भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 65

65.001

:ए इत्य् आदिमहापुराणे आग्नेये
कूपवापीतडागादिप्रतिष्ठाकथनं नाम
चतुःषष्टितमो ऽध्यायः ॥
% छप्तेर् {65}
:श् अथ पञ्चषष्टितमो ऽध्यायः
सभास्थापनकथनं
भगवानुवाच
सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं ।अप्_65.001अब्।
भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत्

65.002

स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत् सुरान् ।अप्_65.002अब्।
:न्
1 तोयं समुत्सृजेदेवमिति ख, चिह्नितपुस्तकपाठः
2 गोकुलं पाययेद् द्विजानिति ङ, चिह्नितपुस्तकपाठः
:प् 191
चतुष्पथे ग्रामादौ(1) च न शून्ये कारयेत् सभां

65.003

निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते ।अप्_65.003अब्।
अनेन विधिना कुर्यात् सप्तभौमं हरेर्गृहं

65.004

यथा राज्ञां तथान्येषां पूर्वाद्याश् च ध्वजादयः ।अप्_65.004अब्।
कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत्

65.005

त्रिशालं वा द्विशालं वा एकशालमथापि वा ।अप्_65.005अब्।
व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत्

65.006

आयाधिके भवेत् पीडा तस्मात् कुर्यात् समं द्वयं ।अप्_65.006अब्।
करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः

65.007

सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः ।अप्_65.007अब्।
अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः

65.008

अथवा करराशिं तु हन्यात् सप्तार्चिषा बुधः ।अप्_65.008अब्।
वसुभिः संहृते भागे पृथ्व्यादि(2) परिकल्पयेत्

65.009

ध्वजो धूम्रस् तथा सिंहः श्वा वृषस्तु खरो गजः ।अप्_65.009अब्।
तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत्

65.010

त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं ।अप्_65.010अब्।
याम्यां परगृहोपेतं द्विशालं लभ्यते सदा

65.011

याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा ।अप्_65.011अब्।
एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः

65.012

चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ।अप्_65.012अब्।
एकभौमादि कुर्वीत भवनं सप्तभौमकं

65.013

द्वारवेद्यादिरहितं पूरणेन विवर्जितं ।अप्_65.013अब्।
देवगृहं देवतायाः प्रतिष्ठाविधिना सदा

65.014

:न्
1 पूश् चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः
2 ध्वजादि इति ख, चिह्नितपुस्तकपाठः
:प् 192
संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा ।अप्_65.014अब्।
प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः

65.015

मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं ।अप्_65.015अब्।
सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः(1)

65.016

गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य(2) संविशेत् ।अप्_65.016अब्।
गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः

65.017

ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ।अप्_65.017अब्।
जये भार्गवदायदे प्रजानां विजयावहे

65.018

पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ।अप्_65.018अब्।
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम

65.019

सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते ।अप्_65.019अब्।
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह

65.020

प्रजापतिसुते देवि चतुरस्रे महीयसि ।अप्_65.020अब्।
सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां

65.021

पूजिते परमाचार्यैर् गन्धमाल्यैर् अलङ्कृते ।अप्_65.021अब्।
भवभूतिकरे देवि गृहे भार्गवि रम्यतां

65.022

अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते ।अप्_65.022अब्।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं

65.023

देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।अप्_65.023अब्।
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc