भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 81

81.001

:ए इत्य् आदिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमो
ऽध्यायः ॥
% छप्तेर् {81}
:श् अथैकाशीतितमो ऽध्यायः
समयदीक्षाविधानं
ईश्वर उवाच
वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं ।अप्_81.001अब्।
मलमायादिपाशानां विश्लेषः क्रियते यया

81.002

ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा ।अप्_81.002अब्।
विज्ञातकलनामैको द्वितीयः प्रलयाकलः(1)

81.003

तृतीयः सकलः शास्त्रे ऽनुग्राह्यस्त्रिविधो मतः ।अप्_81.003अब्।
तत्राद्यो मलमात्रेण मुक्तो ऽन्यो मलकर्मभिः

81.004

कलादिभूमिपर्यन्तं स्तवैस्तु सकलो यतः ।अप्_81.004अब्।
निराधाराथ साधारा दीक्षापि द्विविधा मता

81.005

निराधारा द्वयोस्तेषां साधारा सकलस्य तु ।अप्_81.005अब्।
आधारनिरपेक्षेण क्रियते शम्भुचर्यया

81.006

तीव्रशक्तिनिपातेन निराधारेति सा स्मृता ।अप्_81.006अब्।
आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया

81.007

शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते ।अप्_81.007अब्।
:न्
1 प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ,
चिह्नितपुस्तकपाठः
:प् 244
इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता

81.008

साधिकारानधिकारा यथा तदभिधीयते ।अप्_81.008अब्।
समयाचारसंयुक्ता सवीजा जायते नृणां

81.009

निर्वीजा त्वसमर्थानां समयाचारवर्जिता ।अप्_81.009अब्।
नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता

81.010

साधिकारा भवेद्दीक्षा साधकाचार्ययोरतः ।अप्_81.010अब्।
निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः

81.011

नित्यमात्राधिकारत्वद्दीक्षा निरधिकारिका ।अप्_81.011अब्।
द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते

81.012

एका क्रियावती तत्र कुण्डमण्डलपूर्विका ।अप्_81.012अब्।
मनोव्यापारमात्रेण या सा ज्ञानवती मता

81.013

इत्थं लब्धाधिकारेण दीक्षा.अचार्येण साध्यते ।अप्_81.013अब्।
स्कन्ददीक्षां गुरुः कुर्यात् कृत्वा नित्यक्रियां ततः(1)

81.014

प्रणवार्ग्यकराम्भोजकृतद्वाराधिपार्चणः ।अप्_81.014अब्।
विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः

81.015

कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं ।अप्_81.015अब्।
तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं

81.016

सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः ।अप्_81.016अब्।
तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः

81.017

पूजनं मन्त्रशिद्धिञ्च पञ्चगव्यञ्च पूर्ववत् ।अप्_81.017अब्।
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं(2) कुशान्

81.018

विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान् ।अप्_81.018अब्।
:न्
1 कृतनित्यक्रियाद्वय इति ख, चिह्नितपुस्तकपाठः
2 भस्मदूर्वाक्षतानिति ङ, चिह्नितपुस्तकपाठः
:प् 245
शस्त्राम्बु(1)प्रोक्षितानेतान् कवचेनावगुण्ठितान्

81.019

नानाग्रहणाकारान् विघ्नौघविनिवारकान् ।अप्_81.019अब्।
दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः

81.020

सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं ।अप्_81.020अब्।
शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं

81.021

निष्कलं च शिवं न्यस्य शिवो ऽहमिति भावयेत् ।अप्_81.021अब्।
उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं

81.022

गन्धमण्डनकं स्वीये विदध्याद्दक्षिणे करे ।अप्_81.022अब्।
विधिनात्रार्चयेदीशमित्थं स्याच्छिवमस्तकं

81.023

विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके ।अप्_81.023अब्।
शिवादभिन्नमात्मानं कर्तारं भावयेद्यथा

81.024

मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः ।अप्_81.024अब्।
होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः(2)

81.025

स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः ।अप्_81.025अब्।
सो ऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः

81.026

ज्ञानखड्गकरः स्थित्वा नैरृत्याभिमुखो नरः ।अप्_81.026अब्।
सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं

81.027

चतुष्पथान्तसंस्कारैः संस्कुर्यादीक्षणादिभिः ।अप्_81.027अब्।
विक्षिप्य विकरांस्तत्र कुशकूर्चोपसंहरेत्

81.028

तानीशदिशि वर्धन्यामासनायोपकल्पयेत् ।अप्_81.028अब्।
नैरृते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत्

81.029

आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं ।अप्_81.029अब्।
:न्
1 अस्त्राम्बु इति ङ, चिह्नितपुस्तकपाठः
2 शिष्ये पापविमोचक इति ङ, चिह्नितपुस्तकपाठः
:प् 246
साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने

81.030

ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे ।अप्_81.030अब्।
पश्चिमस्यान्तु सिंहस्थां वर्धनीं खड्गरूपिणीं

81.031

दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान् ।अप्_81.031अब्।
वाहनायुधसंयुक्तान् हृदाभ्यर्च्य स्वनामभिः

81.032

प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं ।अप्_81.032अब्।
अविच्छिन्नपयोधरां भ्रामयित्वा प्रदक्षिणं

81.033

शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन् ।अप्_81.033अब्।
संरक्षत यथायोगं कुम्भं धृत्वाथ तां धारेत्

81.034

ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करं ।अप्_81.034अब्।
विन्यस्य शोध्यमध्वानं वर्धन्यामस्त्रमर्चयेत्

81.035

ओं हः अस्त्रासनाय हूं फट् । ओं ओं अस्त्रमूर्तये नमः ।
ओं हूं फट् पाशुपतास्त्राय नमः । ओं ओं हृदयाय
हूं फट् नमः । ओं श्रीं शिरसे हूं फट् नमः । ओं
यं शिखायै हूं फट् नमः । ओं गूं कवचाय हूं
फट् नमः । ओं फट् अस्त्राय हूं फट् नमः(1)
चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं ।अप्_81.035अब्।
समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं

81.036

भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।अप्_81.036अब्।
:न्
1 ओं अं हः अस्त्रासनाय ह्रं फट् । ओं अं अस्त्रमूर्तये
नमः । ओं पशूं हुं फट् पाशुपतास्त्राय नमः । ओं
हृदयाय ह्रं फट् नमः । ओं श्रीं शिरसे ह्रूं फट्
नमः । ओं मं शिखायै फट् नमः । ओं अस्त्राय फट्
हूं फट् नमः । इति ग, चिह्न्कितपुस्तकपाठः । ओं हः
अस्त्रासनाय क्रूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं स्वां
स्वं क्रूं फट् पाशुपतास्त्राय स्वाहा । ओं ओं हृदयाय
क्रूं फट् नमः । ओं पं शिखायै क्रूं फट् नमः ।
ओं खं कवचाय क्रूं फट् नमः । ओं हं फट् अस्त्राय
फट् नमः । इति ङ, चिह्नितपुस्तकपाठः
:प् 247
अग्गुष्ठेन स्पृशेत् कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं

81.037

भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् ।अप्_81.037अब्।
कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत्

81.038

शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत् ।अप्_81.038अब्।
तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेत्ततः

81.039

यथेदं कृतयत्नेन भगवन्मखमन्दिरं ।अप्_81.039अब्।
रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया

81.040

प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्चयेत्(1) ।अप्_81.040अब्।
स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः

81.041

निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं ।अप्_81.041अब्।
वामे ऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकं

81.042

कुण्डवह्निस्रुगाज्यादि प्राग्वत् संस्कृत्य भावयेत् ।अप्_81.042अब्।
मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत्

81.043

स्वमूर्तौ शिवकुम्भे च स्थण्डिले त्वग्निशिष्ययोः ।अप्_81.043अब्।
सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि

81.044

कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं ।अप्_81.044अब्।
वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते

81.045

विरेफावन्तिमौवर्णौ रेफषष्ठस्वरान्वितौ ।अप्_81.045अब्।
इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात्

81.046

हिरण्या वनका रक्ता कृष्णा तदनु सुप्रभा ।अप्_81.046अब्।
अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा

81.047

क्षीरादिमधुरैर् होमं कुर्याच्छान्तिकपौष्टिके ।अप्_81.047अब्।
अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः

81.048

लवणैर् आजिकातक्रकटुतैलैश् च कण्टकैः ।अप्_81.048अब्।
:न्
1 वायव्ये कालमर्चयेदिति ग, चिह्नितपुस्तकपाठः
:प् 248
समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत्

81.049

कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं ।अप्_81.049अब्।
बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत्

81.050

बिल्वं राज्याय लक्ष्मार्थं पाटलांश् चम्पकानपि ।अप्_81.050अब्।
पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे

81.051

दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते ।अप्_81.051अब्।
प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं

81.052

मृत्युञ्जयो मृत्युजित् स्याद् वृद्धिः स्यात्तिलहोमतः ।अप्_81.052अब्।
रुद्रशान्तिः सर्वशान्त्यै अथ प्रस्तुतमुच्यते

81.053

आहुत्यष्टशतैर् मूलमङ्गानि तु दशांशतः ।अप्_81.053अब्।
सन्तर्पयेत मूलेन दद्यात् पूर्णां यथा पुरा

81.054

तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत् ।अप्_81.054अब्।
दुर् निमित्तापसाराय सुनिमित्तकृते तथा

81.055

शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत् ।अप्_81.055अब्।
मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत्

81.056

शिखासम्पुटितैर् वीजैर् ह्रूं फडन्तैश् च(1) दीपनं ।अप्_81.056अब्।
ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश् च तर्पणं

81.057

ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं(2) फडित्यादिदीपनं ।अप्_81.057अब्।
ततः शिवाम्भसा स्थालीं क्षालितां वर्मगुण्ठितां(3)

81.058

चन्दनादिसमालब्धां बध्नीयात् कटकं गले ।अप्_81.058अब्।
वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये

81.059

:न्
1 हुं फडन्तैश् च ख, चिह्नितपुस्तकपाठः
2 ओं हूं हौं हूं शिवाय हूमिति ख, चिह्नितपुस्तकपाठः ।
ओं क्रं हौं क्रं शिवाय क्रूं इति ङ,
चिह्नितपुस्तकपाठः
3 धर्मगुण्ठितामिति ख, चिह्नितपुस्तकपाठः
:प् 249
वर्माद्यैर् आसने(1) दत्ते सार्धेन्दुकृतमण्डले(2) ।अप्_81.059अब्।
न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत्

81.060

वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर् वहिर्भवैः ।अप्_81.060अब्।
चुल्ल्यां पश्चिमवक्त्रायां न्यस्तायां मानुषात्मना

81.061

न्यस्ताहङ्कारवीजायां शुद्धायां वीक्षणादिभिः ।अप्_81.061अब्।
धर्माधर्मशरीरायां जप्तायां मानुषात्मना

81.062

स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जितां ।अप्_81.062अब्।
गव्यं पयो ऽस्त्रसंशुद्धं प्रासादशतमन्त्रितं

81.063

तुण्डलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा ।अप्_81.063अब्।
एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं

81.064

प्रसृतिं प्रसृतिं पश्चाद्वर्धयेद् द्व्यादिषु क्रमात् ।अप्_81.064अब्।
कुर्याच्चानलमन्त्रेण पिधानं कवचाणुना

81.065

शिवाग्नौ मूलमन्त्रेण पूर्वास्यश् चरुकं पचेत् ।अप्_81.065अब्।
सुखिन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य सर्पिषा

81.066

स्वाहान्तैः संहितामन्त्रैर् दत्वा तप्ताभिघारणं ।अप्_81.066अब्।
संस्थाप्य मण्डले स्थालीं सद्दर्भे ऽस्त्राणुना कृते

81.067

प्रणवेन पिधायास्यां तद्देहलेपनं हृदा ।अप्_81.067अब्।
सुशीतलो भवत्येवम् प्राप्य शीताभिघारणं

81.068

विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत् सकृत् ।अप्_81.068अब्।
धर्माद्यासनके हुत्वा(3) कुण्डमण्डलपश्चिमे

81.069

सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् ।अप्_81.069अब्।
चरुकं सकृदालभ्य तयैव वषडन्तया

81.070

:न्
1 धर्माद्यैर् आसने इति क, चिह्नितपुस्तकपाठः
2 सार्दाम्बुकृतमण्डले इति ख, चिह्नितपुस्तकपाठः
3 धर्माद्यासनके धृत्वेति ख, ग, चिह्नितपुस्तकपाठः
:प् 250
धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्(1) ।अप्_81.070अब्।
साज्यभागं स्वशिष्याणां भागो देवाय वह्नये

81.071

कुर्यात्तु स्तोकपालादेः समध्वाज्यमितिदं त्रयं ।अप्_81.071अब्।
नमो ऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं(2)

81.072

साज्यं मन्त्रशतं हुत्वा दद्यात् पूर्णां यथाविधि ।अप्_81.072अब्।
मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः

81.073

रुद्रमातृगणादीनां निर्वर्त्यान्तर्बलिं हृदा ।अप्_81.073अब्।
शिवमध्ये ऽप्यलब्धाज्ञो विधायैकत्वभावनं

81.074

सर्वज्ञतादियुक्तो ऽहं समन्ताच्चोपरि स्थितः ।अप्_81.074अब्।
ममांशो योजनास्थानमधिष्ठाहमध्वरे

81.075

शिवो ऽहमित्यहङ्कारी निष्क्रमेद् यागमण्डपात् ।अप्_81.075अब्।
न्यस्तपूर्वाग्रसन्धर्भे शस्त्राणुकृतमण्डले

81.076

प्रणवासनके शिष्यं शुक्लवस्त्रोत्तरीयकं ।अप्_81.076अब्।
स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये

81.077

ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत् ।अप्_81.077अब्।
चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः

81.078

चक्षुषा सप्रसादेन शैवं धाम विवृण्वता ।अप्_81.078अब्।
अस्त्रोदकेन सम्मोक्ष्य मन्त्राम्बुस्नानसिद्दये

81.079

भस्मस्नानाय विघ्नानां शान्तये पापभित्तये(3) ।अप्_81.079अब्।
सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना

81.080

पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं ।अप्_81.080अब्।
:न्
1 स्थण्डिलोपान्तिकं नयेदिति ङ, चिह्नितपुस्तकपाठः
2 तेनैवाचमनीयमिति क, ख, ग, चिह्नितपुस्तकत्रयपाठः
3 पाशभित्तये इति ग, चिह्नितपुस्तकपाठः
:प् 251
नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन्

81.081

त्रिधा.अलभेत तन्मूलैर् अघमर्षाय नाभ्यधः ।अप्_81.081अब्।
द्वैविध्याय च पाशानां आलभेत शराणुना

81.082

तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः ।अप्_81.082अब्।
पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा

81.083

बध्वामन्त्रितवस्त्रेण सितेन सदशेन च ।.अप्_81.083अब्।
प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं

81.084

सवस्त्रमासनं दद्यात् यथावर्णं(1) निवेदयेत् ।अप्_81.084अब्।
संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे

81.085

निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत् ।अप्_81.085अब्।
पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके

81.086

शिवहस्तं प्रदातव्यं रुद्रेशपददायकं ।अप्_81.086अब्।
शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना(2)

81.087

शिवे प्रक्षेपयेत् पुष्पमपनीयार्चकन्तारं(3) ।अप्_81.087अब्।
तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगं

81.088

विप्रादीनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः ।अप्_81.088अब्।
प्रणतिं कुम्भवर्धन्योः कारयित्वानलान्तिकं

81.089

सदक्षिणासने तद्वत्(4) सौम्यास्यमुपवेशयेत् ।अप्_81.089अब्।
शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत्

81.090

निजग्रहलीनाञ्च दर्भमूलेन मन्त्रितं ।अप्_81.090अब्।
:न्
1 सुवर्णञ्चेति ग, चिह्नितपुस्तकपाठः
2 शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः
3 अपनीयाधिकाम्बरं इति घ, चिह्नितपुस्तकपाठः
4 सदक्षिणासन तत्रेति ङ, चिह्नितपुस्तकपाठः
:प् 252
दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे

81.091

तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे ।अप्_81.091अब्।
शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना(1)

81.092

पुरकेण समागत्य स्वकीयं हृद्यान्तरं ।अप्_81.092अब्।
शिवाग्निना पुनः कृत्वा नाडीसन्धानमीदृशं

81.093

हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयं ।अप्_81.093अब्।
शिवहस्तस्थिरत्वार्थं(2) शतं मूलेन होमयेत् ।अप्_81.093च्द्।
इत्थं समयदीक्षायां भवेद्योग्यो भवार्चने

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc