अग्नि पुराण · अध्याय 53
:ए इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम
द्विपञ्चाशत्तमो ऽध्यायः ॥
:न्
1 दन्तुरास्य इति ख, घ, चिह्नितपुस्तकद्वयपाठः
2 मण्डलाग्निदलारूढमिति ङ, चिह्नितपुस्तकपाठः
3 शूलं गलन्ती कुण्डी चेति ख, चिह्नितपुस्तकपाठः
4 स्कन्दगणा दश विनायका इति ख, चिहिनितपुस्तकपाठः
5 अत्र चण्डिकादशहस्तेषु खड्गशूलारिशक्तिधृगिति युक्तः
पाठः
अस्मल्लब्धपुस्तकपञ्चकेषु नायं पाठः
:प् 149
% छप्तेर् {53}
:श् अथ त्रिपञ्चाशत्तमोध्यायः
लिङ्गलक्षणं
भगवानुवाच
लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु ।अप्_53.001अब्।
दैर्घ्यार्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः
विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत् ।अप्_53.002अब्।
आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत्
ब्रह्मविष्णुशिवांशेषु वर्धमानोयमुच्यते ।अप्_53.003अब्।
चतुरस्रेस्य वर्णार्धं गुह्यकोणेषु लाञ्छयेत्
अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः ।अप्_53.004अब्।
षोडशास्रं ततः कुर्याद्द्वात्रिंशास्रं ततः पुनः
चतुःषष्ट्यस्रकं कृत्वा वर्तुलं साधयेत्ततः ।अप्_53.005अब्।
कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः
विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ।अप्_53.006अब्।
भागार्धार्धन्तु सन्त्यज्य च्छत्राकारं शिरो भवेत्
त्रिषु भागेषु सदृशमायामं यस्य चिस्तरः ।अप्_53.007अब्।
तद्विभागसमं लिङ्गं सर्वकामफलप्रदं
दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते ।अप्_53.008अब्।
सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतं
मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं(1) बुधः ।अप्_53.009अब्।
षोडशाङ्गुललिङ्गस्य षड्भागैर् भाजितो यथा
तद्वैयमनसूत्राभ्यां मानमन्तरमुच्यते ।अप्_53.010अब्।
यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः
अधोभागं त्रिधा कृत्वा त्वर्धमेकं परित्यजेत् ।अप्_53.011अब्।
:न्
1 व्रजेदात्यन्तिकमिति ग, चिह्नितपुस्तकपाठः
:प् 150
अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्र्यं त्यजेत्
ऊर्ध्वञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत् ।अप्_53.012अब्।
भागमेकं परित्यज्य सङ्गं कारयेत्तयोः
एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया ।अप्_53.013अब्।
सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे
ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयं ।अप्_53.014अब्।
न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि
तथा सुमुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत् ।अप्_53.015अब्।
द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम्
त्रिभागं मध्यतः खातं कृत्वा पीठं(1) विभाजयेत् ।अप्_53.016अब्।
स्वमानार्धत्रिभागेण बाहुल्यं परिकल्पयेत्
बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत् ।अप्_53.017अब्।
खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत्
मेखलाषोडशांशेन खातं वा तत्प्रमाणज्ञः ।अप्_53.018अब्।
उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु(2) कारयेत्
भूमौ प्रविष्टमेकं तु भागैकेन(3) पिण्डिका ।अप्_53.019अब्।
कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका
द्यंगेन चोर्ध्वपट्टन्तु(4) एकांशाः शेषपट्टिका ।अप्_53.020अब्।
भागं भागं प्रविष्टन्तु यावत् कण्ठं ततः पुनः
निर्गमं भागमेकं तु यावद्वै शेषपट्टिका ।अप्_53.021अब्।
प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः
:न्
1 मध्यतः कृत्वा ततः पीठमिति घ,
चिह्नितपुस्तकपाठः
2 विकारांशांश्चेति घ, चिह्नितपुस्तकपाठः
3 भागेनैकेनेति ग, चिह्नितपुस्तकपाठः
4 चार्धपट्टन्तु इति ख, ग, चिह्नितपुस्तकपाठः
:प् 151
मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्धतः ।अप्_53.022अब्।
ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै ।अप्_53.022च्द्।
पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0