भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 50

50.001

:ए इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम
ऊनपञ्चाशो ऽध्यायः ॥
% छप्तेर् {50}
:श् अथ पञ्चाशोध्यायः
देवीप्रतिमालक्षणकथनं
भगवानुवाच
चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः ।अप्_50.001अब्।
शूलासिशक्तिचक्राणि पाशं खेटायुधाभयं

50.002

डमरुं शक्तिकां वामैर् नागपाशञ्च खेटकं ।अप्_50.002अब्।
कुठाङ्कुशचापांश् च घण्टाध्वजगदांस् तथा

50.003

आदर्शमुद्गरान् हस्तैश् चण्डी वा दशबाहुका ।अप्_50.003अब्।
तदधो महिषश्छिन्नमूर्धा पतितमस्तकः

50.004

:न्
1 चर्म चोत्तममिति ङ, चिह्नितपुस्तकपाठः
:प् 141
शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान् ।अप्_50.004अब्।
शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्धजेक्षणः

50.005

सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशं ।अप्_50.005अब्।
याम्याङ्घ्य्राक्रान्तसिंहा च सव्याङ्घ्रिर्नीचगासुरे

50.006

चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्दनी ।अप्_50.006अब्।
नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः

50.007

आदौ मध्ये तथेन्द्रादौ नवातत्त्वात्मभिः(1) क्रमात् ।अप्_50.007अब्।
अष्टादशभुजैका तु दक्षे मुण्डं च खेटकं

50.008

आदर्शतर्जनीचापं ध्वजं डमरुकं तथा ।अप्_50.008अब्।
पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकं

50.009

वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया ।अप्_50.009अब्।
एतैर् एवायुधैर् युक्ता शेषाः षोडशबहुकाः

50.010

डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव ।अप्_50.010अब्।
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका

50.011

चण्डा चण्दवती चैव चण्डरूपातिचण्डिका ।अप्_50.011अब्।
उग्रचण्डा च मध्यस्था रोचनाभारुणासिता

50.012

नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः ।अप्_50.012अब्।
महिषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः

50.013

आलीढा नव(2) दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये ।अप्_50.013अब्।
तथा गौरी च चण्डिकाद्या कुण्ड्यक्षररदाग्निधृक्

50.014

सैव रम्भा वने सिद्धाग्निहीना ललिता तथा ।अप्_50.014अब्।
स्कन्धमूर्धकरा वामे द्वितीये धृतदर्पणा

50.015

:न्
1 नवतत्वादिभिरिर्ति ङ,चिह्नितपुस्तकपाठः
2 शालासु नव इति ङ, चिह्नितपुस्तकपाठः
:प् 142
याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका ।अप्_50.015अब्।
लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता

50.016

पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।अप्_50.016अब्।
कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी (1)

50.017

कूर्मगा यमुना कुम्भकरा श्यामा च पूज्यते ।अप्_50.017अब्।
सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे

50.018

गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता ।अप्_50.018अब्।
कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता

50.019

शरचापौ दक्षिणे ऽस्या वामे चक्रं(2) धनुर्वृषे ।अप्_50.019अब्।
कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका

50.020

चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक् ।अप्_50.020अब्।
दण्डशङ्खासि(3) गदया वाराहो महिषस्थिता

50.021

ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये ।अप्_50.021अब्।
चामुण्डा कोटराघ्नी स्यान्निर्मांसा तु त्रिलोचना

50.022

निर्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी ।अप्_50.022अब्।
द्वीपचर्मधरा वामे कपालं पट्टिशङ्करे

50.023

शूलं कर्त्री दक्षणे ऽस्याः शवारूढास्थितभूषणा ।अप्_50.023अब्।
विनायको नराकारो वृहत्कुक्षिर्गजाननः

50.024

वृहच्छुण्डो ह्य् उपवीतो मुखं सप्तकलं भवेत् ।अप्_50.024अब्।
विस्ताराद्दैर्घ्यतचैव शुण्डं षट्त्रिंशदङ्गुलं

50.025

कला द्वादश नाडी तु ग्रीवा सार्धकलोच्छ्रिता ।अप्_50.025अब्।
षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्धमङ्गुलं

50.026

:न्
1 मकरेद्धरि जाह्नवीति ख, घ, ङ, चिह्नितपुस्तत्रयकपाठः
2 वामे वज्रमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 शङ्खारि इति ख, चिह्नितपुस्तकपाठः
:प् 143
नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे ।अप्_50.026अब्।
स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये

50.027

सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयूरगः ।अप्_50.027अब्।
स्वामी शाखो विशाखश् च द्विभुजो बालरूपधृक्

50.028

दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः ।अप्_50.028अब्।
षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः

50.029

शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः ।अप्_50.029अब्।
शक्त्या दाक्षिणहस्तेषु षट्सु वामे करे तथा

50.030

शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे ।अप्_50.030अब्।
कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः

50.031

गजचर्मभृदूर्ध्वास्यपादा स्यात् रुद्रचर्चिका ।अप्_50.031अब्।
सैव चाष्टभुजा देवी शिरोडमरुकान्विता

50.032

तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती ।अप्_50.032अब्।
इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी

50.033

नृवाजिमहिषेभांश् च खादन्ती च करे स्थितान् ।अप्_50.033अब्।
दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकं

50.034

बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकं ।अप्_50.034अब्।
खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया

50.035

सिद्धयोगेश्वरी देवी सर्वसिद्धप्रदायिका ।अप्_50.035अब्।
एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा

50.036

भैरवी रूपविद्या तु भुजैर् द्वादशभिर्युता ।अप्_50.036अब्।
एताः श्मशानजा रौद्रा अम्बाष्टकमिदं(1) स्मृतं

50.037

:न्
1 आद्याष्टकमिदमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
:प् 144
क्षमा शिवावृता(1) वृद्धा द्विभुजा विवृतानना ।अप्_50.037अब्।
दन्तुरा क्षेमकरी स्याद्भूमौ जानुकरा स्थिता

50.038

यक्षिण्यस्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः(2) ।अप्_50.038अब्।
पिङ्गाक्षाः स्युर्महारम्या रूपिण्योप्सरसः(3) सदा

50.039

साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः ।अप्_50.039अब्।
महाकालोसिमुण्डी स्याच्छूलखटकवांस् तथा

50.040

कृशो भङ्गी च नृत्यन् वै कुष्माण्डस्थूलखर्ववान् ।अप्_50.040अब्।
गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः

50.041

घण्टाकर्णोष्टदशदोः पापरोगं विदारयन् ।अप्_50.041अब्।
वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान्

50.042

दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकं ।अप्_50.042अब्।
चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकं ।अप्_50.042च्द्।
घण्टामालाकुलो देवो विस्फोटकविमर्दनः(4)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc