भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 46

46.001

:ए इत्य् आदिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं
नाम पञ्चचत्वारिंशो ऽध्यायः
% छप्तेर् {46}
:श् अथ षट्चत्वारिंशो ऽध्यायः
शालग्रामादिमूर्तिलक्षणकथनं
भगवानुवाच
शालग्रामादिमूर्तेश् च वक्ष्येहं भुक्तिमुक्तिदाः ।अप्_46.001अब्।
वासुदेवो ऽसितो द्वारे शालग्रामद्विचक्रकः

46.002

ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः ।अप्_46.002अब्।
सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीघवः

46.003

पीतो निरुद्धः पद्माङ्गो वर्तुलो द्वित्रिरेखवान् ।अप्_46.003अब्।
कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान्

46.004

परमेष्ठो साब्जचक्रः पृष्ठच्छिद्रकश् च(1) विन्दुमान् ।अप्_46.004अब्।
स्थूलचक्रो ऽसितो विष्णुर्मध्ये रेखा गदाकृतिः

46.005

नृसिंहः कपिकः स्थूलवक्रः स्यात् पञ्चविन्दुकः ।अप्_46.005अब्।
वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ सृतौ

46.006

इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः ।अप्_46.006अब्।
कूर्मस्तथोन्नतः पृष्ठे वर्तुलावर्तको ऽसितः

46.007

हयग्रीवोङ्कुशावाररेखो नीलः सविन्दुकः ।अप्_46.007अब्।
:न्
1 पृथुश्च्च्छिद्रश्चेति ङ, चिह्नितपुस्तकपाठः
:प् 134
वैकुण्ठः एकचक्रो ऽब्जी मणिभिः पुच्छरेखकः

46.008

मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः ।अप्_46.008अब्।
श्रीधरो वनमालाङ्कः पञ्जरेखस्तु वर्तुलः

46.009

वामनो वर्तुलश्चातिह्रस्वो नीलः सविन्दुकः ।अप्_46.009अब्।
श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः

46.010

अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्तिमान् ।अप्_46.010अब्।
स्थूलो दामोदरो मध्यचक्रो द्वाःसूक्ष्मविन्दुकः(1)

46.011

सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात् ।अप्_46.011अब्।
त्रिचक्रश्चाच्युतो देवस्त्रिचक्रको वा त्रिविक्रमः

46.012

जनार्दनश् चतुश् चक्रो वासुदेवश् च पञ्चभिः ।अप्_46.012अब्।
षट्वक्रश् चैव प्रद्युम्नः सङ्कर्षणञ्च सप्तभिः

46.013

पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः ।अप्_46.013अब्।
दशावतारो दशभिर्दशैकेनानिरुद्धकः ।अप्_46.013च्द्।
द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc