अग्नि पुराण · अध्याय 79
:ए इत्य् आदिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम
अष्टसप्ततितमो ऽध्यायः ॥
% छप्तेर् {79}:
:श् अथैकोनाशीतितमो ऽध्यायः
पवित्रारोहणविधिः
ईश्वर उवाच
अथ प्रातः समुत्थाय कृतस्नानः समाहितः ।अप्_79.001अब्।
कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपं
समादाय पवित्राणि अविसर्जितदैवतः ।अप्_79.002अब्।
ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले
ततो विसर्ज्य देवेशं निर्माल्यमपनीय च ।अप्_79.003अब्।
पूर्ववद् भूतले शुद्धेकृत्वाह्निकमथ द्वयं
आदित्यद्वारदिक्पालकुम्भेशानौ शिवे ऽनले(1) ।अप्_79.004अब्।
नैमित्तिकीं सविस्तरां कुर्यात् पूजां विशेषतः
मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना(2) ।अप्_79.005अब्।
अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः
:न्
1 आदित्यद्वारदिक्पालान् स्कन्देशानौ शिवे ऽनले इति ङ,
चिह्नितपुस्तकपाठः
2 शराणुनेति घ, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 238
पवित्रं भानवे दत्वा समाचम्य ददीत च ।अप्_79.006अब्।
द्वारमालादिदिक्पालकुम्भवर्धनिकादिषु
सन्निधाने ततः शम्भोरुपविश्य निजासने ।अप्_79.007अब्।
पवित्रमात्मने दद्याद्गणाय गुरुवह्नये
ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ(1) ।अप्_79.008अब्।
कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत्कृतं
तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतं(2) ।अप्_79.009अब्।
सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया
ओं पूरयमखव्रतं नियमेश्वराय स्वाहा ।अप्_79.010अब्।
आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना
मूलं लयान्तमुच्चार्य पवित्रेणार्चयेच्छिवं ।अप्_79.011अब्।
विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते
ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् ।अप्_79.012अब्।
शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते
शिवान्तं मन्त्रमुच्चार्य तस्मै देयं पवित्रकं ।अप्_79.013अब्।
सर्वकारणपालेषु शिवमुच्चार्य सुव्रतः(3)
मूलं लयान्तमुच्चार्य दद्याद्गङ्गावतारकं(4) ।अप्_79.014अब्।
आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकं
विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात् ।अप्_79.015अब्।
स्वाहान्तं वा नमो ऽन्तं वा मन्त्रमेषामुदीरयेत्
ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा
:न्
1 प्रभुस्त्वं मामकेविधौ इति ङ, चिह्नितपुस्तकपाठः
2 हुतं यत्र वषट्कृतमिति ङ, चिह्नितपुस्तकपाठः
3 सर्वतत्त्वेषु सुव्रत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
4 दद्यादङ्गावतारकमिति ख, चिह्नितपुस्तकपाठः
:प् 239
ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा
ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा
ओं हौं सर्वतत्त्वाधिपतये शिवाय स्वाहा
नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः ।अप्_79.016अब्।
त्वङ्गतिः सर्वभूतानां संस्थितिस्त्वञ्चराचरे
अन्तश्चारेण भूतानां(1) द्रष्टा त्वं परमेश्वर ।अप्_79.017अब्।
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम
मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतं ।अप्_79.018अब्।
जपहोमार्चनैर् हीनं कृतं नित्यं मया तव
अकृतं वाक्यहीनं च तत् पूरय महेश्वरं(2) ।अप्_79.019अब्।
सुपूतस्त्वं परेशान(3) पवित्रं पापनाशनं
त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमं ।अप्_79.020अब्।
खण्डितं यन्मया देव व्रतं वैकल्पयोगतः
एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितं ।अप्_79.021अब्।
जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च
नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः ।अप्_79.022अब्।
चतुर्मासं त्रिमासं वा त्र्यहमेकाहमेव च
प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती ।अप्_79.023अब्।
पावकस्थे शिवे ऽप्येवं पवित्राणां चतुष्टयं
समारोप्य समभ्यर्च्य पुष्पधूपाक्षतादिभिः ।अप्_79.024अब्।
अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत्
प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् ।अप्_79.025अब्।
:न्
1 अन्तश् चर त्वं भूतानामिति ग, चिह्नितपुस्तकपाठः
2 परिपूर्णं करो तु मे इति ग, चिहितपुस्तकपाठः
3 अमृतस्त्वं परेशान इति ग, चिह्नितपुस्तकपाठः
:प् 240
प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं
शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं ।अप्_79.026अब्।
होमं व्याहृतिभिः कृत्वा रुन्ध्यान्निष्ठुरयानलं
अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं ।अप्_79.027अब्।
दिक्पतिभ्यस्ततो दद्यात्(1) सपवित्रं वहिर्बलिं
सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं ।अप्_79.028अब्।
ओं हां भूः स्वाहा । ओं हां भुवः स्वाहा । ओं हां
स्वः स्वाहा । ओं हां भूर्भुवः स्वः स्वाहा
होमं व्याहृतिभिः कृत्वा दत्वा.अहुतिचतुष्टयं
ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां
अग्नीषोमाभ्यां स्वाहा । ओं हां अग्नये स्विष्टकृते
स्वाहा
गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः ।अप्_79.029अब्।
समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकं
यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः ।अप्_79.030अब्।
इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं
द्विजातीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत् ।अप्_79.031अब्।
दानेनानेन देवेश प्रीयतां मे सदा शिवः
भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत् ।अप्_79.032अब्।
पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्जयेत्
नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा ।अप्_79.033अब्।
पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत्
प्रायश्चित्तं ततो ऽस्त्रेण हुत्वा(2) पूर्णाहुतिं यजेत् ।अप्_79.034अब्।
:न्
1 दिक्पालेभ्यस्ततो दत्वेति ख, चिह्नितपुस्तकपाठः
2 ततो ऽस्त्रेण कृत्वेति घ, चिह्नितपुस्तकपाठः
:प् 241
भुक्तिकामः शिवायाथ कुर्यात् कर्मसमर्पणं
त्वत्प्रसादेन कर्मेदं मास्तु फलसाधकं ।अप्_79.035अब्।
मुक्तिकामस्तु कर्मेदं मास्तु मे नाथ बन्धकं
वह्निस्थं नाडीयोगेन शिवं संयोजयेछिवे ।अप्_79.036अब्।
हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत्
समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान् ।अप्_79.037अब्।
शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत्
विसृज्य लोकपालादीनादायेशात् पवित्रकं ।अप्_79.038अब्।
सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं
तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत् ।अप्_79.039अब्।
अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत्
यत् किञ्चिद्वार्षिकं कर्म कृतं न्यूनाधिकं मया ।अप्_79.040अब्।
तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया
इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् ।अप्_79.041अब्।
त्यक्तनिर्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत् ।अप्_79.041च्द्।
पञ्चयोजनसंस्थो ऽपि पवित्रं गुरुसन्निधौ
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0