भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 51

51.001

:ए इत्य् आदिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम
पञ्चाशो ऽध्यायः ॥
% छप्तेर् {51}
:श् अथ एकपञ्चाशो ऽध्यायः
सूर्यादिप्रतिमालक्षणं
भगवानुवाच
ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।अप्_51.001अब्।
मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे

51.002

वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः ।अप्_51.002अब्।
:न्
1 शिवाच्युतेति ख, चिह्नितपुस्तकपाठः
2 वज्रदृष्टय इति ख, चिह्नितपुस्तकपाठः
3 महारथ्यो रूपिण्यो ऽप्सरस इति ख, चिह्नितपुस्तकपाठः
4 विस्फोटकरुणर्दन इति ग, ङ, चिह्नितपुस्तकपाठः
:प् 145
बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा

51.003

अथवाश्वारूढः कार्य एकस्तु भास्करः ।अप्_51.003अब्।
वरदा द्व्यब्जनः सर्वे दिक्पालास्त्रकराः क्रमात्

51.004

मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः ।अप्_51.004अब्।
सूर्यार्यमादिरक्षोन्ताश् चतुर्हस्ता द्विषड्दले

51.005

वरुणः सूर्यनामा च सहस्रांशुस् तथापरः ।अप्_51.005अब्।
धाता तपनसञ्ज्ञश् च सविताथ गभस्तिकः

51.006

रविश् चैवाथ पर्जन्यस्त्वष्टा मित्रोथ विष्णुकः ।अप्_51.006अब्।
मेषादिराशिसंस्थाश् च मार्गादिकार्त्तिकान्तकाः

51.007

कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः ।अप्_51.007अब्।
कपिलः पीतवर्णश् च शुकाभो धवलस् तथा

51.008

धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः ।अप्_51.008अब्।
इडा सुषुम्ना विश्वार्चिरिन्दुसञ्ज्ञा प्रमर्दिनी(1)

51.009

प्रहर्षिणी महाकाली कपिला च प्रबोधनी ।अप्_51.009अब्।
नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः

51.010

वरुणादेश् च तद्वर्णाः केशराग्रेषु विन्यसेत् ।अप्_51.010अब्।
तेजश् चण्डो महावक्रो(2) द्विभुजः पद्मखद्गभृत्(3)

51.011

कुण्डिकाजप्यामालीन्दुः कुजः शक्त्यक्षमालिकः ।अप्_51.011अब्।
बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः

51.012

:न्
1 विश्वाची विन्दुसञ्ज्ञाप्रवर्धनी इति ङ,
चिह्नितपुस्तकपाठः
2 महारक्त इति ख, चिह्नितपुस्तकपाठः । मार्तण्डश् च महारक्त
इति ङ, चिह्नितपुस्तकपाठः
3 पद्मखड्गधृगिति ग, घ, चिह्नितपुस्तकपुस्तकपाठः ।
खड्गचर्मभृदिति ङ, चिह्नितपुस्तकपाठः
:प् 146
शुक्रः कुण्ड्यक्षमाली स्यात् किण्किणीसूत्रवाञ्छनिः(1) ।अप्_51.012अब्।
अर्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत्

51.013

अनन्तस्तक्षकः कर्कः पद्मो महाब्जः शङ्खकः ।अप्_51.013अब्।
कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः

51.014

इन्द्रो वज्री गजारूढश्छागगोग्निश् च शक्तिमान् ।अप्_51.014अब्।
यमो दण्डी च महिषे नैरृतः खड्गवान् करे

51.015

मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे ।अप्_51.015अब्।
गदी(2) कुवेरो मेषस्थ ईशानश् च जटी वृषे

51.016

द्विबाहवो लोकपाला विश्वकर्माक्षसूत्रभृत् ।अप्_51.016अब्।
हनूमान् वज्रहस्तः स्यात् पद्भ्यां सम्पीडिताश्रयः

51.017

वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश् च खे(3) ।अप्_51.017अब्।
दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः(4) ।अप्_51.017च्द्।
क्षेत्रपालाः शूलवन्तः(5) प्रेता महोदराः कृशाः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc