अग्नि पुराण · अध्याय 61
:ए इत्य् आदिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम
षष्टितमो ऽध्यायः ॥
% छप्तेर् {61}
:श् अथ एकषष्टितमो ऽध्यायः
द्वारप्रतिष्ठाध्वजारोहाणादिविधिः
भगवानुवाच
वक्षे चावभृतस्नानं विष्णोर् नत्वेति(1) होमयेत् ।अप्_61.001अब्।
एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं
पूजयेद् गन्धपुष्पाद्यैर् बलिं दत्वा गुरुं यजेत् ।अप्_61.002अब्।
द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत्
अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ।अप्_61.003अब्।
गन्धादिभिः समभ्यर्च्य मन्त्रैर् वेदादिभिर्गुरुः
कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ।अप्_61.004अब्।
दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां
शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ।अप्_61.005अब्।
ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां
न्यस्याभ्यर्च्य(3) यथान्यायं श्रीसूक्तेन चतुर्मुखं ।अप्_61.006अब्।
दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां
प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं ।अप्_61.007अब्।
:न्
1 विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः
2 समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः
3 अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः
:प् 177
प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु
समाप्तौ शुकनाशाया(1) वेद्याः प्राग्दर्भमस्तके ।अप्_61.008अब्।
सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं(2)
अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ।अप्_61.009अब्।
सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत्
सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ।अप्_61.010अब्।
नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः
वैराजभूतान्तं(3) ध्यायेत् प्रासादस्य सुरेश्वर ।अप्_61.011अब्।
ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद् बुधः
अधो दत्वा सुवर्णं तु तद्ववद् भूतं(4) घटं न्यसेत् ।अप्_61.012अब्।
गुर्वादौ दक्षिणां दद्याद् ब्राह्मणादेश् च भोजनं
ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ।अप्_61.013अब्।
कण्ठोपरिष्टात् कर्तव्यं विमलामलसारकं
तदूर्ध्वं वृकलं(5) कुर्याच्चक्रञ्चाद्यं सुदर्शनं ।अप्_61.014अब्।
मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत्
कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ।अप्_61.015अब्।
वेद्याश् च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज(6)
:न्
1 वनमालायामिति ङ, चिह्नितपुस्तकपाठः
2 शुक्तिनिर्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्मितमिति
ङ, चिह्नितपुस्तकपाठः
3 वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः
4 तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः
5 तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः ।
तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ,
चिह्नितपुस्तकद्वयपाठः
6 अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ,
चिह्नितपुस्तकत्रयपाठः
:प् 178
चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ।अप्_61.016अब्।
ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति
प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ।अप्_61.017अब्।
तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक्
कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ।अप्_61.018अब्।
कण्ठस्यावेष्टनाज् ज्ञेयं फलं कोटिगुणं ध्वजात्
पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ।अप्_61.019अब्।
प्रासादं वासुदेवस्य मूर्तिभेदं(1) निबोध मे
धारणाद्धरणीं(2) विद्धि आकाशं शुषिरात्मकं ।अप्_61.020अब्।
तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा
पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं(3) ।अप्_61.021अब्।
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्कशादिकं
शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं(4) ।अप्_61.022अब्।
धूपादिगन्धं गन्धन्तु वाग् भेर्यादिषु संस्थिता
शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ।अप्_61.023अब्।
शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं
कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ।अप्_61.024अब्।
पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्तिता
मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ।अप्_61.025अब्।
तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं
:न्
1 मूर्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः
2 धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः ।
धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः ।
धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः
3 पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं
पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः
4 रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख,
चिह्नितप्सुअतकपाठः
:प् 179
निश् चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ।अप्_61.026अब्।
एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः
जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ।अप्_61.027अब्।
ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि
प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ।अप्_61.028अब्।
ध्वजं कृत्वा सुरैर् दैत्या जिताः शस्त्रादिचिह्नितं(1)
अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ।अप्_61.029अब्।
विम्बार्धमानं दण्डस्य(2) त्रिभागेनाथ कारयेत्
अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ।अप्_61.030अब्।
नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः
प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ।अप्_61.031अब्।
शिखरार्धेन वा कुर्यात् तृतीयार्धेन वा पुनः
द्वारस्य दैर्घ्याद् द्विगुणं दण्डं वा परिकल्पयेत् ।अप्_61.032अब्।
ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा
क्षौमाद्यैश् च ध्वजं कुर्याद्विचित्रं वैकवर्णकं(3) ।अप्_61.033अब्।
घण्टाचामरकिङ्किण्या भूषितं पापनाशनं
दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ।अप्_61.034अब्।
महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः
ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ।अप्_61.035अब्।
विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः
अधिवासविधानेन चक्रं दण्डं ध्वजं तथा ।अप्_61.036अब्।
:न्
1 जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः
शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः
2 विम्बार्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः
3 विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः
:प् 180
देववत् सकलं कृत्वा मण्डपस्नपनादिकं
नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ।अप्_61.037अब्।
अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः
ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद् बुधः ।अप्_61.038अब्।
तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत्
मनोरूपेण तस्यैव सजीवकरणं स्मृतं ।अप्_61.039अब्।
अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम
नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।अप्_61.040अब्।
नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत्
सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ।अप्_61.041अब्।
निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिं
तच्छक्तिं व्यापिनीं ध्यायेद् ध्वजरूपां बलाबलां(1) ।अप्_61.042अब्।
मण्डपे(2) स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत्
कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ।अप्_61.043अब्।
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः(3)
पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्(4) ।अप्_61.044अब्।
ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत्
ओं क्षों नृसिंहाय(5) नमः पूजयेत् स्थापयेद्धरिं ।अप्_61.045अब्।
ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः
:न्
1 चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग,
चिह्नितपुस्तकपाठः
2 मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
3 स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः
4 नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः
5 ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः
:प् 181
दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ।अप्_61.046अब्।
ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत्
शिरस्याधाय तत् पात्रं नारायनमनुस्मरन् ।अप्_61.047अब्।
प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः
ततो निवेशयेत् दण्डं मन्त्रेणाष्टाक्षरेण तु ।अप्_61.048अब्।
मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः
पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ।अप्_61.049अब्।
एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः
यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ।अप्_61.050अब्।
स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0