भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 76

76.001

:ए इत्य् आदिमहापुराणे आग्नेये अग्निकार्यं नाम पञ्चसप्ततितमो
ऽध्यायः ॥
:न्
1 कृत्वा च मण्डलद्वयमिति ख, चिह्नितपुस्तकपाठः
2 गणेभ्य उ इति ग, चिह्नितपुस्तकपाठः
3 हां ऋपिभ्य इति ङ, चिह्नितपुस्तकपाठः
4 वायव्यामिति ग, चिह्नितपुस्तकपाठः । नैरृत इति ङ,
चिह्नितपुस्तकपाठः
:प् 226
% छप्तेर् {76}
:श् अथ षट्सप्ततितमो ऽध्यायः
चण्दपूजाकथनं
ईश्वर उवाच
ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम ।अप्_76.001अब्।
गृहाण भगवन् पुण्यफलमित्यभिधाय च

76.002

अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया ।अप्_76.002अब्।
हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत्

76.003

ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च ।अप्_76.003अब्।
अर्घ्यं पराङ्मुखं दत्वा क्षमस्वेत्यभिधाय च

76.004

नाराचमुद्रयास्त्रेण फडन्तेनात्मसञ्चयं ।अप्_76.004अब्।
संहृत्य दिव्यया लिङ्गं मूर्तिमन्त्रेण योजयेत्

76.005

स्थण्डिले त्वर्चिते देवे मन्त्रसङ्घातमात्मनि ।अप्_76.005अब्।
नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनं

76.006

ओं चण्डेशानाय नमो मध्यतश् चण्डमूर्तये ।अप्_76.006अब्।
ओं धूलिचण्डेश्वराय(1) हूं फट्(2) स्वाहा तमाह्णयेत्

76.007

चण्डहृदयाय हूं फट् ओं चण्डशिरसे तथा(3) ।अप्_76.007अब्।
ओं चण्डशिखायै हूं फट् चण्डायुः(4) कवचाय च

76.008

चण्डस्त्राय तथा हूं फट् चण्डं रुद्राग्निजं स्मरेत् ।अप्_76.008अब्।
शूलटङ्कधरं कृष्णं साक्षसूत्रकण्डलुं

76.009

टङ्काकरे ऽर्धचन्द्रे(5) वा चतुर्वक्त्रं प्रपूजयेत् ।अप्_76.009अब्।
:न्
1 ओं बलिचण्डेश्वराय इति ग, चिह्नितपुस्तकपाठः
2 क्रूं फडिति ङ, चिह्नितपुस्तकपाठः
3 हूं चण्डशिरसे स्वाहेति ग, चिह्नितपुस्तकपाठः
4 हूं फट् चण्दत इति ग, घ, चिह्नितपुस्तकद्वयपाठः
5 टङ्कारेणार्धचन्द्रे इति ख, चिह्नितपुस्तकपाठः
:प् 227
यथाशक्ति जपं कुर्यादङ्गानान्तु दशांशतः

76.010

गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणं ।अप्_76.010अब्।
विहाय शेसनिर्माल्यं चण्डेशाय निवेदयेत्

76.011

लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनं ।अप्_76.011अब्।
निर्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया

76.012

सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञया ।अप्_76.012अब्।
न्यूनाधिकं कृतं मोहात् परिपूर्णं सदास्तु मे

76.013

इति विज्ञाप्य देवेशं दत्वार्घ्यं तस्य संस्मरन् ।अप्_76.013अब्।
संहारमूर्तिमन्त्रेण शनैः संहारमुद्रया

76.014

पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत् ।अप्_76.014अब्।
निर्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा ।अप्_76.014च्द्।
प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तो ऽन्यत्समाचरेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc