अग्नि पुराण · अध्याय 67
:ए इत्य् आदिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम
षट्षष्टितमो ऽध्यायः ॥
% छप्तेर् {67}
:श् अथ सप्तषष्टितमो ऽध्यायः
जीर्णोद्धारविधानं
भगवानुवाच
जीर्णाद्धारविधिं वक्ष्ये भूषितां स्नपयेद्गुरुः(1) ।अप्_67.001अब्।
अचलां विन्यसेद्गेहे अतिजीर्णां परित्यजेत्
व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत् ।अप्_67.002अब्।
संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः
सहस्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः ।अप्_67.003अब्।
दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले
धातुजां रत्नजां वापि अगाधे वा जले ऽम्बुधौ ।अप्_67.004अब्।
यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत्
वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।अप्_67.005अब्।
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।अप्_67.005च्द्।
कूपवापीतडागादेर्जीर्णोद्धारे महाफलं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0