अग्नि पुराण · अध्याय 44
:ए इत्य् आदि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम
त्रिचत्वारिंशो ऽध्यायः ॥
% छप्तेर् {44}
:श् अथ चतुश् चत्वारिंशो ऽध्यायः
वासुदेवादिप्रतिमालक्षणविधिः
भगवानुवाच
वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।अप्_44.001अब्।
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननां
संस्थाप्य पूज्य च बलिं दत्वाथो मध्यसूचकं ।अप्_44.002अब्।
शिलां शिल्पी तु नवधा विभज्य नवमे ऽंशके
सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते ।अप्_44.003अब्।
द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते
भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् ।अप्_44.004अब्।
भागमेकं तथा जानौ ग्रीवायां भागमेव च
मुकुटं तालमात्रं स्यात्तालमात्रं तया मुखं ।अप्_44.005अब्।
तालेनैकेन कण्ठन्तु तालेन हृदयं तथा
नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा ।अप्_44.006अब्।
तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतं
कार्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरं ।अप्_44.007अब्।
जानौ सूत्रद्वयं कार्यमूरूमध्ये तथापरं
मेढ्रे तथापरं कार्यं कट्यां सूत्रन्तथापरं ।अप्_44.008अब्।
मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा
:प् 128
हृदये च तथा कार्यं कण्ठे सूत्रद्वयं तथा ।अप्_44.009अब्।
ललाते चापरं कार्यं मस्तके च तथापरं
मुकुटोपरि कर्तव्यं सूत्रमेकं विचक्षणैः ।अप्_44.010अब्।
सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव(1)
कक्षात्रिकान्तरेणैव घट् सूत्राणि प्रदापयेत् ।अप्_44.011अब्।
मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत्
ललाटं नासिकावक्त्रं कर्तव्यञ्चतुरङ्गुलं ।अप्_44.012अब्।
ग्रीवाकर्णौ तु कर्तव्यौ आयामाच्चतुरङ्गुलौ
द्व्यङ्गुले हनुके कार्ये विस्ताराच्चिबुकन्तथा ।अप्_44.013अब्।
अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्तितम्
परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ ।अप्_44.014अब्।
चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः
द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्धपञ्चमे ।अप्_44.015अब्।
भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्तितम्
विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् ।अप्_44.016अब्।
चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम्
गन्धपात्रं तथावर्तं शष्कुलीं कल्पयेत्तथा ।अप्_44.017अब्।
द्व्यङ्गुलेनाधरः कार्यस्तस्यार्धेनोत्तराधरः
अर्धाङ्गुलं तथा नेत्रं(2) वक्त्रन्तु चतुरङ्गुलम् ।अप्_44.018अब्।
आयामेन तु वैपुल्यात् सार्धमङ्गुलमुच्यते
अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते ।अप्_44.019अब्।
नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम्
उच्छ्राया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः ।अप्_44.020अब्।
:न्
1 मुकुटोपरि इति ख, चिह्नितपुस्तकपाठः
2 तथा गोजी इति ख, चिह्नितपुस्तकपाठः
:प् 129
अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः
द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः ।अप्_44.021अब्।
तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका
त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्धाङ्गुला मता ।अप्_44.022अब्।
तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते
भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुराङ्गुलम्(1) ।अप्_44.023अब्।
षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम्
मूर्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् ।अप्_44.024अब्।
पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः
त्रिगुणन्तु भवेदूर्ध्वं विस्तृताष्टाङ्गुलं पुनः ।अप्_44.025अब्।
ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत्
स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ ।अप्_44.026अब्।
सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ
त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ ।अप्_44.027अब्।
बाहुदण्डोर्ध्वतो ज्ञेयः परिणाहः कला नव
सप्तदशाङ्गुलो मध्ये कूर्पारोर्धे च षोडश ।अप्_44.028अब्।
कूर्पारस्य भवेन्नाहः त्रिगुणः कमलोद्भव
नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते ।अप्_44.029अब्।
अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते
विस्तरेण करतलं कीर्तितं तु षडङ्गुलम् ।अप्_44.030अब्।
दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पज्चाङ्गुला मता
तर्जन्यनामिका चैव तस्मादर्धाङ्गुलं विना ।अप्_44.031अब्।
कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ
:न्
1 भ्रूदैर्घ्याच्चतुरङ्गुला इति ङ, चिह्नितपुस्तकपाठः
:प् 130
द्विपर्वोङ्गुष्ठकः कार्यः शेषागुल्यस्त्रिपर्विकाः ।अप्_44.032अब्।
सर्वासां पर्वणोर्धेन नखमानं विधीयते
वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः ।अप्_44.033अब्।
अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः
ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः ।अप्_44.034अब्।
नाभिमध्ये प्रीणाहो द्विचत्वारिंशदङ्गुलैः
अन्तरं स्तनयोः कार्यं तालमात्रं प्रमाणतः ।अप्_44.035अब्।
चिवुकौ(1) यवमानौ तु मण्डलं द्विपदं भवेत्
चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसःस्फुटम् ।अप्_44.036अब्।
चतुर्मुखञ्च तदधोवेष्टनं परिकीर्तितम्
परिणाहस् तथा कट्या चतुःपञ्चाशदङ्गुलैः ।अप्_44.037अब्।
विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः
तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् ।अप्_44.038अब्।
विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः
जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः ।अप्_44.039अब्।
त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात्
त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ ।अप्_44.040अब्।
आयामादुत्थितौ पादौ चतुरङ्गुलमेव च
गुल्फात् पूर्वं तु कर्तव्यं प्रमाणाच्चतुरङ्गुलम् ।अप्_44.041अब्।
त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः
पञ्चाङ्गुलस्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी ।अप्_44.042अब्।
अष्टमाष्टांशतोन्यूनः शेषाङ्गुल्यः क्रमेण तु
सपादाङ्गुलमुत्सेधमङ्गुष्टस्य प्रकीर्तितं ।अप्_44.043अब्।
यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा
:न्
1 चूचुकौ इति ङ, चिह्नितपुस्तकपाठः
:प् 131
अर्धाङ्गुलं तथान्यासां(1) क्रमान् न्यूनं तु कारयेत् ।अप्_44.044अब्।
अङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम्
परिणाहोत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।अप्_44.045अब्।
षडङ्गुलपरीणाहौ वृषणौ परिकीर्तितौ
प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम् ।अप्_44.046अब्।
अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम्
दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च ।अप्_44.047अब्।
वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात्
श्रीपुष्टौ वापि कर्तव्ये पद्मवीणाकरान्विते ।अप्_44.048अब्।
ऊरुमात्रोच्छितायामे मालाविद्याधरौ(2) तथा
प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा ।अप्_44.049अब्।
पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0