च्द्।
वीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि ।अप्_83.028अब्।
वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकं
हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणां चतुष्टयं ।अप्_83.029अब्।
निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत्
आदौ यत्तत्त्वभागान्ते(3) सूत्रे विन्यस्यपूजयेत् ।अप्_83.030अब्।
जुहुयादाहुतीस्तिस्रः सन्निधाय पावके
इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात् ।अप्_83.031अब्।
सवीजायान्तु दीक्षायां समयाचारयागतः
देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि ।अप्_83.032अब्।
इष्टापूर्तादिधर्मार्थं व्यतिरिक्तं प्रबन्धकं
चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत् ।अप्_83.033अब्।
अमुनैव क्रमेणाथ कुर्यात्तर्पणदीपने
आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस् तथा ।अप्_83.034अब्।
ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणं
ओं हां हं हां(4) शान्त्यतीतकलापाशाय
हूम्फडित्यादिदीपनं
तत् सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु
:न्
1 ह्रीं त्रिभुवनाधिपानामिति ख, चिह्नितपुस्तकपाठः
2 पदानामूनविंशतिमिति ग, चिह्नितपुस्तकपाठः
3 आदौ सतत्त्वभावेनेति ग, चिह्नितपुस्तकपाठः
4 ओं हां हौं हौं इति ग, चिह्नितपुस्तकपाठः
:प् 259
सङ्गृह्य कुङ्कुमाज्येन(1) तत्र साङ्गं शिवं यजेत् ।अप्_83.035अब्।
हूम्फडन्तैः कलामन्त्रैर् भित्त्वा पाशाननुक्रमात्
नमो ऽन्तैश् च प्रविश्यान्तः कुर्याद् ग्रहणबन्धने ।अप्_83.036अब्।
ओं हूं हां हौं हां हूं फट् शान्त्यतीतकलां
गृह्णामि बध्नामि चेत्यादिमन्त्रैः कलानां
ग्रहणबन्धनादिप्रयोगः
पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः
पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये ।अप्_83.037अब्।
उपवेश्याथ तत् सूत्रं शिष्यस्कन्धे निवेशयेत्
विस्तृताघप्रमोषाय शतं मूलेन होमयेत् ।अप्_83.038अब्।
शरावसम्पुटे पुंसः स्त्रियाश् च प्रणितोदरे
हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्चयेद्धृदा(2) ।अप्_83.039अब्।
सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितं
निदध्यात् कलशस्याधो रक्षां विज्ञापयेदिति ।अप्_83.040अब्।
शिष्यं पुष्पं करे दत्वा सम्पूज्य कलशादिकं
प्रणमय्य वहिर्यायाद् यागमन्दिरमध्यतः ।अप्_83.041अब्।
मण्डलत्रितयं कृत्वा मुमुक्ष्वनुत्तराननान्
भुक्तये पूर्ववक्त्रांश् च शिष्यांस्तत्र निवेशयेत् ।अप्_83.042अब्।
प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयं
पाणिना कुशयुक्तेन अर्चितानन्तरान्तरं ।अप्_83.043अब्।
चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितं
अष्टग्रासप्रमाणं वा दशनस्पर्शवर्जितं ।अप्_83.044अब्।
पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके
:न्
1 कुम्भमाज्येनेति ग, चिह्नितपुस्तकपाठः
2 निदध्यान् पूर्ववद्धृदा इति ङ, चिह्नितपुस्तकपाठः
:प् 260
हृदा सम्भोजनं दत्वा पूतैर् आचामयेज्जलैः ।अप्_83.045अब्।
दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभं
न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतं ।अप्_83.046अब्।
विधाय स्थिण्डिलेशाय सर्वकर्मसमर्पणं
पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं ।अप्_83.047अब्।
निर्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः
कलशं लोकपलांश् च पूजयित्वा विसृज्य च ।अप्_83.048अब्।
विसृजेद्गणमग्निञ्च रक्षितं यदि वाह्यतः
वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं ।अप्_83.049अब्।
भस्मना शुद्धतोयैर् वा स्नात्वा या गालयं विशेत्(1)
गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान् ।अप्_83.050अब्।
हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान्
शिखाबद्धसिखानस्त्रसप्तमाणवकान्वितान् ।अप्_83.051अब्।
विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्वहिः
ओं हिलि हिलि त्रिशूलपाणये स्वाहा
पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनं ।अप्_83.052अब्।
समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीं(2)
दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद्गुरुः ।अप्_83.053अब्।
इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0