भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 7

7.001

:ए इत्य् आदिमहापुराणे आग्नेये रामायणे
ऽयोध्याकाण्डवर्णनं नाम षष्ठो ऽध्यायः ॥
% छप्तेर् {7}
:श् अथ सप्तमो ऽध्यायः
रामायणवर्णनं
नारद उवाच
रामो वशिष्ठं मातॄञ्च नत्वातिञ्च प्रणम्य सः ।अप्_7.001अब्।
अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम्

7.002

:न्
1 यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ,
चिह्नितपुस्तकद्वयपाठः
2 नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं
नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः
:प् 16
अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।अप्_7.002अब्।
धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः

7.003

जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।अप्_7.003अब्।
तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी

7.004

रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।अप्_7.004अब्।
कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः

7.005

एतौ च भक्षयिष्यामि इत्य् उक्त्वा तं समुद्यता ।अप्_7.005अब्।
तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणो ऽच्छिनत्

7.006

रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।अप्_7.006अब्।
मरिष्यामि विनासाहं खर जीवामि वै तदा

7.007

रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणो ऽनुजः ।अप्_7.007अब्।
तेषाम् यद्रुधिरं(1) सोष्णं पाययिष्यसि मां यदि

7.008

खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ।अप्_7.008अब्।
रक्षसां दूषणेनागाद् योद्धुं(2) त्रिशिरसा सह

7.009

रामं रामो ऽपि युयुधे शरैर् विव्याध राक्षसान् ।अप्_7.009अब्।
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं

7.010

त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् ।अप्_7.010अब्।
ययौ सूर्पणखा लङ्कां रावणाग्रे ऽपतद् भुवि

7.011

अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।अप्_7.011अब्।
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च

7.012

रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।अप्_7.012अब्।
तथेत्याह च तच् छ्रुत्वा मारीचं प्राह वै व्रज

7.013

स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः ।अप्_7.013अब्।
:न्
1 हृद्रुधिरमिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
2 रक्षसां सहसा प्रायाद्योद्धुमिति ग, चिह्नितपुस्तकपाठः
:प् 17
सीताग्रे तां हरिष्यामि अन्यथा मरणं तव

7.014

मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः(1) ।अप्_7.014अब्।
रावणादपि मर्तव्यं मर्तव्यं राघवादपि

7.015

अवश्यं यदि मर्तव्यं वरं रामो न रावणः ।अप्_7.015अब्।
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः

7.016

सीतया प्रेरितो(2) रामः शरेणाथावधीच्च तं ।अप्_7.016अब्।
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च

7.017

सौमित्रिः सीतयोक्तो ऽथ विरुद्धं राममागतः ।अप्_7.017अब्।
रावणोप्यहरत् सीतां हत्वा गृध्रं जटायुषं

7.018

जटायुषा स भिन्नाङ्गो(3) अङ्केनादाय जानकीम् ।अप्_7.018अब्।
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत्

7.019

भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।अप्_7.019अब्।
रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत्

7.020

मायामृगो ऽसौ सौमित्रे यथा त्वमिह चागतः ।अप्_7.020अब्।
तथा सीता हृता नूनं नापश्यत् स गतो ऽथ ताम्

7.021

शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै ।अप्_7.021अब्।
लक्ष्मणाश्वासितो रामो मार्गयामास(4) जानकीम्

7.022

दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश् च तां ।अप्_7.022अब्।
मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः
शापमुक्तो ऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc