अग्नि पुराण · अध्याय 58
:ए इत्य् आदिमहापुराणे आग्नेये कलशाधिवासो नाम
सप्तपञ्चाशत्तमो ऽध्यायः ॥
% छप्तेर् {58}
:श् अथ अष्टपञ्चाशत्तमो ऽध्यायः
स्नानादिविधिः
भगवानुवाच
ऐशान्यां जनयेत् कुण्डं गुरुर्वह्निञ्च वैष्णवं ।अप्_58.001अब्।
गायत्र्यष्टशतं हुत्वा सम्पातविधिना घटान्
प्रोक्षयेत् कारुशालायां शिल्पिभिर्मूर्तिपैर् व्रजेत् ।अप्_58.002अब्।
तूर्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे
विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः ।अप्_58.003अब्।
पट्टवस्त्रेण कर्तव्यं देशिकस्यापि कौतुकं
मण्डपे(1) प्रतिमां स्थाप्य सवस्त्रां पूजितान् स्तुवन् ।अप्_58.004अब्।
नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्मणा
प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ।अप्_58.005अब्।
त्वयि सम्पूजयामीशे नारायणमनामयं
रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव ।अप्_58.006अब्।
एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपं
शिल्पिनन्तोषयेद्द्रव्यैर् गुरवे गां प्रदापयेत् ।अप्_58.007अब्।
चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः
:न्
1 मण्डले इति ग, चिह्नितपुस्तकपाठः
:प् 164
अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके ।अप्_58.008अब्।
ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा
दूर्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः ।अप्_58.009अब्।
मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद्गुरुः
हिरण्यगर्भमन्त्रेण इमं मेति च कीर्तयेत् ।अप्_58.010अब्।
घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः
मसूरपिष्टे नोद्वर्त्य(1) अतो देवेति कीर्तयन् ।अप्_58.011अब्।
क्षालयेदुष्णतोयेन सप्त ते ऽग्रेति देशिकः
द्रुपदादिवेत्यनुलिम्पेदापो हि ष्ठेति सेचयेत् ।अप्_58.012अब्।
नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः
समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च ।अप्_58.013अब्।
शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा(2)
पञ्चमृद्धिर्हिरण्येति स्नापयेत्परमेश्वरं ।अप्_58.014अब्।
सिकताद्भिरिर्मं मेति वल्मीकोदघटेन च
तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः ।अप्_58.015अब्।
यज्ञायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः
पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः ।अप्_58.016अब्।
विश्वतश् चक्षुः सौम्येन पूर्वेण कलसेन च
सोमं राजानमित्येवं विष्णो रराटं दक्षतः ।अप्_58.017अब्।
हंसः शुचिः पश्चिमेन कुर्यादुद्वर्तनं हरेः
मूर्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत्(3) ।अप्_58.018अब्।
मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः
:न्
1 मयूरपिच्छेनोद्वर्त्य इति घ, चिह्नितपुस्तकपाठः
2 गायत्र्या गन्धवारिणा इति ग, घ, ङ,
चिह्नितपुस्तकत्रयपाठः
3 धात्रीमांस्युदकेन चेति घ, चिह्नितपुस्तकपाठः
:प् 165
इदमापेति च घटैर् एताशीतिपदस्थितैः ।अप्_58.019अब्।
एह्येहि भगवन् विष्णो लोकानुग्राहकारक
यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते ।अप्_58.020अब्।
अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनं
मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत् ।अप्_58.021अब्।
हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकं
मधुवाता मधुपर्कं मयि गृह्णामि चाचमेत् ।अप्_58.022अब्।
अक्षन्नमीमदन्तेति किरेद्दर्वाक्षतं बुधः
काण्डान्निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति च ।अप्_58.023अब्।
उन्नयामीति(1) माल्यञ्च इदं विष्णुः पवित्रकं
वृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकं ।अप्_58.024अब्।
महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत्
धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्जनं ।अप्_58.025अब्।
युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकं
इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः ।अप्_58.026अब्।
चामरन्तु विकर्णेन भूषां रथन्तरेण च
व्यजनं वायुदैवत्यैर् मुञ्चामि त्वेति पुष्पकं ।अप्_58.027अब्।
वेदाद्यैः संस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः
सर्वमेतत्समं कुर्यात् पिण्डिकादौ हरादिके ।अप्_58.028अब्।
देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत्
उत्तिष्ठेति समुत्थाप्य शय्याया मण्डपे नयेत् ।अप्_58.029अब्।
शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना
अतो देवेति सूक्तेन प्रातिमां पिण्डिकां तथा ।अप्_58.030अब्।
श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः
:न्
1 तत्त्वायामीति घ, चिह्नितपुस्तकपाठः
:प् 166
मृगराजं वृषं नागं व्यजनं कलशं तथा ।अप्_58.031अब्।
वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलं
दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति ।अप्_58.032अब्।
उखां पिधानकं पात्रमम्बिकां दर्विकां ददेत्
मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा ।अप्_58.033अब्।
तथा भोजनभाण्डानि गृहोपकारणानि च
शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटं ।अप्_58.034अब्।
खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0