भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 6

6.001

:ए इत्य् आदिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं
नाम पञ्चमो ऽध्यायः
:न्
1 ताडकापहृदिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
2 बभञ्ज तद्दृढं धनुरिति ग, चिह्नितपुस्तकपाठः
3 तदा इति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः
4 भरतोथागात् इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
:प् 11
% छप्तेर् {6}
:श् अथ षष्ठो ऽध्यायः
श्रीरामावतारवर्णनं
नारद उवाच
भरते ऽथ गते रामः पित्रादीनभ्यपूजयत् ।अप्_6.001अब्।
राजा दशरथो रामम् उवाच शृणु राघव

6.002

गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।अप्_6.002अब्।
मनसाहं प्रभाते ते यौवराज्यं ददामि ह

6.003

रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।अप्_6.003अब्।
राज्ञश् च मन्त्रिणश्चाष्टौ सवसिष्ठास् तथाब्रुवन्

6.004

सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः(1) ।अप्_6.004अब्।
अशोको धर्मपालश् च सुमन्त्रः सवसिष्ठकः(2)

6.005

पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।अप्_6.005अब्।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत्

6.006

राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।अप्_6.006अब्।
सम्भारान् सम्भवन्तु स्म इत्य् उक्त्वा कैकेयीङ्गतः

6.007

अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं ।अप्_6.007अब्।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी(3)

6.008

पादौ गृहीत्वा रामेण कर्षिता सापराधतः ।अप्_6.008अब्।
तेन वैरेण सा राम- वनवासञ्च काङ्क्षति

6.009

कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं ।अप्_6.009अब्।
मरणं तव पुत्रस्य मम ते नात्र संशयः

6.010

:न्
1 राज्यवर्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः
2 सुमन्त्रश् च वशिष्ठक इति ख, ग, घ, ङ,
चिह्नितपुस्तकचतुष्टयपाठः
3 मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा
सतीमिति ग, चिह्नितपुस्तकपाठः
:प् 12
कब्जयोक्तञ्च तच् छ्रुत्वा एकमाभरणं ददौ ।अप्_6.010अब्।
उवाच मे यथा रामस् तथा मे भरतः सुतः

6.011

उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।अप्_6.011अब्।
कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाथ मन्थरा

6.012

बालिशे रक्ष भरतम् आत्मानं माञ्च राघवात् ।अप्_6.012अब्।
भविता राघवो राजा राघवस्य ततः सुतः

6.013

राजवंशस्तु कैकेयि भरतात् परिहास्यते ।अप्_6.013अब्।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः

6.014

रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।अप्_6.014अब्।
वरद्वयन्तदा प्रादाद् याचेदानीं नृपञ्च तत्

6.015

रामस्य च वनेवासं नव वर्षाणि पञ्च च ।अप्_6.015अब्।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति

6.016

प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।अप्_6.016अब्।
उवाच सदुपायं मे कच्चित्तं(1) कारयिष्यति

6.017

क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता ।अप्_6.017अब्।
द्विजादीनर्चयित्वाथ राजा दशरथस्तदा

6.018

ददर्श केकयीं रुष्टाम् उवाच कथमीदृशी ।अप्_6.018अब्।
रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत्

6.019

येन रामेण हि विना न जीवामि मुहूर्तकम् ।अप्_6.019अब्।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि

6.020

सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।अप्_6.020अब्।
वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप

6.021

चतुर्दशसमा रामो वने वसतु संयतः ।अप्_6.021अब्।
:न्
1 कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 13
सम्भारैर् एभिरद्यैव भरतोत्राभिषेच्यताम्

6.022

विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।अप्_6.022अब्।
तच् छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत्

6.023

मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।अप्_6.023अब्।
किं कृतं तव रामेण मया वा पापनिश् चये

6.024

यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।अप्_6.024अब्।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः

6.025

या त्वं भार्या(1) कालरात्री भरतो नेदृशः सुतः ।अप्_6.025अब्।
प्रशाधि विधवा राज्यं मृते मयि गते सुते

6.026

सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।अप्_6.026अब्।
कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम्

6.027

त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।अप्_6.027अब्।
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं

6.028

कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः ।अप्_6.028अब्।
सीतया भार्यया सार्धं सरथः ससुमन्त्रकः

6.029

दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।अप्_6.029अब्।
मातृभिश् चैव विप्राद्यैः शोकार्तैर् निर्गतः पुरात्

6.030

उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।अप्_6.030अब्।
प्रभाते तमपश्यन्तो ऽयोध्यां ते पुनरागताः

6.031

रुदन् राजापि कौशल्या- गृहमागात् सुदुःखितः ।अप्_6.031अब्।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः

6.032

रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ।अप्_6.032अब्।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः(2)

6.033

:न्
1 न त्वं भार्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः
2 संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः
:प् 14
लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ।अप्_6.033अब्।
सुमन्त्रं सरथं त्यक्त्वा प्रातर् नावाथ जाह्नवीं

6.034

रामलक्ष्मणसीताश् च तीर्णा आपुः प्रयागकम् ।अप्_6.034अब्।
भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः

6.035

वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।अप्_6.035अब्।
सीतायै दर्शयामास चित्रकूटञ्च राघवः

6.036

नखैर् विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् ।अप्_6.036अब्।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः

6.037

रामे वनं गते राजा षष्ठे ऽह्नि निशि चाब्रवीत् ।अप्_6.037अब्।
कौशल्यां स कथां पौर्वां(1) यदज्ञानद्धतः पुरा

6.038

कौमारे शरयूतीरे यज्ञदत्तकुमारकः ।अप्_6.038अब्।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश् च तत्पिता

6.039

शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।अप्_6.039अब्।
पुत्रं विना मरिष्यावस् त्वं च शोकान्मरिष्यसि

6.040

पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम ।अप्_6.040अब्।
कथामुक्त्वाथ हा रामम् उक्त्वा राजा दिवङ्गतः

6.041

सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा ।अप्_6.041अब्।
सुप्रभाते गायनाश् च सूतमागधवन्दिनः

6.042

प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः(2) ।अप्_6.042अब्।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्(3)

6.043

नरा नार्यो ऽथ रुरुदुर् आनीतो भरतस्तदा ।अप्_6.043अब्।
वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम्

6.044

:न्
1 पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः
2 नृप इति ङ, चिह्नितपुस्तकपाठः
3 चापतदिति ङ, चिह्नितपुस्तकपाठः
:प् 15
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।अप्_6.044अब्।
अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च

6.045

पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।अप्_6.045अब्।
वशिष्ठाद्यैर् जनैर् उक्तो राज्यं कुर्विति सो ऽब्रवीत्

6.046

व्रजामि राममानेतुं रामो राजा मतो बली(1) ।अप्_6.046अब्।
शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः

6.047

नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।अप्_6.047अब्।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव

6.048

अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।अप्_6.048अब्।
रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज

6.049

राज्यायाहन्नयास्यामि(2) सत्याच्चीरजटाधरः ।अप्_6.049अब्।
रामोक्तो भरतश्चायान् नन्दिग्रामे स्थितो बली
त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc