अग्नि पुराण · अध्याय 45
:ए इत्य् आदिमहापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश्
चत्वारिंशोध्यायः ॥
% छप्तेर् {45}
:श् अथ पञ्चचत्वारिंशोध्यायः
पिण्डिकालक्षणकथनं
भगवानुवाच
पिण्डिकालक्षणं वक्ष्ये दैर्घ्येण प्रतिमासमा ।अप्_45.001अब्।
उच्छ्रायं प्रतिमार्धन्तु चतुःषष्टिपुटां(2) च ताम्
त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूर्ध्वं यत्तु कोष्ठकम् ।अप्_45.002अब्।
:न्
1 सार्धाङ्गुलं तथायाममिति ङ, चिह्नितपुस्तकपाठः
2 मणिविद्याधराविति घ, चिह्नितपुस्तकपाठः
3 चतुःषष्टिपदामिति ङ, चिह्नितपुस्तकपाठः
:प् 132
समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत्
ऊर्ध्वं पङ्ग्क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम् ।अप्_45.003अब्।
अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम्
तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ।अप्_45.004अब्।
चतुर्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः
मेखला भागमात्रा स्यात् खातं तस्यार्धमानतः ।अप्_45.005अब्।
भागं भागं परित्यज्य पार्श्वयोरुभयोः समं
दत्वा चैकं पदं वाह्ये प्रमाणं कारयेद् बुधः ।अप्_45.006अब्।
त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः
नानाप्रकारभेदेन भद्रेयं(1) पिण्डिका शुभा ।अप्_45.007अब्।
अष्टताला तु कर्तव्या देवी लक्ष्मीस्तया स्त्रियः
भ्रुवौ यवाधिके कार्ये यवहीना तु नासिका ।अप्_45.008अब्।
गोलकेनाधिकं वक्त्रमूर्ध्वं तिर्यग्विवर्जितं
आयते नयने कार्ये त्रिभागोनैर् यवैस्त्रिभिः ।अप्_45.009अब्।
तदर्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत्
कर्णपाशो .धिकः कार्यः सृक्कणीसमसूत्रतः ।अप्_45.010अब्।
नम्रं कलाविहीनन्तु कुर्यादंशद्वयं तथा
ग्रीवा सार्धकला कार्या तद्विस्तारोपशोभिता ।अप्_45.011अब्।
नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका
अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथाभागं प्रकल्पयेत् ।अप्_45.012अब्।
सप्तांशोनास् तथाङ्गुल्यो दीर्घं विष्कम्भनाहतं
नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः ।अप्_45.013अब्।
मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयं
:न्
1 तत्रेयमिति ङ, चिह्नितपुस्तकपाठः
:प् 133
तालमात्रौ स्तनौ कर्यौ कटिः सार्धकलाधिका ।अप्_45.015अब्।
लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चामुबुजं करे
वामे वित्त्वं स्त्रियौ पार्श्वे शुभे चामरहस्तके ।अप्_45.016अब्।
दीर्घघोणस्तु गरुडश् चक्राङ्गाद्यानथो वदे
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0