भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 59

59.001

:ए इत्य् आदिमहापुराणे आग्नेये स्नपनादिविधानं नाम
अष्टपञ्चाशो ऽध्यायः ॥
% छप्तेर् {59}
:श् अथोनषष्टितमो ऽध्यायः
अधिवासनकथनं
भगवानुवाच
हरेः सान्निध्यकरणमधिवासनमुच्यते ।अप्_59.001अब्।
सर्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं

59.002

ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीं(1) ।अप्_59.002अब्।
निःसार्यात्मैकतां कृत्वा स्वस्मिन्(2) सर्वगते विभौ

59.003

योजयेन्मरुतां पृथ्वीं वह्निवीजेन दीपयेत् ।अप्_59.003अब्।
संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत्

59.004

:न्
1 मतिशालिनीमिति ख, चिह्नितपुस्तकपाठः
2 कृत्वा पुंसीति ङ, चिह्नितपुस्तकपाठः
:प् 167
अधिभूतादिदेवैस्तु साध्याख्यैर् विभवैः(1) सह ।अप्_59.004अब्।
तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः

59.005

आकाशं मनसाहत्य मनोहङ्करणे कुरु(2) ।अप्_59.005अब्।
अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत्

59.006

अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः(3) ।अप्_59.006अब्।
स तामव्याकृतिं मायामभ्यष्ट सिसृक्षया

59.007

सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत् प्रभुः ।अप्_59.007अब्।
क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत्

59.008

अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं ।अप्_59.008अब्।
अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह

59.009

तस्मिन् हिरण्मयञ्चाण्डं सो ऽसृजत् पञ्चभूतवत् ।अप्_59.009अब्।
तस्मिन् सङ्क्रामिते जीवे(4) शक्तिरात्मोपसंहृता

59.010

प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।अप्_59.010अब्।
जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः

59.011

प्राणैर् युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी(5) ।अप्_59.011अब्।
अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत

59.012

अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः ।अप्_59.012अब्।
शब्दः स्पर्शश् च रूपञ्च रसो गन्ध इति स्मृता

59.013

ज्ञानशक्तियुतान्येतैर् आरब्धानीन्द्रियाणि तु ।अप्_59.013अब्।
:न्
1 साध्यार्थैर् विभवैर् इति ख, ग, चिह्नितपुस्तकपाठः
साध्याद्यैर् विभवैर् इति ङ, चिहिनितपुस्तकपाठः
2 मनसाहृत्य मनो ऽहङ्करणे क्षरे इति घ,
चिह्नितपुस्तकपाठः
3 वासुदेवे समाहित इति ङ, इति चिह्नितपुस्तकपाठः
4 सङ्क्रमते जीव इति ख, चिह्नितपुस्तकपाठः
5 चाष्टवृत्तिकीति ङ, चिह्नितपुस्तकपाठः
:प् 168
त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु

59.014

पादौ पायुःस् तथा पाणी वागुपस्थश् च पञ्चमः ।अप्_59.014अब्।
कर्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु

59.015

आकाशवायुतेजांसि सलिलं पृथिवी तथा ।अप्_59.015अब्।
स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते

59.016

एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः ।अप्_59.016अब्।
जीवभूतं मकारन्तु देवस्य(1) व्यापकं न्यसेत्

59.017

प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् ।अप्_59.017अब्।
हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः

59.018

फकारमपि तत्रैव अहङ्कारमयं न्यसेत् ।अप्_59.018अब्।
मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं

59.019

शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् ।अप्_59.019अब्।
स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत्

59.020

दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्(2) ।अप्_59.020अब्।
थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत्

59.021

तकारं गन्धतन्मात्रं जङ्घयोर्विनिवेशयेत् ।अप्_59.021अब्।
णकारं श्रोत्रयोर् न्यस्य ढकारं विन्यसेत्त्वचि

59.022

डकारं नेत्रयुग्मे तु रसनायां ठकारकं ।अप्_59.022अब्।
टकारं नासिकायान्तु ञकारं वाचि विन्यसेत्

59.023

झकारं करयोर् न्यस्य पाणितत्त्वं विचक्षणः ।अप्_59.023अब्।
जकारं पदयोर् न्यस्य छं पायौ चमुपस्थके

59.024

विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके ।अप्_59.024अब्।
वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत्

59.025

:न्
1 मकारन्तद्देहस्येति ङ, चिह्नितपुस्तकपाठः
2 विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः
:प् 169
खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् ।अप्_59.025अब्।
ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः

59.026

हृत्पुण्डरीके विन्यस्य यकारं सूर्यदैवतं ।अप्_59.026अब्।
द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः

59.027

कलाषोडशसंयुक्तं मकारं तत्र विन्यसेत् ।अप्_59.027अब्।
तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं

59.028

हकारं(1) विन्यसेत्तत्र प्रणवेन सुरोत्तमः ।अप्_59.028अब्।
ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने

59.029

ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः ।अप्_59.029अब्।
ओं वं नमः सर्वात्मने इत्य् उक्ताः पञ्च शक्तयः(2)

59.030

स्थाने तु प्रथमा योज्या द्वितीया आसने मता ।अप्_59.030अब्।
तृतीया शयने तद्वच्चतुर्थी पानकर्मणि(3)

