भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 82

82.001

:ए इत्य् आदिमहापुराणे आग्नेये समयदीक्षाकथनं नाम
एकाशीतितमो ऽध्यायः ॥
% छप्तेर् {82}
:श् अथ द्व्यशीतितमो ऽध्यायः
संस्कारदीक्षाकथनं
ईश्वर उवाच
वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।अप्_82.001अब्।
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि

82.002

संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।अप्_82.002अब्।
तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं

82.003

कुसुमेनास्त्रलिप्तेन(3) ताडयेत्तं हृदा शिशुं ।अप्_82.003अब्।
प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत्

82.004

:न्
1 शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः
2 शिवहस्ते च स्थित्यर्थमिति ग, चिह्नितपुस्तकपाठः
3 कुसुमेनाष्टजप्तेनेति ङ, चिह्नितपुस्तकपाठः
:प् 253
प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।अप्_82.004अब्।
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत्

82.005

ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।अप्_82.005अब्।
हृत्सम्पुटितमन्त्रेण(1) रेचकेन विनिक्षिपेत्

82.006

ओं हां हां हां आत्मने नमः(2)
जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।अप्_82.006अब्।
अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति

82.007

स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यते ऽनलः ।अप्_82.007अब्।
विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते

82.008

इत्येवमादिभिश्चिह्नैर् हुत्वा शिष्यस्य कल्मषं ।अप्_82.008अब्।
पापभक्षणहोमेन(3) दहेद्वा तं भवात्मना

82.009

द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।अप्_82.009अब्।
आहारवीजसंशुद्धौ(4) गर्भाधानाय संस्थितौ

82.010

सीमन्ते जन्मतो नामकरणाय च होमयेत् ।अप्_82.010अब्।
शतानि पञ्च मूलेन वौषडादिदशांशतः

82.011

शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।अप्_82.011अब्।
आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते

82.012

स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।अप्_82.012अब्।
मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं

82.013

शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं ।अप्_82.013अब्।
:न्
1 हृत्सम्पुटात्ममन्त्रेणेति ङ, चिह्नितपुस्तकपाठः
2 ओं हां हां आत्मने नम इति ग, घ, चिह्नितपुस्तकपाठः । ओं
हां आत्मने नम इति ङ, चिह्नितपुस्तकपाठः
3 पापक्षयेण होमनेति ङ, चिह्नितपुस्तकपाठः
4 वीजसंसिद्धौ इति ङ, चिह्नितपुस्तकपाठः
:प् 254
बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं(1)

82.014

संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।अप्_82.014अब्।
विदधीत समादाय निजे हृदयपङ्कजे

82.015

ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।अप्_82.015अब्।
कुर्यात् समवशीभावं तदा च शिवयोर्हृदि

82.016

ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।अप्_82.016अब्।
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया

82.017

हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।अप्_82.017अब्।
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत्

82.018

पूजां शिवस्य वह्नेश् च गुरुः कुर्यात्तदोचितां ।अप्_82.018अब्।
प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा

82.019

देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।अप्_82.019अब्।
शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि

82.020

बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।अप्_82.020अब्।
यथाशक्ति ददीतार्थं(2) समर्थस्य समग्रकान्

82.021

भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।अप्_82.021अब्।
ईशानाद्यैर् हृदाद्यैर् वा परिजप्य यथाक्रमात्

82.022

स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।अप्_82.022अब्।
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत्

82.023

रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।अप्_82.023अब्।
शिवादाज्ञां समादाय ददीत यतिने गुरुः

82.024

एवं समयदीक्षायां विशिष्टायां विशेषतः ।अप्_82.024अब्।
:न्
1 वर्धनमिति घ, चिह्नितपुस्तकपाठः
2 ददीतान्नमिति घ, चिह्नितपुस्तकपाठः
:प् 255
वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc