अग्नि पुराण · अध्याय 66
:ए इत्य् आदिमहापुराणे आग्नेये सभागृहस्थापनं नाम
पञ्चषष्टितमो ऽध्यायः ॥
:न्
1 गोपुच्छहस्तक इति घ, चिह्नितपुस्तकपाठः
2 देवाज्ञां प्राप्य इति ग, चिह्नितपुस्तकपाठः
:प् 193
% छप्तेर् {66}
:श् अथ षट्षष्टितमो ऽध्यायः
साधारणप्रतिष्ठाविधानं
भगवानुवाच
समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् ।अप्_66.001अब्।
आदित्या वसवो रुद्राः साध्या विश्वे ऽश्विनौ तथा
ऋषयश् च तथा सर्वे वक्ष्ये तेषां विशेषकं ।अप्_66.002अब्।
यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं
मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्(1) ।अप्_66.003अब्।
प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं(2)
सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा ।अप्_66.004अब्।
नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां
मासोपवासं द्वादश्यां इत्य् आदिस्थापनं वदे ।अप्_66.005अब्।
शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः
ब्रह्मकूर्चं समाहृत्य श्रपेद् यवमयं चरुं ।अप्_66.006अब्।
क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः
प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः ।अप्_66.007अब्।
साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत्
व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् ।अप्_66.008अब्।
विश्वतश् चक्षुर्वेद्यैर् भूरग्नये तथैव च
सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् ।अप्_66.009अब्।
द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः
तस्मै सोमञ्च राजानं इन्द्राद्यैर् होममाचरेत् ।अप्_66.010अब्।
:न्
1 अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः
:प् 194
एवं हुत्वा(1) चरोर्भागान् दद्याद्दिग्बलिमादरात्
समिधो ऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं ।अप्_66.011अब्।
कुर्यात् पुरुषसूक्तेन इरावती तिलाष्टकं
हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ।अप्_66.012अब्।
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः
पर्वतानां नदीनाञ्च समुद्राणां तथा.अहुतीः ।अप्_66.013अब्।
हुत्वा च व्याहृतीर्दद्द्यात् स्रुवपूर्णाहुतित्रयं
वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ।अप्_66.014अब्।
पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां
तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां ।अप्_66.015अब्।
प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः
मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः ।अप्_66.016अब्।
यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं
तिलतण्डुलनीवारैः श्यामाकैर् अथवा यवैः ।अप्_66.017अब्।
आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः
विष्ण्वादीनां मासपानां तदन्ते होमयेत् पुनः ।अप्_66.018अब्।
ओं विष्णवे स्वाहा । ओं विष्णवे(2) निभूयपाय स्वाहा । ओं
विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं
पुरुषोत्तमाय स्वाहा
द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः
विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः ।अप्_66.019अब्।
:न्
1 एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ,
चिह्नितपुस्तकपाठः
2 ओं विष्णवे प्रवृषाय स्वाहा इति घ,
चिह्नितपुस्तकपाठः
:प् 195
इदं विष्णुरिरावती चरोर्द्वादश आहुतीः
हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् ।अप्_66.020अब्।
शेषहोमं ततः कृत्वा दद्यात् पूर्णाहुतित्रयं
युञ्जतेत्यनुवाकन्तु(1) जप्त्वा प्राशीत वै चरुं ।अप्_66.021अब्।
प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले
ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् ।अप्_66.022अब्।
त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश
कुम्भान् स्वाद्वम्बुसंयुक्तान्(2) सच्छत्रोपानहान्वितान् ।अप्_66.023अब्।
गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ।अप्_66.024अब्।
इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत्
दशहस्तं प्रपा.अराममठसङ्क्रमणादिषु ।अप्_66.025अब्।
गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि
पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ।अप्_66.026अब्।
अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत्
द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः ।अप्_66.027अब्।
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत्
मठप्रदानात् स्वर्लोके शक्रलोके वसेत्ततः ।अप्_66.028अब्।
प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि
इष्टकासेतुकारी च गोलोके मार्गकृद्गवां ।अप्_66.029अब्।
नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा
गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं ।अप्_66.030अब्।
:न्
1 अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकपाठः
2 स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ,
चिह्नितपुस्तकचतुष्टयपाठः
:प् 196
समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0