भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 78

78.001

:ए इत्य् आदिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम
सप्तसप्ततितमो ऽध्यायः ॥
% छप्तेर् {78}
:श् अथोष्टसप्ततितमो ऽध्यायः
पवित्रारोहणकथनं
ईश्वर उवाच
पवित्रारोहणं वक्ष्ये क्रियार्चादिषु पूरणं ।अप्_78.001अब्।
नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं

78.002

आषाढादिचतुर्दश्यामथ श्रावणभाद्रयोः ।अप्_78.002अब्।
सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु तत्

78.003

कुर्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके ।अप्_78.003अब्।
वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनां

78.004

दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां(2) ।अप्_78.004अब्।
सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं

78.005

कलौ कार्पासजं चापि पट्टपद्मादिसूत्रकं ।अप्_78.005अब्।
प्रणवश् चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः(3)

78.006

सर्वेशः(4) सर्वदेवाः स्युः क्रमेण नवतन्तुषु ।अप्_78.006अब्।
अष्टोत्तरशतान्यर्धं तदर्धं चोत्तमादिकं

78.007

एकाशीत्याथवा सूत्रैस्त्रिंशताप्पष्टयुक्तया ।अप्_78.007अब्।
:न्
1 शरीरोन्मादवायव इति घ, चिह्नितपुस्तकपाठः
2 स्वधाभुजामिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः
3 गुहो रविरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः
4 सदेश इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः
:प् 231
पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकं

78.008

द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च ।अप्_78.008अब्।
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा

78.009

तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं ।अप्_78.009अब्।
गङ्गावतारकं कार्यं सुजातेन सुधौतकं

78.010

ग्रन्थिं कुर्याच्च वामेन अघोरणाथ शोधयेत् ।अप्_78.010अब्।
रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः

78.011

कस्तूरीरोचनाचन्द्रैर् हरिद्रागैर् इकादिभिः ।अप्_78.011अब्।
ग्रन्थयो दश कर्तव्या अथवा तन्तुसङ्ख्यया

78.012

अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं ।अप्_78.012अब्।
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता

78.013

जयान्या विजया षष्ठी अजिता च सदाशिवा ।अप्_78.013अब्।
मनोन्मनी सर्वमुखी ग्रन्थयो ऽभ्यधिकाः शुभाः

78.014

कार्या वा चन्द्रवह्न्यर्कपवित्रं(1) शिववद्धृदि ।अप्_78.014अब्।
एकैकं निजमूर्तौ वा पुप्तके गुरुके गणे(2)

78.015

स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।अप्_78.015अब्।
हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं

78.016

अष्टाविंशतितो युद्धं दशभिर्दशभिः क्रमात् ।अप्_78.016अब्।
द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः

78.017

ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं ।अप्_78.017अब्।
सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः

78.018

भूषयेत् पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं ।अप्_78.018अब्।
:न्
1 चण्डवह्न्यर्कपवित्रमिति ख, ग, ङ. चिह्नितपुस्तकत्रयपाठः
2 पुस्तके गुरवे गणो इति ख, ङ, चिह्नितपुस्तकपाठः
:प् 232
कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्पणं

78.019

परिगृहीते भूभागे पवित्रे सूर्यमर्चयेत्(1) ।अप्_78.019अब्।
आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः

78.020

द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतो ऽर्चयेत् ।अप्_78.020अब्।
हां शान्तिकलाद्वाराय तथा विद्याकलात्मने

78.021

निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने ।अप्_78.021अब्।
तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत्

78.022

नन्दिने महाकालाय भृङ्गिणे ऽथ गणाय च ।अप्_78.022अब्।
वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात्

78.023

नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे ।अप्_78.023अब्।
इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः

78.024

प्रोक्षणाद्यं(2) विधायाथ यज्ञसम्भारकृन्नरः ।अप्_78.024अब्।
मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश् च हृदादिभिः

78.025

शिवहस्तं विधायेत्थं(3) स्वशिरस्यधिरोपयेत् ।अप्_78.025अब्।
शिवो ऽहमादिः सर्वज्ञो मम यज्ञप्रधानता

78.026

अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः ।अप्_78.026अब्।
नैरृतीं दिशमासाद्य प्रक्षिपेदुदगाननः

78.027

अर्घ्याम्बु पञ्चगव्यञ्च समस्तान् मखमण्डपे ।अप्_78.027अब्।
चतुष्पथान्तसंस्कारैर् वीक्षणाद्यैः(4) सुसंस्कृतैः

78.028

विक्षिप्य विकिरांस्तत्र कुशकूर्चोपसंहरेत्(5) ।अप्_78.028अब्।
:न्
1 सूत्रिते सूर्यमर्चयेदिति ख, ग, घ, ङ,
चिह्नितपुस्तकचतुष्टयपाठः
2 प्रोक्षणच्चेति ग, चिह्नितपुस्तकपाठः
3 विधायैकमिति ङ, चिह्नितपुस्तकपाठः
4 ब्राह्मणाद्यैर् इति ग, चिह्नितपुस्तकपाठः
5 दशकूर्ञ्चोपसंहरेदिति ख, चिह्नितपुस्तकपाठः
:प् 233
तानीशदिशि(1) वर्धन्यामासनायोपकल्पयेत्

78.029

नैरृते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् ।अप्_78.029अब्।
पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं

78.030

प्रणवेन वृषारूढं सिंहस्थां वर्धनीन्ततः ।अप्_78.030अब्।
कुम्भे साङ्गं शिवन्देवं वर्धन्यामर्चयेत्(2)

78.031

दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्(3) ।अप्_78.031अब्।
वर्धनीं सम्यगादाय घटपृष्टानुगामिनीं

78.032

शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं ।अप्_78.032अब्।
अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत्

78.033

समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं ।अप्_78.033अब्।
पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य(4) वामतः

78.034

समग्रासनके कुम्भे यजेद्देवं स्थिरासने ।अप्_78.034अब्।
वर्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः

78.035

भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।अप्_78.035अब्।
कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा

78.036

तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेदपि(5) ।अप्_78.036अब्।
गणेशं वायवे ऽभ्यर्च्य हरं पञ्चामृतादिभिः

78.037

स्नापयेत् पूर्ववत् प्रार्च्य(6) कुण्डे च शिवपावकं(7) ।अप्_78.037अब्।
:न्
1 अनीशदिशि इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 वर्धन्यां शस्त्रमर्चयेदिति ग, चिह्नितपुस्तकपाठः
3 विष्णुब्रह्मावसानकानिति ख, ङ,
चिह्नितपुस्तकद्वयपाठः
4 शस्त्रालम्भस्येति क, ग, चिह्नितपुस्तकद्वयपाठः
5 रक्षां च कारयेत् सदेति ग, चिह्नितपुस्तकपाठः
6 पूर्ववत् स्नापयेत् प्रार्चेदिति ग, चिह्नितपुस्तकपाठः । स्थापयेत्
पूर्ववच्चाग्निमिति ङ, चिह्नितपुस्तकपाठः
7 कुम्भे वा शिवमर्चयेदिति ग, चिह्नितस्पुस्तकपाठः
:प् 234
विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं

78.038

देवाग्र्यात्मविभेदेन दर्ष्या तं विभजेत् त्रिधा ।अप्_78.038अब्।
दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि

78.039

शरेण चर्मणा देयं पूर्वतो दन्तधावनं ।अप्_78.039अब्।
तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं

78.040

साद्योजातेन च हृदा चोत्तरे वामनीकृतं(1) ।अप्_78.040अब्।
जलं(2) वामेन शिरसा ईशे गन्धान्वितं जलं

78.041

पञ्चगव्यं पलाशादिपुटकं वै समन्ततः ।अप्_78.041अब्।
ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां

78.042

अगुरुं निरृताशायां वायव्यां च चतुःसमं ।अप्_78.042अब्।
होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह

78.043

दण्डाक्षसूत्रकौपीनभिक्षापात्राणि(3) रूपिणे ।अप्_78.043अब्।
कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं

78.044

ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ।अप्_78.044अब्।
आसनं पादुके पात्रं योगपट्टातपत्रकं

78.045

ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ।अप्_78.045अब्।
पूर्वस्याञ्चरुकं साज्यं दद्याद्गन्धादिकं नवे

78.046

पूर्वित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा ।अप्_78.046अब्।
संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं

78.047

कृष्णाजिनादिना.अच्छाद्य स्मरन् संवत्सरात्मकं ।अप्_78.047अब्।
साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं

78.048

:न्
1 सद्योजातेन च हृदा चोत्तरे वामनीयकमिति ख,
चिह्नितपुस्तकपाठः । सद्योजातेन च हृदा चोत्तरे धाम
निष्फलमिति ग, चिह्नितपुस्तकपाठः
2 फलमिति ख, चिह्नितपुस्तकपाठः
3 दण्डाक्षसूत्रकौपानतीर्थपात्राणि इति ङ,
चिह्नितपुस्तकपाठः
:प् 235
स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ।अप्_78.048अब्।
शोधयेच्च पवित्राणि वाराणामेकविंशतिं

78.049

गृहादि वेष्टयेत्सूत्रैर् गन्धाद्यं (1) रवये ददेत् ।अप्_78.049अब्।
पूजिताय समाचम्य(2) कृतन्यासः कृतार्घ्यकः

78.050

नन्द्यादिभ्यो ऽथ(3) गन्धाख्यं(4) वास्तोश्चाथ प्रविश्य च ।अप्_78.050अब्।
शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके

78.051

वर्धन्यै विघ्नराजाय गुरवे ह्य् आत्मने यजेत् ।अप्_78.051अब्।
अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया

78.052

आमन्त्र्य च पवित्रं(5) तत् विधायाञ्जलिमध्यगं ।अप्_78.052अब्।
ओं समस्तविधिच्छिद्रपूरणे च विधिं प्रति

78.053

प्रभवमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां ।अप्_78.053अब्।
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते

78.054

सर्वथा सर्वदा शम्भो नमस्ते ऽस्तु प्रसीद मे ।अप्_78.054अब्।
आमन्त्रितो ऽसि देवेश सह देव्या गणेश्वरैः

78.055

मन्त्रेशैर् लोकपालैश् च सहितः परिचारकैः(6) ।अप्_78.055अब्।
निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं

78.056

नियमञ्च करिष्यामि परमेश तवाज्ञया ।अप्_78.056अब्।
इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं

78.057

शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् ।अप्_78.057अब्।
:न्
1 गन्धाख्यमिति ख, ग, चिह्नितपुस्तकद्वयपठः
2 पूजनार्थं समाचम्य इति ङ, चिह्नितपुस्तकपाठः
3 रव्यादिभ्यो ऽथेति ग, चिह्नितपुस्तकपाठः
4 गन्धाद्यमिति ङ, चिह्नितपुस्तकपाठः
5 आमन्त्रणपवित्रमिति ख, चिह्नितपुस्तकपाठः
6 परिवारकैविति ग, ङ, चिह्नितपुस्तकपाठः
:प् 236
जपं स्तोत्रं प्रमाणञ्च कृत्वा शम्भुं क्षमापयेत्

78.058

हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये(1) ।अप्_78.058अब्।
दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ(2)

78.059

रुद्रेभ्यो क्षेत्रपादिभ्यो(3) नमः स्वाहा बलिस्त्वयं ।अप्_78.059अब्।
दिङ्नागाद्यैश् च पूर्वादौ क्षेत्राय चाग्नये बलिः

78.060

समाचम्य विधिच्छिद्रपूरकं होममाचरेत् ।अप्_78.060अब्।
पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं

78.061

तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि ।अप्_78.061अब्।
ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा

78.062

इत्याहुतिचतुष्कन्तु दत्वा कुर्यात्तु योजनां ।अप्_78.062अब्।
वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे

78.063

नाडीसन्धानरूपेण विधिना योजयेत्ततः ।अप्_78.063अब्।
वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः

78.064

अधिरोप्य पवित्राणि कलाभिर्वाथ मन्त्रयेत् ।अप्_78.064अब्।
षडङ्गं ब्रह्ममूलैर् वा हृद्धर्मास्त्रञ्च योजयेत्

78.065

विधाय सूत्रैः संवेष्ट्य पूजयित्वाङ्गसम्भवैः(4) ।अप्_78.065अब्।
रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत्

78.066

पूजिते पुष्पधूपाद्यैर् दत्वा सिद्धान्तपुस्तके ।अप्_78.066अब्।
गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकं

78.067

निर्गत्य वहिराचम्य गोमये मण्डलत्रये ।अप्_78.067अब्।
:न्
1 शिवाज्ञया इति ख, चिह्नितपुस्तकपाठः
2 भूतमातृगणेषु फडिति ङ, चिह्नितपुस्तकपाठः
3 रुद्रेभ्यः क्षेत्रपालेभ्य इति ख, चिह्नितपुस्तकपाठः
4 पूजयित्वा ततः शिवमिति ग, चिह्नितपुस्तकपाठः । पूजयित्वाथ
सञ्चरैर् इति ङ, चिह्नितपुस्तकपाठः
:प् 237
पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद् यजेत्

78.068

आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः ।अप्_78.068अब्।
स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे

78.069

अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।अप्_78.069अब्।
केवलम्भस्मशय्यायां सोपवासः समाहितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc