भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 54

54.001

:ए इत्य् आदिमहापुराणे आग्नेये लिङ्गलक्षणं नाम
त्रिपञ्चाशत्तमोध्यायः ॥
% छप्तेर् {54}
:श् अथ चतुःपञ्चाशत्तमोध्यायः
लिङ्गमानादिकथनं
भगवानुवाच
वक्ष्याम्यन्यप्रकारेण(1) लिङ्गमानादिकं शृणु ।अप्_54.001अब्।
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्धनम्

54.002

भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः ।अप्_54.002अब्।
पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरं

54.003

ततो दारुमयं पुण्यं दारुजात् शैलजं वरं ।अप्_54.003अब्।
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजं

54.004

राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदं ।अप्_54.004अब्।
रङ्गजं (2) रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरं

54.005

रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् ।अप्_54.005अब्।
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि

54.006

वामे च स्वेच्छया तेषां पीठप्रासादकल्पना ।अप्_54.006अब्।
पूजयेत् सूर्यविम्बस्थं दर्पणे प्रतिविम्बितं

54.007

पूज्ये हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत् ।अप्_54.007अब्।
हस्तोत्तरविधं शैलं(3) दारुजं तद्वदेव हि

54.008

:न्
1 प्रवक्ष्ये ऽहं प्रकारेणेति ग. चिह्नितपुस्तकपाठः
2 रत्नजमिति ख, चिह्नितपुस्तकपाठः
3 हस्ते तु विविधं शैलमिति ग. चिह्नितपुस्तकपाठः
:प् 152
चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्(1) ।अप्_54.008अब्।
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चशाङ्गुलं

54.009

द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः ।अप्_54.009अब्।
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत्

54.010

एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः ।अप्_54.010अब्।
मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च

54.011

इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।अप्_54.011अब्।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते

54.012

षद्वादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमं ।अप्_54.012अब्।
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम्

54.013

षडङ्गुलं महारत्नै रत्नैर् अन्यैर् नवाङ्गुलम् ।अप्_54.013अब्।
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः

54.014

षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः ।अप्_54.014अब्।
द्वात्रिंशत्षोडशांशांश् च(2) कोणयोस्तु विलोपयेत्

54.015

चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस् तथा(3) ।अप्_54.015अब्।
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरं(4)

54.016

धाम्नो युगर्तुनागांशैर् द्वारं हीनादितः क्रमात् ।अप्_54.016अब्।
लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात्

54.017

गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरं ।अप्_54.017अब्।
तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समं

54.018

:न्
1 वनमङ्गुलमानेन द्वारगर्भकरे स्थितमिति ग,
चिह्नितपुस्तकपाठः
2 द्वात्रिंशत्षोडशार्धञ्चेति ग, घ, ङ,
चिह्नितपुस्तकत्रयपाठः
3 विंशतिस्त्रिगुणैस्तथेति घ, चिह्नितपुसुतकपाठः
4 वनलिङ्गं भवेद्वरमिति ग, घ, चिह्नितपुस्तकपाठः । चललिङ्गं
भवेद् ध्रुवमिति ख, चिह्नितपुस्तकपाठः
:प् 153
एवं स्युर्नव सूत्राणि भूतसूत्रैश् च मध्यमं ।अप्_54.018अब्।
द्व्यन्तरो वामवामञ्च(1) लिङ्गानां दीर्घता नव

54.019

हस्ताद्विवर्धते हस्तो यावत्स्युर् नव पाणयः ।अप्_54.019अब्।
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम्

54.020

एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः ।अप्_54.020अब्।
लिङ्गानि घटयेद्धीमान् षट्सु चाष्टोत्तरेषु च

54.021

स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका ।अप्_54.021अब्।
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितं

54.022

चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् ।अप्_54.022अब्।
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात् त्रिरूपकं

54.023

चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकं ।अप्_54.023अब्।
लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै

54.024

ध्वजाद्यायैः सुरैर् भूतैः शिखिभिर्वा हरेत् कृतिं ।अप्_54.024अब्।
तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभं

54.025

ध्वजाद्या ध्वजसिंहेभवृषाः ज्येष्ठाः परे शुभाः ।अप्_54.025अब्।
स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः

54.026

भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः ।अप्_54.026अब्।
उक्तायामस्य चार्धांशे नागांशैर् भाजिते क्रमात्

54.027

रसभूतांशषष्ठांशत्र्यंशाधिकशरैर् भवेत् ।अप्_54.027अब्।
आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता

54.028

पञ्चमं वर्धमानाख्यं व्यासान्नाहप्रवृद्धितः ।अप्_54.028अब्।
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्मतः

54.029

आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा(2) ।अप्_54.029अब्।
:न्
1 अन्तरे वामवामे चेति ङ, चिह्नितपुस्तकपाठः
2 स्थौल्याद् यववृद्ध्या तदष्टधा इति ख,
चिह्नितपुस्तकपाठः
:प् 154
त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च(1)

54.030

पञ्चविंशतिलिङ्गानि नाद्ये(2) देवार्चिते तथा ।अप्_54.030अब्।
पञ्चसप्तभिरेकत्वाज्जिनैर् भक्तैर् भवन्ति हि

54.031

चतुर्दशसहस्राणि चतुर्दशशतानि च ।अप्_54.031अब्।
एवमष्टाङ्गुलविस्तारो(3) नवैककरगर्भतः

54.032

तेषां कोणार्धकोणस्थैश्चिन्त्यात् कोणानि(4) सूत्रकैः ।अप्_54.032अब्।
विस्तारं मध्यमः कृत्वा स्थाप्यं वा मध्यतस्त्रयं

54.033

विभागादूर्ध्वमष्टास्रो(5) द्व्यष्टास्रःस्याच्छिवांशकः ।अप्_54.033अब्।
पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः

54.034

मूर्ध्वान्तो भूतभागेशो व्यक्ते ऽव्यक्ते च तद्वति ।अप्_54.034अब्।
पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते

54.035

छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः(6) ।अप्_54.035अब्।
एकैकस्य चतुर्भेदैः(7) काम्यभेदात् फलं वदे

54.036

लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् ।अप्_54.036अब्।
आद्यभागं चतुर्धा तु(8) विस्तारोच्छ्रायतो भजेत्

54.037

चत्वारि तत्र सूत्राणि(9) भागभागानुपातनात् ।अप्_54.037अब्।
:न्
1 पूजयेत् सर्वमेव चेति ङ, चिह्नितपुस्तकपाठः
2 नाढ्ये देवार्चित इति ख, ग, चिह्नितपुस्तकपाठः
3 एवमष्टाङ्गुअलविन्यास इति ग, घ, चिह्नितपुस्तकपाठः
4 छिन्द्यात् कोणानीति ख, चिह्नितपुस्तकपाठः । छिन्द्यात् कोषाणि
इति ङ, चिह्नितपुस्तकपाठः
5 द्विभागादूर्धवमष्टास्र इति ख, ङ,
चिह्नितपुस्तकपाठः
6 बालेन्दुत्रपुषाकृतिरिति ख, ग, घ, चिह्नितपुस्तकपाठः
7 चतुर्भागैर् इति ख, चिह्नितपुस्तकपाठः
8 अन्त्यभागमिति ग, घ, चिह्नितपुस्तकपाठः
9 चत्वारि तत्र छत्राणि इति ग, घ, ङ,
चिह्नितपुस्तकचतुष्ट्यपाठः
:प् 155
पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात्

54.038

त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् ।अप्_54.038अब्।
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये(1)

54.039

चतुर्भागात्मके लिङ्गेत्रपुषं द्वयलोपनात् ।अप्_54.039अब्।
अनाद्यस्य शिरः प्रोक्तमर्धचन्द्रं शिरः शृणु

54.040

अंशात् प्रान्ते युगांशैश् च त्वेकाहान्यामृताक्षकं(2) ।अप्_54.040अब्।
पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात्

54.041

चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु ।अप्_54.041अब्।
पूजाभागं प्रकर्तव्यं मूर्त्यग्निपदकल्पितं(3)

54.042

अर्कांशं पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्तयत् ।अप्_54.042अब्।
शिरोन्नतिः प्रकर्तव्या ललाटं नासिका ततः

54.043

वदनं चिवुकं ग्रीवा युगभागैर् भुजाक्षिभिः ।अप्_54.043अब्।
कराभ्यां मुकुलीकृत्य(4) प्रतिमायाः प्रमाणतः

54.044

मुखं प्रति समः कार्यो विस्तारादष्टमांशतः ।अप्_54.044अब्।
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु

54.045

कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् ।अप्_54.045अब्।
भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितं

54.046

विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः ।अप्_54.046अब्।
एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनं

54.047

ललाटनासिकावक्त्रग्रीवायाञ्च विवर्तयेत् ।अप्_54.047अब्।
:न्
1 कुक्कुटाण्डं सुधाद्वये इति ख, चिह्नितपुस्तकपाठः
2 द्वैकहान्या सुताह्वयमिति ख, चिह्नितपुस्तकपाठः
3 ऋत्वग्निपदकल्पितमिति ख, चिह्नितपुस्तकपाठः, मुखभागं
प्रकर्तव्यं मूलाग्निपदकल्पितमिति ङ, चिह्नितपुस्तकपाठः
4 कर्णाभ्यां कुण्डलीकृत्वेति ग, चिह्नितपुस्तकपाठः
:प् 156
भुजाच्च पञ्चमांशेन(1) भुजहीनं विवर्तयेत्

54.048

विस्तारस्य षडंशेन मुखैर् निर्गमनं हितं ।अप्_54.048अब्।
सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc