अग्नि पुराण · अध्याय 77
:ए इत्य् आदिमहापुराणे आग्नेये चण्डपूजाकथनं नाम
षट्सप्ततितमो ऽध्यायः ॥
% छप्तेर् {77}
:श् अथ सप्तसप्ततितमो ऽध्यायः
कपिलादिपूजाविधनं
ईश्वर उवाच
कपिलापूजनं वक्ष्ये एभिर्मन्त्रैर् यजेच्च गां ।अप्_77.001अब्।
ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः
ओं कपिले सुशीले नमः कपिले सुरभिप्रभे ।अप्_77.002अब्।
ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः
सौरभेयि जगन्मातर्देवानाममृतप्रदे ।अप्_77.003अब्।
गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे
:प् 228
वन्दितासि वसिष्ठेन विश्वामित्रेण धीमता ।अप्_77.004अब्।
कपिले हर मे पापं यन्मया दुष्कृतं कृतं
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।अप्_77.005अब्।
गावो मे हृदये चापि गवां मध्ये वसाम्यहं
दत्तं गृह्णन्तु(1) मे ग्रासं जप्त्वा स्यां निर्मलः शिवः ।अप्_77.006अब्।
प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः
यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवं ।अप्_77.007अब्।
पीठमूर्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका
मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत् ।अप्_77.008अब्।
ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा
जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः ।अप्_77.009अब्।
सर्वपाकाग्रमुद्धृत्य शिवाय विनिवेदयेत्
अथार्धं(2) चुल्लिकाहोमे विधानायोपकल्पयेत्(3) ।अप्_77.010अब्।
विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिं
हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना ।अप्_77.011अब्।
वह्निवीजं समादाय कादिस्थानगतिक्रमात्(4)
शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत् ।अप्_77.012अब्।
ओं हां अग्नये नमो वै हां सोमाय वै नमः
सूर्याय वृहस्पतये प्रजानां पतये नमः ।अप्_77.013अब्।
सर्वेभ्यश् चैव देवेभ्यः सर्वविश्वेभ्य एव च
:न्
1 दत्तं गृहाणेति ग, घ, चिह्नितपुस्तकद्वयपाठः
2 अन्यार्धमिति ख, चिह्नितपुस्तकपाठः । अन्त्यार्धमिति ङ,
चिह्नितपुस्तकपाठः
3 निधानायोपकल्पयेदिति च, ङ, चिह्नितपुस्तकद्वयपाठः
4 हृदि स्थानमतिक्रमेदिति ग, चिह्नितपुस्तकपाठः ।
कादिस्थानमतिक्रमादिति ख, चिह्नितपुस्तकपाठः
:प् 229
हामग्नये खिष्टिकृते पूर्वादावर्चयेदिमान् ।अप्_77.014अब्।
स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत्
चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः ।अप्_77.015अब्।
वामबाहावधर्माय काञ्जिकादिकभाण्डके
रसपरिवर्तमानाय वरुणाय जलाग्नये(1) ।अप्_77.016अब्।
विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः
ओं रौद्रिके नमो गिरिके(2) नमश् चओलूखले यजेत् ।अप्_77.017अब्।
बलप्रियायायुधाय नमस्ते मुषले यजेत्
सम्मार्जन्यां देवतोक्ते कामाय शयनीयके ।अप्_77.018अब्।
मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः
भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके ।अप्_77.019अब्।
आचार्यः साधकःपुत्र समयी मौनमास्थितः
वटाश्वत्थार्कवाताविसर्जभल्लातकांस्त्यजेत् ।अप्_77.020अब्।
अपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः
स्वाहान्तेनाहुतीः पञ्च दत्वादीप्योदरानलं ।अप्_77.021अब्।
नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः
एतेभ्य उपवायुभ्यः स्वाहापोषानवारिणा ।अप्_77.022अब्।
भक्तादिकं निवेद्याय पिवेच्छेषोदकं नरः
अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत् ।अप्_77.023अब्।
प्राणाय स्वाहापानाय समानाय ततस् तथा
उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत् ।अप्_77.024अब्।
:न्
1 जलाशये इति ङ, चिह्नितपुस्तकपाठः
2 ओं रौद्रकोटिगिरिके इति ख, ग, घ, ङ,
चिह्नितपुस्तकचतुष्टयपाठः
:प् 230
अमृतापिश्चानमसीति शरीरे ऽन्नादिवायवः(1)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0