अग्नि पुराण · अध्याय 56
:ए इत्य् आदिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम
पञ्चपञ्चाशत्तमो ऽध्यायः ॥
% छप्तेर् {56}
:श् अथ षट्पञ्चाशत्तमो ऽध्यायः
दिक्पालयागकथनं
भगवानुवाच
प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः ।अप्_56.001अब्।
प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः
इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः ।अप्_56.002अब्।
गर्भसूत्रं तु निःसार्य(2) प्रासादस्याग्रतो गुरुः
अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम् ।अप्_56.003अब्।
स्नानं कलशार्थञ्च यागद्रव्यार्थमर्धतः
त्रिभागेणार्धभागेन वेदिं कुर्यात्तु शोभनाम् ।अप्_56.004अब्।
:न्
1 प्रतिमाद्रव्यमुच्यते इति ख, ङ, चिह्नितपुस्तकपाठः
2 गर्भसूत्रन्तु निर्मायेति ङ, चिह्नितपुस्तकपाठः
:प् 158
कलशैर् घटिकाभिश् च वितानाद्यैश् च भूषयेत्
पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् ।अप्_56.005अब्।
अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत्
अङ्गुलीयप्रभृतिभिर्मूर्तिपान् वलयादिभिः ।अप्_56.006अब्।
कुण्डे कुण्डे स्थापयेच्च मूर्तिपांस्तत्र पारगान्
चतुष्कोणे चार्धकोणे वर्तुले पद्मसन्निभे ।अप्_56.007अब्।
पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटं
प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणं ।अप्_56.008अब्।
सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम्
पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत् ।अप्_56.009अब्।
तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान्
प्रदद्यादुपरिष्टाच्च कुर्याच्चक्रं सुदर्शनं ।अप्_56.010अब्।
पञ्चहस्तप्रमाणन्तु ध्वजं कुर्याद्द्विचक्षणः
वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसन्मितं ।अप्_56.011अब्।
सप्तहस्तोच्छ्रितं वास्य कुर्यात् कुण्डं सुरोत्तम(1)
अरुणोग्निनिभश् चैव कृष्णः शुक्लोथ पीतकः ।अप्_56.012अब्।
रक्तवर्णस् तथा श्वेतः श्वेतवर्णादिकक्रमात्(2)
कुमुदः कुमुदाक्षश् च पुण्डरीकोथ वामनः ।अप्_56.013अब्।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः
पूज्या कोटिगुणैर् युक्ताः पूर्वाद्या ध्वजदेवताः ।अप्_56.014अब्।
जलाढकसुपूरास्तु पक्वविम्बोपमा घटाः
:न्
1 समाहित इति ङ, चिह्नितपुस्तकपाठः
2 श्वेतवर्नक्रमात् ध्वजा इति ङ, चिह्नितपुस्तकपाठः ।
कृष्णवर्णः क्रमाद्ध्वजा इति ङ,
चिह्नितपुस्तकपाठः
:प् 159
अष्टाविंशाधिकशतं कालमण्डनवर्जिताः ।अप्_56.015अब्।
सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद्वहिः
घटाः स्थाप्याश् च पूर्वादौ वेदिकायाश् च कोणगान् ।अप्_56.016अब्।
चतुरः स्थापयेत् कुम्भानाजिघ्रेति च मन्त्रतः
कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात् ।अप्_56.017अब्।
इन्द्रागच्छ देवराज वज्रहस्त गजस्थित
पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते ।अप्_56.018अब्।
त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः
आगच्छाग्रे शक्तियुत(1) च्छागस्थ बलसंयुत ।अप्_56.019अब्।
रक्षाग्नेयीं दिशं देवैः पूजां गृह नमोस्तु ते
अग्निमूर्धेतिमन्त्रेण(2) यजेद्वा आग्नेय नमः ।अप्_56.020अब्।
महिषस्थ यमागच्छ दण्डहस्त महाबल
रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते ।अप्_56.021अब्।
वैवस्वतं सङ्गमनमित्यनेन यजेद्यमं
नैरृतागच्छ खड्गाढ्य बलवाहनसंयुत(3) ।अप्_56.022अब्।
इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैरृतीं दिशं
एष ते नैरृते मन्त्रेण यजेदर्घ्यादिभिर् नरः ।अप्_56.023अब्।
मकरारूढ वरुण पाशहस्त महाबल
आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते ।अप्_56.024अब्।
उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः
आगच्छ वायो सबल ध्वजहस्त सवाहन ।अप्_56.025अब्।
वायव्यं रक्ष देवैस्त्वं समरुद्भिर् नमोस्तु ते
:न्
1 शक्तिहस्त इति ङ, चिह्नितपुस्तकपाठः
2 अग्निमूर्ध्वेति अर्घ्याद्यैर् इति ख, चिह्नितपुस्तकपाठः
3 नरवाहनसंयुत इति ख, ङ, चिह्नितपुस्तकपाठः
:प् 160
वात इत्य् आदिभिश्चार्वेदोन्नमो वायवेपि वा ।अप्_56.026अब्।
आगच्छ सोम सबला गदाहस्त सवाहन
रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते ।अप्_56.027अब्।
सोमं राजानमिति वा यजेत्सोमाय वै नमः
आगच्छेशान सबल शूलहस्त वृषस्थित ।अप्_56.028अब्।
यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते
ईशानमस्येति यजेदीशानाय नमोपि वा ।अप्_56.029अब्।
ब्रह्मन्नागच्छ हंसस्थ स्रुक्स्रुवव्यग्रहस्तक
सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते ।अप्_56.030अब्।
हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा
अनन्तागच्छ चक्राढ्य कूर्मस्थाहिगणेश्वर ।अप्_56.031अब्।
अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते ।अप्_56.031च्द्।
नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0