अग्नि पुराण · अध्याय 80
:ए इत्य् आदिमहापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमो
ऽध्यायः ॥
% छप्तेर् {80}
:श् अथ अशीतितमो ऽध्यायः
दमनकारोहणविधिः
ईश्वर उवाच
वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत् ।अप्_80.001अब्।
हरकोपात् पुरा जातो भैरवो दमिताः सुराः
:प् 242
तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा ।अप्_80.002अब्।
प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः
परिपूर्णफलं तेषां नान्यथा ते भविष्यति ।अप्_80.003अब्।
सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः
सम्पूज्य बोधयेद्वृक्षं भववाक्येन मन्त्रवित् ।अप्_80.004अब्।
हरप्रसादसंभूत त्वमत्र सन्निधीभव
शिवकार्यं समुद्दिश्य नेतव्यो ऽसि शिवाज्ञया ।अप्_80.005अब्।
गृहे ऽप्यामन्त्रणं कुर्यात् सायाह्ने चाधिवासनं
यथाविधि समभ्यर्च्य सूर्यशङ्करपावकान् ।अप्_80.006अब्।
देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं
वामेन शिरसा वाथ नालं धात्रीं तथोत्तरे ।अप्_80.007अब्।
दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं
पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं ।अप्_80.008अब्।
पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत्
आमन्त्रितो ऽसि देवेश प्रातःकाले(1) मया प्रभो ।अप्_80.009अब्।
कर्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया
मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं ।अप्_80.010अब्।
प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्(2)
नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः ।अप्_80.011अब्।
शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः
मूलाद्यैर् ईश्वरान्तैश् च चतुर्थाञ्जलिना ततः ।अप्_80.012अब्।
ओं हौं मखेश्वराय मखं पूरय शूलपाणये नमः
:न्
1 देवेश पूजाकाले इति ग, चिह्नितपुस्तकपाठः
2 गन्धपुष्पादिनार्चयेदिति ख, चिह्नितपुस्तकपाठः
:प् 243
शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत्
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं ।अप्_80.013अब्।
सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम ।अप्_80.013च्द्।
सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0