भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 52

52.001

:ए इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशो
ऽध्यायः ॥
% छप्तेर् {52}
:श् अथ द्विपञ्चोशो ऽध्यायः
देवीप्रतिमालक्षणं
भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात् ।अप्_52.001अब्।
:न्
1 शिखिनीसूत्रवान् शनिरिति ग, घ, चिह्नितपुस्तकद्वयपाठः
2 खड्गो इति घ, चिह्नितपुस्तकपाठः
3 मणिविद्याधराश् च खे इति ख, चिहितपुस्तकपाठः
4 विस्तृतानना इति ख, चिह्नितपुस्तकपाठः
5 शूलयुता इति ग, घ, ङ, चिह्नितपुस्तकपाठः
:प् 147
अक्षोभ्या रूक्षकर्णो च राक्षसी कृपणाक्षया(1)

52.002

पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा ।अप्_52.002अब्।
लोला लक्ता बलाकेशी(2) लालसा विमला पुनः(3)

52.003

हुताशा च विशालाक्षी हुङ्कारा वडवामुखी ।अप्_52.003अब्।
महाक्रूरा क्रोधना तु भयङ्करी महानना

52.004

सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना ।अप्_52.004अब्।
साराख्या रुद्रशङ्ग्राही(4) सम्बरा तालजङ्घिका

52.005

रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी ।अप्_52.005अब्।
मेघनादा प्रचण्डोग्रा कालकर्णी(5) वरप्रदा

52.006

चन्द्रा चन्द्रावली(6) चैव प्रपञ्चा प्रलयान्तिका ।अप्_52.006अब्।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा

52.007

धमनी तापनी चैव रागिणी(7) विकृतानना ।अप्_52.007अब्।
वायुवेगा वृहत्कुक्षिर्विकृता विश्वरूपिका

52.008

यमजिह्वा जयन्ती च दुर्जया च जयान्तिका ।अप्_52.008अब्।
विडाली रेवती चैव पूतना विजयान्तिका

52.009

अष्टहस्ताश् चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः ।अप्_52.009अब्।
:न्
1 क्षपणा क्षमा इति ख, चिह्नितपुस्तकपाठः । क्षपणा
क्षपा इति ग, घ, चिह्नितपुस्तकद्वयकपाठः
2 लोला रक्ता च लोकेशो इति ग, घ, ङ, चिह्निअपुस्तकत्रयपाठः
3 विमला तत इति ग, घ, चिह्नितपुस्तकद्वयपाठः
4 रससङ्ग्राही इति ख, चिह्नितपुस्तकपाठः । वसुसङ्ग्राही इति घ,
चिह्नितपुस्तकपाठः
5 कालवर्णी इति ग, घ, चिह्नितपुस्तकद्वयपाठः
6 चण्डा चण्दवतीति ङ, चिह्नितपुस्तकपाठः
7 वामनी इति ख, ग, ङ, चिह्नितपुस्तकपाठः
:प् 148
भैरवश्चार्कहस्तः स्यात् कूर्परास्यो(1) जटेन्दुभृत्

52.010

खड्गाङ्कुशकुठारेषुविश्वभयभृदेकतः ।अप्_52.010अब्।
चापत्रिशूलखट्वाङ्गपाशकार्धवरोद्यतः

52.011

गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषतः ।अप्_52.011अब्।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा

52.012

अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितं ।अप्_52.012अब्।
तत्षडङ्गानि जात्यन्तैर् अन्वितं च क्रमाद् यजेत्

52.013

मन्दिराग्निदलारूढं(2) सुवर्णरसकान्वितं ।अप्_52.013अब्।
नादविन्द्वन्दुसंयुक्तं मातृनाथाङ्गदीपितं

52.014

वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः ।अप्_52.014अब्।
गौरीं तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता

52.015

शूलं गलन्तिका कुण्डी(3) वरदा च चतुर्भुजा ।अप्_52.015अब्।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया(4)

52.016

चण्डिका सशहस्ता स्यात् खड्गशूलारिशक्तिधृक् ।अप्_52.016अब्।
दक्षे वामे नागपाशं चर्माग्कुशकुठारकं ।अप्_52.016च्द्।
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc