भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 5

5.001

:ए इत्य् आदिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम
चतुर्थो ऽध्यायः
% छप्तेर् {5}
:श् अथ पञ्चमो ऽध्यायः
श्रीरामावतारवर्णनम्
अग्निर् उवाच
रामायणमहं वक्ष्ये नारदेनोदितं पुरा ।अप्_5.001अब्।
वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम्

5.002

नारद उवाच
विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः ।अप्_5.002अब्।
मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः

5.003

ततस्तस्मात्तथेक्ष्वाकुस् तस्य वंशे ककुत्स्थकः ।अप्_5.003अब्।
ककुत्स्थस्य रघुस्तस्माद् अजो दशरथस्ततः

5.004

रावणादेर्बधार्थाय चतुर्धाभूत् स्वयं हरिः ।अप्_5.004अब्।
राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह

5.005

कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः ।अप्_5.005अब्।
शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात्

5.006

प्राशिताद्यज्ञसंसिद्धाद् रामाद्याश् च समाः पितुः ।अप्_5.006अब्।
यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः

5.007

रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह ।अप्_5.007अब्।
:प् 10
रामो गतो ऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत्(1)

5.008

मारीचं मानवास्त्रेण मोहितं दूरतो ऽनयत् ।अप्_5.008अब्।
सुबाहुं यज्ञहन्तारं सबलञ्चावधीत् बली

5.009

सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह ।अप्_5.009अब्।
गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः

5.010

शतानन्दनिमित्तेन विश्वामित्रप्रभावितः ।अप्_5.010अब्।
रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ

5.011

धनुरापूरयामास लीलया स बभञ्ज तत्(2) ।अप्_5.011अब्।
वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम्

5.012

ददौ रामाय रामो ऽपि पित्रादौ हि समागते ।अप्_5.012अब्।
उपयेमे जानकीन्ताम् उर्मिलां लक्ष्मणस् तथा(3)

5.013

श्रुतकीर्तिं माण्डवीञ्च कुशध्वजसुते तथा ।अप्_5.013अब्।
जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ

5.014

कन्ये द्वे उपयेमाते जनकेन सुपूजितः ।अप्_5.014अब्।
रामो ऽगात्सवशिष्ठाद्यैर् जामदग्न्यं विजित्य च ।अप्_5.014च्द्।
अयोध्यां भरतोभ्यागात्(4) सशत्रुघ्नो युधाजितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc