भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 55

55.001

:ए इत्य् आदिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम
चतुःपञ्चाशत्तमो ऽध्यायः
% छप्तेर् {55}
:श् अथ पञ्चपञ्चाशत्तमो ऽध्यायः
पिण्डिकालक्षणकथनं
भगवानुवाच
अतः परंप्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् ।अप्_55.001अब्।
दैर्घ्येण प्रतिमातुल्या तदर्धेन तु विस्तृता

55.002

उच्छ्रितायामतोर्धेन सुविस्तारार्धभागतः ।अप्_55.002अब्।
तृतीयेन तु वा तुल्यं(2) तत्त्रिभागेण मेखला

55.003

खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम् ।अप्_55.003अब्।
विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः

55.004

समूलस्य विस्तारमग्रे कुर्यात्तदर्धतः ।अप्_55.004अब्।
विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत्

55.005

पिण्डिकार्धेन वा तुल्यं(3) दैर्घ्यमीशस्य(4) कीर्तितम् ।अप्_55.005अब्।
ईशं वा(5) तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत्

55.006

:न्
1 भुजार्धपञ्चमांशेनेति ङ, चिह्नितपुस्तकपाठः
2 त्रिभागेन तु बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः
3 पिण्डिकार्धेन बाहुल्यमिति ङ, चिह्नितपुस्तकपाठः
4 दैर्घ्यं कुशस्येति ग, ङ, चिह्नितपुस्तकपाठः
5 कुशम्बाहुल्यदीर्घञ्चेति ङ, चिह्नितपुस्तकपाठः
:प् 157
उच्छ्रायं पूर्ववत् कुर्याद्भागषोडशसङ्ख्यया ।अप्_55.006अब्।
अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम्

55.007

शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास् तथा ।अप्_55.007अब्।
पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च

55.008

प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते(1) ।अप्_55.008अब्।
गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च

55.009

पिण्डिकापि यथाशोभं कर्तव्या सततं हरेः ।अप्_55.009अब्।
सर्वेषामेव देवानां शिष्णूक्तं मानमुच्यते ।अप्_55.009च्द्।
देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc