अग्नि पुराण · अध्याय 60
:ए इत्य् आदिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमो
ऽध्यायः ॥
% छप्तेर् {60}
:श् अथ षष्टितमोध्यायः
वासुदेवप्रतिष्ठादिविधिः
भगवानुवाच
पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा ।अप्_60.001अब्।
विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः
देवमनुषपैशाचभागेषु न कदाचन ।अप्_60.002अब्।
ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज
देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका(3) ।अप्_60.003अब्।
नपुंसककशिलायान्तु रत्नन्यासं समाचरेत्
नारसिंहेन हुत्वा रत्नन्यासं(4) च तेन वै ।अप्_60.004अब्।
:न्
1 चतस्रः स्थापयेच्च गा इति ग, घ, ङ, चिह्नितपुस्तकत्रयपठः
2 घोषयेच्च ततो मखे इति ग, चिह्नितपुस्तकपाठः
3 स्थापयेदाशु पिण्डिकामिति ङ, चिह्नितपुस्तकपाठः
4 वर्णन्यासमिति ग, चिह्नितपुस्तकपाठः
:प् 173
व्रीहीन् रत्नांस्त्रिधातूंश् च लोहादींश् चन्दनादिकान्
पूर्वादिनवगर्तेषु न्यसेन् मध्ये यथारुचि ।अप्_60.005अब्।
अथ चेन्द्रादिमन्त्रैश् च गर्तो गुग्गुलुनावृतः
रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः ।अप्_60.006अब्।
सशलाकैर् दर्भपुञ्जैश् च सहदेवैः समन्वितैः
सवाह्यन्तैश् च संस्कृत्य पञ्चगव्येन शोधयेत् ।अप्_60.007अब्।
प्रोक्षयेद्दर्भतोयेन(1) नदीतीर्थोदकेन च
होमार्थे खण्डिलं कुर्यात् सिकताभिः समन्ततः ।अप्_60.008अब्।
सार्धहस्तप्रमाणं तु चतुरस्रं सुशोभनं
अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत् ।अप्_60.009अब्।
पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतं
त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत् ।अप्_60.010अब्।
अष्टार्णेनाष्टशतकं(2) आज्यं पूर्णां प्रदापयेत्
शान्त्युदकं आम्रपत्रैः(3) मूलेन शतमन्त्रितं ।अप्_60.011अब्।
सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश् च ते ह्य् अनया ऋचा
ब्रह्मयानेन(4) चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते ।अप्_60.012अब्।
तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत्
शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकं ।अप्_60.013अब्।
गीतवेदादिशब्दैश् च(5) प्रासादद्वारि धारयेत्
:न्
1 प्रोक्षयेद् गन्धतोयेनेति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः
2 अष्टान्तेनाष्टशतकमिति ख, घ,
चिह्नितपुस्तकद्वयपाठः
3 शान्त्युदकमाज्यपात्रैर् इति ख, चिह्नितपुस्तकपाठः
4 ब्रह्मपात्रेणेति ङ, चिह्नितपुस्तकपाठः
5 गीतवाद्यादिशब्दैश् च इति ङ, चिह्नितपुस्तकपाठः
:प् 174
स्त्रीभिर्विप्रैर् मङ्गलाष्टघटैः(1) संस्नापयेद्धरिं ।अप्_60.014अब्।
ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः
अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च ।अप्_60.015अब्।
स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत्
ओं त्रैलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम ।अप्_60.016अब्।
संस्थ्याप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः
ध्रुवा द्यौरिति मन्त्रेण विश्वतश् चक्षुरित्यपि ।अप्_60.017अब्।
पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च
पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिं ।अप्_60.018अब्।
ध्यायेत् स्वं तस्य मूर्तिन्तु पृथिवी तस्य पीठिका
कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः ।अप्_60.019अब्।
जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगं
चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितं ।अप्_60.020अब्।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं
ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितं ।अप्_60.021अब्।
हृदयात् प्रतिमाविम्बे स्थिरो भव परेश्वर
सजीवं कुरु बिम्बं त्वं सवाह्याभ्यन्तरस्थितः ।अप्_60.022अब्।
अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः
ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकं ।अप्_60.023अब्।
सजीवीकरणं कृत्वा प्रणवेन निबोधयेत्
सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् ।अप्_60.024अब्।
सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत्
नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने ।अप्_60.025अब्।
:न्
1 मङ्गलाष्टघटे इति ख, ग, चिह्नितपुस्तकद्वयपाठः
:प् 175
ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने
गुणातिक्रान्तवेशाय(1) पुरुषाय महात्मने ।अप्_60.026अब्।
अक्षयाय पुराणाय विष्णो सन्निहितो भव
यच्च ते परमं तत्त्वं(2) यच्च ज्ञानमयं वपुः ।अप्_60.027अब्।
तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यतां
आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान् ।अप्_60.028अब्।
स्वनाम्ना स्थापयेदन्यानायुधान् स्वमुद्रया
यात्रावर्षादिकं दृष्ट्वा(3) ज्ञेयः सन्निहितो हरिः ।अप्_60.029अब्।
नत्वा स्तुत्वा स्तवाद्यैश् च जप्त्वा चाष्टाक्षरादिकं
चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः ।अप्_60.030अब्।
अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत्
दिगीशान् दिशि देवांश् च स्थाप्य सम्पूज्य देशिकः ।अप्_60.031अब्।
विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत्
सर्वपार्षदकेभ्यश् च बलिं भूतेभ्य अर्चयेत् ।अप्_60.032अब्।
परमवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत्
यागोपयोगिद्रव्याद्यमाचार्याय नरोर्पयेत् ।अप्_60.033अब्।
आचार्यदक्षिणार्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत्
अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः ।अप्_60.034अब्।
अवारितान् फलान्(4) दद्याद्यजमानाय वै गुरुः
विष्णुं नयेत् प्रतिष्ठाता(5) चात्मना सकलं कुलं ।अप्_60.035अब्।
:न्
1 गुणातिक्रान्तरूपाय इति ख, चिह्नितपुस्तकपाठः
2 यच्च ते परमं गुह्यमिति ङ, चिह्नितपुस्तकपाठः
3 यात्रावर्षादिकं कृत्वेति ख, चिह्नितपुस्तकपाठः
4 अवारितफलमिति ङ, चिह्नितपुस्तकपाठः
5 प्रतिष्ठाकृदिति ख, ग, घ, ङ,
चिह्नितपुस्तकचतुष्टयपाठः
:प् 176
सर्वेषामेव देवानामेष साधारणो विधिः ।अप्_60.035च्द्।
मूलमन्त्राः पृथक्तेषां शेषं कार्यं समानकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0