अग्नि पुराण · अध्याय 57
:ए इत्य् आदिमहापुराणे आग्नेये दिक्पतियागो नाम
षट्पञ्चाशत्तमोध्यायः ॥
% छप्तेर् {57}
:श् अथ सप्तपञ्चाशोध्यायः
कुम्भाधिवासविधिः
भगवानुवाच
भूमेः परिग्रहं कुर्यात् क्षिपेद्ब्रीहींश् च सर्षपान् ।अप्_57.001अब्।
नारसिंहेन रक्षोघ्नान् प्रोक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः
भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिं ।अप्_57.002अब्।
अस्त्रमन्त्रेण करकं(1) तत्र चाष्टशतं यजेत्
अच्छिन्नधारया सिञ्चन् ब्रीहीन् संस्कृत्य धारयेत् ।अप्_57.003अब्।
:न्
1 अस्त्रमन्त्रेण कवचमिति ङ, चिह्नितपुस्तकपाठः
:प् 161
प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि
सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियं ।अप्_57.004अब्।
योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले
कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च ।अप्_57.005अब्।
विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमं
वामनं दिक्षु वाय्वादौ(1) श्रीधरञ्च हृषीकपं ।अप्_57.006अब्।
पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे
अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे(2) सवेदिके ।अप्_57.007अब्।
स्नानमण्डषके सर्वद्रव्याण्यानीय निक्षिपेत्
स्नानकुम्भेषु कुम्भांस्तांश् चतुर्दिक्ष्वधिवासयेत् ।अप्_57.008अब्।
कलशाः स्थापनीयास्तु अभिषेकार्थमादरात्
वटोदुम्बरकाश्वत्थांश् चम्पकाशोकश्रीद्रुमान्(3) ।अप्_57.009अब्।
पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान्
पल्लवांस्तु समानीय पूर्वकुम्भे(4) विनिक्षिपेत् ।अप्_57.010अब्।
पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव च
जातीपुष्पं कुन्दपुष्पचन्दनं रक्तचन्दनं ।अप्_57.011अब्।
सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत्
सवर्णं रजतञ्चैव कूलद्वयमृदन्तथा ।अप्_57.012अब्।
नद्याः समुद्रगामिन्या विशेषात् जाह्नवीमृदं
गोमयञ्च यवान् शालींस्तिलांश् चैवापरे न्यसेत् ।अप्_57.013अब्।
विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीं
:न्
1 दिक्षु वह्न्यादाविति ङ, चिह्नितपुस्तकपाठः
2 चतुस्तम्भे इति ग, चिह्नितपुस्तकपाठः
3 पद्मकाशोकश्रीद्रुमानिति ग, चिह्नितपुस्तकपाठः
4 पर्णकुम्भ इति ङ, चिह्नितपुस्तकपाठः
:प् 162
सहदेवां महादेवीं(1) बलां व्यघ्रीं सलक्ष्मणां ।अप्_57.014अब्।
ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत्
वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् ।अप्_57.015अब्।
जाह्नवीवालुकातोयं विन्यसेदपरे घटे
वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकां ।अप्_57.016अब्।
मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत्
तीर्थपर्वतमृद्भिश् च युक्तमप्यपरे न्यसेत् ।अप्_57.017अब्।
नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत्
चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत् ।अप्_57.018अब्।
वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च
एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम ।अप्_57.019अब्।
नदीनदतडागानां सलिलैर् अपरं न्यसेत्
एकाशीतिपदे चान्यान्मण्डपे कलशान् न्यसेत् ।अप्_57.020अब्।
गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत्
यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा ।अप्_57.021अब्।
तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत्
पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा ।अप्_57.022अब्।
पाद्यार्थं दक्षिणे भागे मधुपर्कं तु दक्षिणे(2)
कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभं ।अप्_57.023अब्।
उत्तरे ह्य् आचमनाय अग्नौ दूर्वाक्षतान्वितं
पात्रं नीराजनार्थं च तथोद्वर्तनमानिले ।अप्_57.024अब्।
गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत्
:न्
1 सहदेवां सिंहपुच्छीमिति ख, चिह्नितपुस्तकपाठः । सहदेवां
जवां सिंहीमिति ङ, चिह्नितपुस्तकपाठः
2 मधुपर्कन्तु पश्चिमे इति ङ, चिह्नितपुस्तकपाठः
:प् 163
मुरामांसी चामलकं सहदेवां निशादिकं ।अप्_57.025अब्।
षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च
शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकं ।अप्_57.026अब्।
हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0