अग्नि पुराण · अध्याय 75
:ए इत्य् आदिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमो
ऽध्यायः ॥
:न्
1 गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः
2 सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः
3 पठित्वामुमिति ख, चिह्नितपुस्तकपाठः
4 हरहस्ते इति ग, चिह्नितपुस्तकपाठः
5 शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः
6 नमेदष्ताङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः
:प् 219
% छप्तेर् {75}
:श् अथ पञ्चसप्ततितमो ऽध्यायः
अग्निस्थापनादिविधिः
ईश्वर उवाच
अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः ।अप्_75.001अब्।
यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्(1)
उदङ्मुखः कुण्डमीक्षेत् प्रओक्षणं ताडनंकुशैः ।अप्_75.002अब्।
विदध्यादस्त्रमन्त्रेण वर्मणाभ्युक्षणं मतं
खड्गेन खातमुद्धारं पूरणं समतामपि ।अप्_75.003अब्।
कुर्वीत वर्मणा सेकं कुट्टनन्तु शरात्मना(2)
सम्मार्जनं समालेपं कलारूपप्रकल्पनं ।अप्_75.004अब्।
त्रिसूत्रीपरिधानं च वर्मणाभ्यर्चनं सदा
रेखात्रयमुदक् कुर्यादेकां पूर्वाननामधः ।अप्_75.005अब्।
कुशेन च शिवास्त्रेण यद्वा तासां विपर्ययः
वज्रीकरणमन्त्रेण हृदा दर्भैश् चतुष्पथं ।अप्_75.006अब्।
अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा
हृदा वागीश्वरीं तत्र ईशामावाह्य पूजयेत् ।अप्_75.007अब्।
वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितं
क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितं ।अप्_75.008अब्।
औदर्यं चैन्दवं भौतं एकीकृत्यानलत्रयं
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत् ।अप्_75.009अब्।
संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतं
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितं ।अप्_75.010अब्।
पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणं
:न्
1 दिव्यदृष्ट्या विल्प्कयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः
2 शराणुनेति ङ, चिह्नितपुस्तकपाठः
:प् 220
शिववीजमिति ध्यात्वा वागीशागर्भगोचरे ।अप्_75.011अब्।
वागीश्वरेण देवेन क्षिप्यमानं विभावयेत्
भूमिष्ठजानुक्को मन्त्री हृदात्मसम्मुखं क्षिपेत् ।अप्_75.012अब्।
ततो ऽन्तस्थितवीजस्य(1) नाभिदेशे समूहनं
सम्भृतिं परिधानस्य शौचमाचमनं हृदा ।अप्_75.013अब्।
गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना(2)
बध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे ।अप्_75.014अब्।
गर्भाधानाय सम्पूज्य सद्योजातेन पावकं
ततो हृदयमन्त्रेण जुहुयादाहुतित्रयं ।अप्_75.015अब्।
पुंसवनाय वामेन तृतीये यासि पूजयेत्
आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं ।अप्_75.016अब्।
सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा
जुहुयादाहुतीस्तिस्रः शिखया शिखयैव तु ।अप्_75.017अब्।
वक्त्राङ्गकल्पनां कुर्याद्वक्त्रोद्घाटननिष्कृती
जातकर्मनृकर्मभ्यां दशमे मासि पूर्ववत् ।अप्_75.018अब्।
वह्निं सन्धुक्ष्य दर्भाद्यैः(3) स्नानं गर्भमलापहं
सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्चयेत् ।अप्_75.019अब्।
सद्यःसूतकनाशाय प्रोक्षयेदस्त्रवारिणा
कुम्भन्तु(4) वहिरस्त्रेण ताडयेद्वर्मणोक्षयेत् ।अप्_75.020अब्।
अस्त्रेणोत्तरपूर्वाग्रान्मेखलासु वहिः कुशान्
:न्
1 ततोन्तस्थितदेवस्य इति ख, चिह्नितपुस्तकपाठः
2 शरात्मना इति ख, चिह्नितपुस्तकपाठः
3 गन्धाद्यैर् इति ख, चिह्नितपुस्तकपाठः
4 कुण्डन्तु इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 221
आस्थाप्य(1) स्थापयेत्तेषु हृदा परिधिविस्तरं ।अप्_75.021अब्।
वक्ताणामस्त्रमन्त्रेण ततो नालापन्नुत्तये
समिधिः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ।अप्_75.022अब्।
ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्चयेत्
दूर्वाक्षतैश् च पर्यन्तं परिधिस्थाननुक्रमात् ।अप्_75.023अब्।
इन्द्रादीशानपर्यन्तान्तान्विष्टरस्थाननुक्रमात्
अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्चयेत् ।अप्_75.024अब्।
निवार्य विघ्नसङ्घातं वालकं पालयिष्यथ
शैवीमाज्ञाभिमान्तेषां श्रावयेत्तदनन्तरं ।अप्_75.025अब्।
गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात्
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ।अप्_75.026अब्।
कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं
क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं(2) रवैः क्रमात् ।अप्_75.027अब्।
स्रुवि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना
त्रिसूत्रीवेष्टितग्रीवो पूजितौ कुसुमादिभिः ।अप्_75.028अब्।
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे
गव्यमाज्यं समादाय वीक्षणादिविशोधितं ।अप्_75.029अब्।
स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्यादाय तद्घृतं
कुण्डस्योर्ध्वं हृदावर्त्य भ्रामयित्वाग्निगोचरे ।अप्_75.030अब्।
पुनर्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे
धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना(2) ।अप्_75.031अब्।
:न्
1 आस्तीर्येति घ, ङ, चिह्नितपुस्तद्वयपाठः
2 हां ह्रीं ह्रं समिति ख, चिह्नितपुस्तकपाठः । हूं हां
क्रूं समिति ङ, चिह्नितपुस्तकपाठः
3 शिरसात्मना इति ख, चिह्नितपुस्तकपाठः
:प् 222
जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं
भावयन्निजमात्मानं नाभौ धृत्वाप्लवेत्ततः ।अप्_75.032अब्।
प्रादेशमात्रदर्भाभ्यामङ्गुष्टानामिकाग्रकैः
धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत् ।अप्_75.033अब्।
हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः
हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवितयेत् ।अप्_75.034अब्।
दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत्
अस्त्रमन्त्रेण निर्दग्धं वह्नौ दर्भं पुनः क्षिपेत् ।अप्_75.035अब्।
क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं
पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत् ।अप्_75.036अब्।
क्रामाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत्
स्वेत्यग्नौ हा घृते(1) भागं शेषमाज्यं क्षिपेत् क्रमात् ।अप्_75.037अब्।
ओं हां अग्नये स्वाहा । ओं हां सोमाय स्वाहा । ओं हां
अग्नीषोमाभ्यां स्वाहा
उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे
स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत् ।अप्_75.038अब्।
ओं हां अग्नये स्विष्टकृते स्वाहा
अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया
अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना(2) ।अप्_75.039अब्।
हृदाज्यविन्दुविक्षेपात् कुर्यादभ्युक्ष्य शोधनं
वक्त्राभिघारसन्धानां वक्त्रैकीकरणं तथा ।अप्_75.040अब्।
ओं हां सद्योजाताय स्वाहा । ओं हां वामदेवाय स्वाहा । ओं
हां
:न्
1 स्वाहेत्यग्नौ घृते इति ङ, चिह्नितपुस्तकपाठः
2 शरात्मनेति ण, चिह्नितपुस्तकपाठः
:प् 223
अघोराय स्वाहा । ओं तत्पुरुषाय स्वाहा । ओं हां ईशानाय
स्वाहा
इत्येकैकघृताहुत्या कुर्याद्वक्त्राभिघारकं
औं हां सद्योजातवामदेवाभ्यां स्वाहा । ओं हां
वामदेवाघोराभ्यां स्वाहा । ओं हां अघोरतत्पुरुषाभ्यां
स्वाहा । ओं हां तत्पुरुषेशानाभ्यां स्वाहा
इतिवक्त्रानुसन्धानं मन्त्रैर् एभिः क्रमाच्चरेत् ।अप्_75.041अब्।
अग्रितो गतया वायुं निरृतादिशिवान्तया
वक्त्राणामेकतां कुर्यात् स्रुवेण घृतघारया ।अप्_75.042अब्।
ओं हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा
इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः
ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयं ।अप्_75.043अब्।
कुर्यात् सर्वात्मना नाम शिवाग्निस्त्वं हुताशन
हृदार्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं ।अप्_75.044अब्।
मूलेन वौषडन्तेन दद्यात् पूर्णां यथाविधि
ततो हृदम्बुजे साङ्गं ससेनं भासुरं परं(1) ।अप्_75.045अब्।
यजेत् पूर्ववदावाह्य प्रार्थ्याज्ञान्तर्पयेच्छिवं
यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना ।अप्_75.046अब्।
शक्त्या मूलाणुना होमं कुर्यादङ्गैर् दशांशतः
घृतस्य कार्षिको होमः क्षीरस्य मधुनस् तथा ।अप्_75.047अब्।
शक्तिमात्राहुतिर्दध्नः प्रसृतिः पायस्यतु
यथावत् सर्वभक्षाणां लाजानां मुष्टिसम्मितं ।अप्_75.048अब्।
खण्डत्रयन्तु मूलानां कलानां स्वप्रमाणतः
:न्
1 ससेनं भास्करं परमिति ख, चिह्नितपुस्तकपाठः । शासनं
भास्करं परमिति ग, चिह्नितपुस्तकपाठः । शाशनं भास्रं
परमिति ङ चिह्नितपुस्तकपाठः । शासनं त्र्यक्षरं परमिति
घ, चिह्नितपुस्तकपाठः
:प् 224
ग्रासार्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत् ।अप्_75.049अब्।
इक्षोरापर्विकं मानं लतानामङ्गुलद्वयं
पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलं ।अप्_75.050अब्।
चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्दमान्
कलायसम्मितानेनान् गुग्गुलं वदरास्थिवत् ।अप्_75.051अब्।
कन्दानामष्टमं भागं जुहुयाद्विधिवत् परं
होमं निर्वर्तयेदेवं ब्रह्मवीजपदैस्ततः ।अप्_75.052अब्।
घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवं
स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना ।अप्_75.053अब्।
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया
समुद्गतो अर्धकायश् च समपादः समित्थितः ।अप्_75.054अब्।
नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः
ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया(1) ।अप्_75.055अब्।
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः
मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत् ।अप्_75.056अब्।
तदग्नौ जुहुयादाज्यं यवसम्मितधारया
आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि ।अप्_75.057अब्।
भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परां
ततो वह्निं समभ्यर्च्य पडन्तास्त्रेण संवरान् ।अप्_75.058अब्।
संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च
भासुरान्(2) परिधीस्तांश् च पूरकेण हृदाणुना(3) ।अप्_75.059अब्।
:न्
1 विनिःसृत्य स्वपृष्टया इति ख, चिह्नितपुस्तकपाठः ।
विनिःसृत्य स्वपुष्टया इति ग, चिह्नितपुस्तकपाठः
2 भास्वरानिति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः
3 हृदात्मनेति ख, ग, चिह्नितपुस्तकपाठः
:प् 225
श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे
सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयं(1) ।अप्_75.060अब्।
अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ
ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा ।अप्_75.061अब्।
वारुणे हां गणेभ्यश् च स्वाहा तेभ्यस्त्वयं बलिः
उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ(2) ।अप्_75.062अब्।
अग्नौ हामसुरेभ्यश् च रक्षोभ्यो नैरृते बलिः
वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश् च मध्यतः ।अप्_75.063अब्।
हां राशिभ्यः(3) स्वाहा वह्नौ विश्वेभ्यो नैरृते यथा
वारुण्यां(4) क्षेत्रपालाय अन्तर्बलिरुदाहृतः ।अप्_75.064अब्।
द्वितीये मण्डले वाह्ये इन्द्यायाग्नियमाय च
नैरृताय जलेशाय वायवे धनरक्षिणे ।अप्_75.065अब्।
ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः
नैरृते विष्णवे स्वाहा वायसादेर्वहिर्बलिः ।अप्_75.066अब्।
बलिद्वयगतान्मन्त्रान् संहारमुद्रया.अत्मनि
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0