अग्नि पुराण · अध्याय 48
:ए इत्य् आदिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम
सप्तचत्वारिंशो ऽध्यायः ॥
% छप्तेर् {48}
:श् अथाष्टाचत्वारिंशो ऽध्यायः
चतुर्विंशतिमूर्तिस्तोत्रकथनं
भगवानुवाच
ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः ।अप्_48.001अब्।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणं
ततो गदो माधवोरिशङ्खपद्मी नमामि तं ।अप्_48.002अब्।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः
भोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश् च चक्रधृक् ।अप्_48.003अब्।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि ।अप्_48.004अब्।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा
गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि(2) ।अप्_48.005अब्।
हृषीकेशो गदाचक्री पद्मी चक्रशङ्खी च पातु नः
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः ।अप्_48.006अब्।
दामोदरः पद्मशङ्खगदाचक्री नमामि तं
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत् ।अप्_48.007अब्।
सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः
:न्
1 जितं तत इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
2 चक्री गद्यथ शङ्ख्यपि इति ङ, चिह्नितपुस्तकपाठः
:प् 137
गदी चक्री शङ्खगदी (1) प्रद्युम्नः पद्मभृत् प्रभुः ।अप्_48.008अब्।
अनिरुद्धश् चक्रगदी शङ्खी पद्मी च पातु नः
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः ।अप्_48.009अब्।
अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः
देवो नृसिंहश् चक्राब्जगदाशङ्खी नमामि तम् ।अप्_48.010अब्।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः
बालरूपी शङ्खगदी उपेन्द्रश् चक्रपद्म्यपि ।अप्_48.011अब्।
जनार्दनः पद्मचक्री शङ्खधारी गदाधरः
शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः ।अप्_48.012अब्।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः
आदिमूत्तिर्वासुदेवस्तस्मात् सङ्कर्षणोभवत् ।अप्_48.013अब्।
सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः
केशवादिप्रभेदेन ऐकैकस्य त्रिधा क्रमात् ।अप्_48.014अब्।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् ।अप्_48.014च्द्।
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0