अग्नि पुराण · अध्याय 74
:ए इत्य् आदिमहापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमो
ऽध्यायः ॥
% छप्तेर् {74}
:श् अथ चतुःसप्ततितमो ऽध्यायः
शिवपूजाकथनं
ईश्वर उवाच
शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् ।अप्_74.001अब्।
द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत्
गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत् ।अप्_74.002अब्।
नन्दिगङ्गे दक्षिणे ऽथ स्थिते(3) वामगते यजेत्
महाकालं च यमुनां दिव्यदृष्टिनिपातितः ।अप्_74.003अब्।
उत्सार्य दिव्यान् विघ्नांश् च पुष्पाक्षेपान्तरिक्षगान्
दक्षपार्ष्णित्रिभिर्घातैभूमिष्ठान्यागमन्दिरं ।अप्_74.004अब्।
देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत्
प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे ।अप्_74.005अब्।
ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत्
:न्
1 संहारिण्योपसंहतमिति ख, चिह्नितपुस्तकपाठः ।
संहारिष्णोपसंहृतमिति ग, ङ,
चिह्नितपुस्तकद्वयपाठः
2 अभ्यर्च्य चेति ङ, चिह्नितपुस्तकपाठः
3 दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 211
निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्(1) ।अप्_74.006अब्।
लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत्
पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा ।अप्_74.007अब्।
पूरयेदम्बुधौ तांस्तान् गयत्र्या हृदयेन वा
गन्धकाक्षत(2) पुष्पादिसर्वद्रव्यसमुच्चयं ।अप्_74.008अब्।
सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत्
देवदक्षे ततो न्यस्य सौम्यास्यश् च शरीरतः(3) ।अप्_74.009अब्।
संहारमुद्रयादाय मूर्ध्नि मन्त्रेण(4) धारयेत्
भोग्यकर्मोपभोगार्थं पाणिकच्छपिकाख्यया ।अप्_74.010अब्।
हृदम्बुजे निजात्मानं द्वादशान्तपदे ऽथवा
शोधयेत् पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ(5) ।अप्_74.011अब्।
चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्वहिः स्मरेत्
शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे(6) पावकप्रभे ।अप्_74.012अब्।
रन्ध्रमध्यस्थिते(7) कृत्वा प्राणरोधं हि चिन्तकः
निवेशयेद्रेचकान्ते(8) फडन्तेनाथ तेन च ।अप्_74.013अब्।
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च
:न्
1 गन्धकान् इति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख,
चिह्नितपुस्तकपाठः
2 गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः ।
गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः
3 सौम्यास्यः स्वशरीरत इति घ, चिह्नितपुस्तकपाठः
4 मूर्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः
5 स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः
6 पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः
7 चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ,
चिह्नितपुस्तकपाठः
8 निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः
:प् 212
ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।अप्_74.014अब्।
सम्पुटं हृदयेनाथ पूरकाहितचेतनं
हूं शिखोपरि विन्यस्य शुद्धं विन्द्वात्मकं(1) स्मरेत् ।अप्_74.015अब्।
कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत्
रेचकेन वीजवृत्त्या शिवे लीनो ऽथ शोधयेत् ।अप्_74.016अब्।
प्रतिलोमं स्वदेहे तु(2) विन्द्वन्तं तत्र विन्दुकं
लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।अप्_74.017अब्।
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु
पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।अप्_74.018अब्।
हौमित्यात्मीयवीजेन(3) तन्निवृत्तिकलामयं
पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।अप्_74.019अब्।
उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत्
अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं(4) ।अप्_74.020अब्।
ह्रीमित्यनेन वीजेन प्रतिष्ठारूपतां गतं
संयुक्तं राममन्त्रेण(5) पुरुषान्तमकारणं ।अप्_74.021अब्।
अर्घ्यञ्चतुर्भिरुद्घातैर् वह्निभूतं विशोधयेत्
आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं ।अप्_74.022अब्।
हूमित्यनेन वीजेन विद्यारूपं विभावयेत्
घोराणुत्रिभिरुद्घातैर् जलभूतं विशोधयेत् ।अप्_74.023अब्।
:न्
1 विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः
2 स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः
3 हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः ।
हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः
4 अर्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ,
चिह्नितपुस्तकपाठः
5 वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख,
चिह्नितपुस्तकपाठः
:प् 213
षडस्रं मण्डलं वायोर्विन्दुभिः षड्भिरङ्कितं
कृष्णं ह्रेमिति वीजेन जातं शान्तिकलामयं ।अप्_74.024अब्।
सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत्
नभोविन्दुमयं वृत्तं विन्दुशक्तिविभूषितं ।अप्_74.025अब्।
व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं
हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं ।अप्_74.026अब्।
ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत्
आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा(1) ।अप्_74.027अब्।
आधाराख्यामनन्तञ्च धर्मज्ञानादिपङ्कजं
हृदासनमिदं(2) ध्यात्वा मूर्तिमावाहयेत्ततः ।अप्_74.028अब्।
सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः
अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः ।अप्_74.029अब्।
दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं
हृदयादिकरान्तेषु(3) कनिष्ठाद्यङ्गुलीषु च ।अप्_74.030अब्।
हृदादिमन्त्रविन्यासः सकलीकरणं मतं
अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः ।अप्_74.031अब्।
शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत्
आपदमस्तकं यावद् भावपुष्पैः(4) शिवं हृदि ।अप्_74.032अब्।
पद्मे यजेत् पूरकेण आकृष्टामृतसद्घृतैः
शिवमन्त्रैर् नाभिकुण्डे तर्पयेत शिवानलं ।अप्_74.033अब्।
:न्
1 मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः
2 हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः
3 हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः
4 तावत् पुष्पैर् इति ङ, चिह्नितपुस्तकपाठः
:प् 214
ललाटे विन्दुरूपञ्च चिन्तयेच्छुभविग्रहं(1)
एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं ।अप्_74.034अब्।
विन्दुप्रसूतपीयूषरूपतोयाक्षतादिना
हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् ।अप्_74.035अब्।
संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत्
रचयित्वार्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया(2) ।अप्_74.036अब्।
अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयविन्दुना
तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा ।अप्_74.037अब्।
अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत्
दर्शयित्वामृतां मुद्रां पुष्पं दत्वा निजासने ।अप्_74.038अब्।
विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत्
स्नाने देवार्चने होमे भोजने यागयोगयोः ।अप्_74.039अब्।
आवश्यके जपे धीरः सदा वाचंयमो भवेत्
नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं ।अप्_74.040अब्।
पूजने ऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत्
ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः ।अप्_74.041अब्।
ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत्
प्रक्षाल्य पिण्दिकालिङ्गे अस्त्रतोये ततो हृदा ।अप्_74.042अब्।
अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं
आतमद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् ।अप्_74.043अब्।
वायव्ये गणपतये हां गुरुभ्यो ऽर्चयेच्छिवे
:न्
1 चिन्तयेत् सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः
2 रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः
:प् 215
आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां ।अप्_74.044अब्।
यजेद् ब्रह्मशिलारूढं शिवस्यानन्तमासनं
विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः ।अप्_74.045अब्।
कृतत्रेतादिरूपेण शिवस्यासनपादुकां
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्चाग्निदिङ्मुखान् ।अप्_74.046अब्।
कूर्पारकुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात्
पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव ।अप्_74.047अब्।
वरदाभयहस्ताश् च शक्तयो धृतचामराः
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी ।अप्_74.048अब्।
बलविकरणी पूज्या बलप्रमथनी क्रमात्
हां सर्वभूतदमनी केशराग्रे मनोन्मनी ।अप्_74.049अब्।
क्षित्त्यादि शुद्धविद्यान्तु तत्त्वव्यापकमासनं
न्यसेत् सिंहासने देवं शुक्लं पञ्चमुखं विभुं ।अप्_74.050अब्।
दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः
शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः ।अप्_74.051अब्।
डमरुं वीजपुरञ्च नीलाब्जं सूत्रकोत्पलं
द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः ।अप्_74.052अब्।
हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन्
ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं ।अप्_74.053अब्।
ततो ललातमध्यस्थं स्फुरत्तारापतिप्रभं
षडङ्गेन समाकीर्णं विन्दुरूपं परं शिवं ।अप्_74.054अब्।
पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत्
ओं हां हौं शिवाय नम आवाहन्या हृद्दा ततः ।अप्_74.055अब्।
आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं
निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः ।अप्_74.056अब्।
:प् 216
विघ्नानुत्सार्य विष्ठ्याथ(1) लिङ्गमुद्रां नमस्कृतिं
हृदावगुण्ठयेत् पश्चादावाहः सम्मुखी ततः ।अप्_74.057अब्।
निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः
आकर्मकाण्डपर्यन्तं सन्नेधेयोपरिक्षयः ।अप्_74.058अब्।
स्वभक्तेश् च(2) प्रकाशोयस्तद्भवेदवगुण्ठनं
सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां ।अप्_74.059अब्।
अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं
चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा(3) ।अप्_74.060अब्।
शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरं
प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं ।अप्_74.061अब्।
नमः स्वधा च स्वाहा च वौषट् चेति यथाक्रमं
हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् ।अप्_74.062अब्।
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं
अर्घ्यं शिरसि देवस्य दूर्वापुष्पाक्षतानि च ।अप्_74.063अब्।
एवं संस्कृत्य संस्कारैर् दशभिः परमेश्वरं
यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः ।अप्_74.064अब्।
अभ्युक्ष्योद्धर्त्य निर्म्भञ्ज्य राजिकालवणादिभिः
अर्घ्योदविन्दुपुष्पाद्यैर् गड्डूकैः(4) स्नापयेच्छनैः ।अप्_74.065अब्।
पयोदधिघृतक्षौद्रशर्कराद्यैर् अनुक्रमात्
ईशादिमन्त्रितर्द्रव्यैर् अर्च्य तेषां(5) विपर्ययः ।अप्_74.066अब्।
:न्
1 छोट्याथ इति ख, चिह्नितपुस्तकपाठः
2 अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः
3 शिवमैश्वर्यमष्टधा इति ग, घ,
चिह्नितपुस्तकद्वयपाठः
4 गन्धकैर् इति ख, चिह्नितपुस्तकपाठः
5 इत्य् आदिमन्त्रितैर् भक्ष्यैश् चैषामिति ख,
चिह्नितपुस्तकपाठः
:प् 217
तोयधूपान्तरैः सर्वैर् मूलेन स्नपयेच्छिवं
विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर् जलैः ।अप्_74.067अब्।
स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा
निर्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत् करं ।अप्_74.068अब्।
न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात्ततो ददेत्
चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना(1) ।अप्_74.069अब्।
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना(2)
अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् ।अप्_74.070अब्।
दद्यादाचमनं पश्चात् स्वधान्तं हृदयाणुना(3)
आरात्रिकं समुत्तार्य तथैवाचामयेत् पुनः ।अप्_74.071अब्।
प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत्
हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं ।अप्_74.072अब्।
शिखां रक्ताञ्च नैरृत्ये कृष्णं वर्म च वायवे
चतुर्वक्त्रं चतुर्बाहुं(4) दलस्थान्(5) पूजयेदिमान् ।अप्_74.073अब्।
दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभं
मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश् च ।अप्_74.074अब्।
हृं शिखायै हैं वर्म हश्चास्त्रं परिवारयुताय च
शिवाय दद्यात् पाद्यञ्च आचामञ्चार्घ्यमेव च ।अप्_74.075अब्।
गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं
करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं ।अप्_74.076अब्।
:न्
1 शिवात्मनेति ख, चिह्नितपुस्तकपाठः
2 शिवात्मनेति ख, चिह्नितपुस्तकपाठः
3 हृदयात्मनेति ख, चिह्नितपुस्तकपाठः
3 चतुर्वक्त्रांश् चतुर्बाहून् इति घ, ङ,
चिह्नितपुस्तकद्वयपाठः
5 दलाग्रे इति ङ, चिह्नितपुस्तकपाठः
:प् 218
शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं
मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं ।अप्_74.077अब्।
चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः
अक्षतैर् मुद्राया युक्तं शिवमुद्भवसञ्ज्ञया ।अप्_74.078अब्।
गुह्यातिगुह्यगुप्त्यर्थं(1) गृहाणास्मत्कृतं जपं
सिद्धिर्भवतु मे येन(2) त्वत्प्रसादात्त्वयि स्थिते ।अप्_74.079अब्।
भोगी श्लोकं पठित्वाद्यं(3) दक्षहस्तेन शम्भवे
मूलाणुनार्घ्यतोयेन वरहस्ते(4) निवेदयेत् ।अप्_74.080अब्।
यत्किञ्चित् कुर्महे देव सदा सुकृतदुस्कृतं
तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर ।अप्_74.081अब्।
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत्
शिवो जयति सर्वत्र यः शिवः सोहमेव च ।अप्_74.082अब्।
श्लोकद्वयमधीत्यैवं जपं देवाय चार्पयेत्
शिवाङ्गानां(5) दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् ।अप्_74.083अब्।
प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्तये(6) ।अप्_74.083च्द्।
नत्वा ध्यानादिभिश् चैव यजेच्चित्रे ऽनलादिषु
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0