अग्नि पुराण · अध्याय 62
:ए इत्य् आदिमहापुराणे आग्नेये ध्वजारोहणं नाम
एकषष्टितमो ऽध्यायः
% छप्तेर् {62}
:श् अथ द्विषष्टितमो ऽध्यायः
लक्ष्मीप्रतिष्ठाविधिः
भगवानुवाच
समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते ।अप्_62.001अब्।
लक्ष्म्याः प्रतिष्ठा प्रथमं तथा देवीगणस्य च
पूर्ववत् सकलं कुर्यान्मण्डपस्नपनादिकं(1) ।अप्_62.002अब्।
भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान्(2)
घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः ।अप्_62.003अब्।
हिरण्यवर्णा हरिणी नेत्रे चोन्मीलयेच्छ्रियाः
:न्
1 मण्डलस्नपनादिकमिति ङ, चिह्नितपुस्तकपाठः
2 स्थापयेद्वरुणे घटानिति घ, ङ, चिह्नितपुस्तकपाठः
:प् 182
तन्म आवह(1) इत्य् एवं प्रदद्यान्मधुरत्रयम् ।अप्_62.004अब्।
अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्(2)
कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत् ।अप्_62.005अब्।
चन्द्रं प्रभासामुच्चार्यादित्यवर्णेति चोत्तरात्
उपैतु मेति चाग्नेयात् क्षुत्पिपासेति नैरृतात् ।अप्_62.006अब्।
गन्धद्वारेति वायव्यां मनसः काममाकृतिम्
ईशानकलशेनैव शिरः सौवर्णकर्दमात् ।अप्_62.007अब्।
एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम्(3)
आर्द्रां पुष्करिणीं गन्धैर् आर्द्रामित्यादिपुष्पकैः ।अप्_62.008अब्।
तन्मयावह मन्त्रेण य आनन्द ऋचाखिलं(4)
शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम् ।अप्_62.009अब्।
लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः
श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत् ।अप्_62.010अब्।
करवीराणि वा हुत्वा सहस्रं शतमेव वा
गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत् ।अप्_62.011अब्।
ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत्
मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः(5) ।अप्_62.012अब्।
श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत्(6)
चिच्छक्तिं बोधयित्वा तु मालात् सान्निध्यकं चरेत् ।अप्_62.013अब्।
:न्
1 अस्मिन्नावह इति ख, चिह्नितपुस्तकपाठः
2 अश्वमूर्धेति मन्त्रेण तां कुम्भेभिनिवेशयेदिति ङ,
चिह्नितपुस्तकपाठः
3 मन्त्रेण चासृजत् क्षितिमिति ख, चिह्नतपुस्तकपाठः
4 य आनन्देति वाससमिति ङ, चिह्नितपुस्तकपाठः
5 मन्त्रेण पिण्डिकां कृत्वा प्रतिमां स्थापयन् श्रिय इति ङ,
चिह्न्तपुस्तकपाठः
6 प्रत्यृचं यजेदिति ङ, चिह्नितपुस्तकपाठः
:प् 183
भूस्वर्णवस्त्रगोन्नादि(1) गुरवे ब्रह्मणेर्पयेत् ।अप्_62.013च्द्।
एवं देव्यो ऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0