59.031

प्रत्यर्चायां(4) पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः ।अप्_59.031अब्।
हूङ्कारं(5) विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं

59.032

यां मूर्तिं स्थापयेत्तस्मात्(6) मूलमन्त्रं न्यसेत्ततः ।अप्_59.032अब्।
ओं नमो भगवते वासुदेवाय मूलकं

59.033

शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् ।अप्_59.033अब्।
भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत्

59.034

नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् ।अप्_59.034अब्।
:न्
1 क्रूंकारमिति ङ, चिह्नितओपुस्तकपाठः
2 ओं षं परमेष्ट्यात्मने यन्नमः पुरुषात्मने । लं नमो
विश्वात्मने नमः ॥ नं नमः सर्वात्मने इत्य् उक्ताः
पञ्चशक्तयः इति ङ, चिह्नितपुस्तकपाठः
3 दानकर्मणि इति ङ, चिह्नितपुस्तकपाठः
4 अभ्यर्चायामिति ख, चिह्नितपुस्तकपाठः
5 क्षकारमिति ख, चिह्नितपुस्तकपाठः
6 या मूर्तिः स्थाप्यते तस्यामिति ख, चिह्नितपुस्तकपाठः
:प् 170
गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत्

59.035

मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् ।अप्_59.035अब्।
कक्ष्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत्

59.036

हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके ।अप्_59.036अब्।
दामोदरं पादयोश् च हृदयादिषडङ्गकं

59.037

एतत् साधारणं प्रोक्तमादिर्मूर्तेस्तु सत्तम ।अप्_59.037अब्।
अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत्

59.038

तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।अप्_59.038अब्।
यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत्

59.039

तत् स्वैरैर् द्वादशैर् भेद्य ह्य् अङ्गानि परिकल्पयेत् ।अप्_59.039अब्।
हृदयादीनि देवेश मूलञ्च दशमाक्षरं

59.040

यथा देवे तथा देहे(1) तत्त्वानि विनियोजयेत् ।अप्_59.040अब्।
चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा(2)

59.041

पूर्ववच्चासनं ध्यायेत्सगात्रं(3) सपरिच्छदं ।अप्_59.041अब्।
शुभञ्चक्रं द्वादशारं ह्य् उपरिष्टाद्विचिन्तयेत्

59.042

त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं ।अप्_59.042अब्।
पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत्

59.043

पूजयेदारकाग्रेषु(4) सूर्यं द्वादशधा पुनः ।अप्_59.043अब्।
:न्
1 यथा तत्त्वे तथा देहे इति ख, ग, घ, ङ, चिह्नितपुस्तकपाठः
2 यजेद् गन्धादिना तत इति ख, चिह्नितपुस्तकपाठः । यजेदाहुतिभिस्
तथा इति ग, चिह्नितपुस्तकपाठः
3 ध्यायेत् तन्मात्रमिति ग, चिह्ह्नितपुस्तकपाठः । ध्यायेत् समात्रमिति
ख, चिह्नितपुस्तकपाठः
4 पूजयेद् द्वादशाग्रेषु इति ख, चिह्नितपुस्तकपाठः । पूजयेद्
द्वादशारेषु इति घ, चिह्नितपुस्तकपाठः
:प् 171
कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत्

59.044

सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः ।अप्_59.044अब्।
पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत्

59.045

तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः(1) ।अप्_59.045अब्।
प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरान्(2)

59.046

गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् ।अप्_59.046अब्।
द्वादशाक्षरवीजैस्तु केशवादीन् समर्चयेत्

59.047

द्वादशारे मण्डले तु लौकपालादिकं क्रमात् ।अप्_59.047अब्।
प्रतिमामर्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः

59.048

पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां ।अप्_59.048अब्।
जननादिक्रमात् पश्चाज्जनयेद्वैष्णवानलं

59.049

हुत्वाग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।अप्_59.049अब्।
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्य् अग्निरुच्यते

59.050

दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।अप्_59.050अब्।
अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः

59.051

उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे ।अप्_59.051अब्।
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्य् अग्निरुच्यते

59.052

पलाशसमिधानान्तु अष्टोत्तरसहस्रकं ।अप्_59.052अब्।
कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस् तथा

59.053

साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं ।अप्_59.053अब्।
कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च

59.054

द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन् मस्तकं ततः ।अप्_59.054अब्।
घृतं दधि पयो हुत्वा स्पृशेन्मूर्धन्यथो ततः

59.055

:न्
1 ध्यात्वा पश्चात्तु देशिक इति ङ, चिह्नितपुस्तकपाठः
2 तत्र तान् पूजयेत् सुरामिति ग, चिह्नितपुस्तकपाठः
:प् 172
स्पृष्ट्वा शिरोनाभिपादांश् चतस्रः स्थापयेन्नदीः(1) ।अप्_59.055अब्।
गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती

59.056

दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं ।अप्_59.056अब्।
होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान्

59.057

सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् ।अप्_59.057अब्।
दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्याच्च जागरं ।अप्_59.057च्द्।
ब्रह्मगीतादिशब्देन सर्वभागधिवासनात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc