अग्नि पुराण · अध्याय 49
:ए इत्य् आदिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं नाम
अष्टाचत्वारिंशो ऽध्यायः ॥
% छप्तेर् {49}
:श् अथोनपञ्चाशो ऽध्यायः
मत्स्यादिलक्षणवर्णनं
भगवानुवाच
दशावतारं मत्स्यादिलक्षणं प्रवदामि ते ।अप्_49.001अब्।
मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कार्माकृलिर्भवेत्
:न्
1 शङ्खपद्मी इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 138
नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् ।अप्_49.002अब्।
दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा
श्रीवामकूर्परस्था तु क्ष्मानन्तौ चरणानुगौ ।अप्_49.003अब्।
वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत्
नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः(1) ।अप्_49.004अब्।
तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः
छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः ।अप्_49.005अब्।
रामश्चापेषुहस्तः स्यात् कड्गी परशुनान्वितः
रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः ।अप्_49.006अब्।
गदालाङ्गलधारी च रामो वाथ चतुर्भुजः
वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनं ।अप्_49.007अब्।
मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनं
शान्तात्मा लम्बकर्णश् च गौराङ्गश्चाम्बरावृतः(2) ।अप्_49.008अब्।
ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः
धनुस्तूणान्वितः(3) कल्की म्लेच्छोत्सादकरो द्विजः ।अप्_49.009अब्।
अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः
लक्षणं वासुदेवादिनवकस्य वदामि ते ।अप्_49.010अब्।
दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमं
ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत् ।अप्_49.011अब्।
शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः
लाङ्गली मुषली रामो गदापद्मधरः स्मृतः ।अप्_49.012अब्।
:न्
1 वामोरुहृतदानव इति ङ, चिह्नितपुस्तकपाठः
2 गौराङ्गश्चायुधावृत इति ख, ग,
चिह्नितपुस्तकद्वयपाठः
3 धनुर्वाणान्वित इति ङ, चिह्नितपुस्तकपाठः
:प् 139
प्रद्युम्नो दक्षिणे वज्रं(1) शङ्खं वामे धनुः करे
गदानाभ्यावृतः(2) पीत्या प्रद्युम्नो वा धनुःशरी ।अप्_49.013अब्।
चतुर्भुजो निरुद्धः स्यात्तथा नारायणो विभुः
चतुर्मुखश् चतुर्बाहुर्वृहज्जठरमण्डलः ।अप्_49.014अब्।
लम्बकूर्चो(3) जटायुक्तो व्रह्मा हंसाग्रवाहनः
दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका ।अप्_49.015अब्।
आज्यस्थाली सरस्वती सावित्री वामदक्षिणे
विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे ।अप्_49.016अब्।
गदाशरश् च वरदो वामे कार्मुकखेटके
चक्रशङ्खौ चतुर्बाहुर् नरसिंहश् चतुर्भुजः ।अप्_49.017अब्।
शङ्खचक्रधरो वापि विदारितमहासुरः
अचतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः ।अप्_49.018अब्।
धारयन् बाहुना पृथ्वीं वाम्नेन कमलाधरः(4)
पादलग्ना धरा कार्या पदा लक्ष्मीर्व्यवस्थिता ।अप्_49.019अब्।
त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे
चक्रं खड्गं च मुषलं अङ्कुशं वामके करे ।अप्_49.020अब्।
शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते
लक्ष्मीः सरस्वती कार्ये विश्वरूपो ऽथ दक्षिणे ।अप्_49.021अब्।
मुद्गरं च तथा पाशं शक्तिशूलं शरं करे
वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरं ।अप्_49.022अब्।
:न्
1 दक्षिणे चक्रमिति ङ, चिह्नितपुस्तकपाठः
2 गदी रत्यावृत इति ङ, चिह्नितपुस्तकपाठः
3 लम्बभ्रुव इति ङ, चिह्नितपुस्तकपाटः
4 धारयन्नाकुलां पृथ्वीं वामेन कमलामध इति ङ,
चिह्नितपुस्तकपाठः
:प् 140
लाङ्गलं परशुं दण्डं छुरिकां चर्मक्षेपकं(1)
विंशद्बाहुश् चतुर्वक्त्रो दक्षिणस्थोथ वामके ।अप्_49.023अब्।
त्रिनेत्रे वामपार्श्वे न शयितो जलशाय्यपि
श्रिया धृतैकचरणो विमलाद्याभिरीडितः ।अप्_49.024अब्।
नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः
शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे ।अप्_49.025अब्।
रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः
शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।अप्_49.026अब्।
वामपादो धृतः शेषे दक्षिणः कूर्मपृष्ठगः
दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह ।अप्_49.027अब्।
विश्वक्सेनश् चक्रगदी हली शङ्खी हरेर्गणः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0