भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 43

43.001

:ए इत्य् आदिमहापुराणे आग्नेये प्रासादलक्षणं नाम
द्वाचत्त्वारिंशो ऽध्यायः
% छप्तेर् {43}
:श् अथ त्रिचत्वारिंशो ऽध्यायः
प्रासाददेवतास्थापनं
भगवानुवाच
प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे ।अप्_43.001अब्।
पञ्चायतमध्ये तु वासुदेवं निवेशयेत्

43.002

वामनं नृहरिञ्चाश्वशीर्षं तद्वञ्च शूकरं ।अप्_43.002अब्।
आग्नेये नैरृते चैव वायव्ये चेशगोचरे

43.003

अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् ।अप्_43.003अब्।
नैरृत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके

43.004

अथवा रुद्ररूपन्तु अथवा नवधामसु ।अप्_43.004अब्।
वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान्

43.005

इन्द्रादीन् लोकपालांश् च अथवा नवधामसु ।अप्_43.005अब्।
पञ्चायतनकं कुर्यात् मध्ये तु पुरुषोत्तमं

43.006

लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् ।अप्_43.006अब्।
स्कन्दं गणेशमीशानं सूर्यादीन् पश्चिमे ग्रहान्

43.007

उत्तरे दश मत्स्यादीनाग्नेय्यां चण्डिकां तथा ।अप्_43.007अब्।
नैरृत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीं

43.008

पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा ।अप्_43.008अब्।
त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिं

43.009

:प् 125
पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिं(1) ।अप्_43.009अब्।
मृण्मयी दारुघटिता लोहजा रत्नजा तथा

43.010

शैलजा गन्धजा चैव कौसुमी(2) सप्तधा स्मृता ।अप्_43.010अब्।
कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा

43.011

तत्कालपूजिताश् चैताः सर्वकामफलप्रदाः ।अप्_43.011अब्।
अथ शैलमयीं वक्ष्ये शिला यत्र च गृह्यते

43.012

पर्वतानामभावे च गृह्णीयाद्भूगतां शिलां ।अप्_43.012अब्।
पाण्डरा ह्य् अरुणा पीता कृष्णा शस्ता तु वैर्णिनां

43.013

न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला ।अप्_43.013अब्।
वर्णाद्यापादानं तत्र जुह्यात् सिंहविद्यया

43.014

शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः ।अप्_43.014अब्।
कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका

43.015

तन्मन्दलक्षणा(3) स्त्री स्याद्रूपाभावान्नपुंसका ।अप्_43.015अब्।
दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत्

43.016

प्रतिमार्थं वनं गत्वा व्रजयागं समाचरेत् ।अप्_43.016अब्।
तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत्

43.017

बलिं दत्वा कर्मशस्त्रं टङ्कादिकमथार्चयेत् ।अप्_43.017अब्।
हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलां

43.018

रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्(4) ।अप्_43.018अब्।
हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः

43.019

:न्
1 अन्यधामसु यज्ञविदिति ख, चिह्नितपुस्तकपाठः ।
युग्मधामस्वयं हरिमिति घ, चिह्नितपुस्तकपाठः
2 कौमुदी इति ख, घ, चिह्नितपुस्तकद्वयपाठः
3 उन्मत्तलक्षणा इति ङ, चिह्नितपुस्तकपाठः
4 मन्त्रयेदिति ख, चिह्नितपुस्तकपाठः
:प् 126
अत्र ये संस्थिताः सत्त्वा यातुधानाश् च गुह्यकाः ।अप्_43.019अब्।
सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत्

43.020

विष्णुबिम्बार्थमस्माकं(1) यात्रैषा केशवाज्ञया ।अप्_43.020अब्।
विष्ण्वर्थं यद्भवेत् कार्यं युष्माकमपि तद्भवेत्

43.022

अनेन बलिदानेन प्रीता भवत सर्वथा ।अप्_43.021अब्।
क्षमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥अप्_43.021च्दे
एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखं ।अप्_43.022अब्।
शिल्पिभिश् च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि

43.023

ओं नमः सकललोकाय विष्णवे प्रभविष्णवे ।अप्_43.023अब्।
विश्वाय विश्वरूपाय स्वप्नाधिपतये(2) नमः

43.024

आचक्ष्व देवदेवेश प्रसुप्तोस्मि(3) तवान्तिकं ।अप्_43.024अब्।
स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे

43.025

ओं ओं ह्रूं फट् विष्णवे स्वाहा(4)
शुभे स्वप्ने शुभं सर्वं ह्य् अशुभे सिंहहोमतः ।अप्_43.025अब्।
प्रातरर्घ्यं शिलायां तु दत्वास्त्रेणास्त्रकं यजेत्

43.026

कुद्दालटङ्कशस्त्राद्यं मध्वान्याक्तमुखञ्चरेत् ।अप्_43.026अब्।
आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्मकं(5)

43.027

शस्त्रं विष्ण्वात्मकं(6) दद्यात् मुखपृष्ठादि दर्शयेत् ।अप्_43.027अब्।
जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकां

43.028

:न्
1 लोकसिद्ध्यर्थमस्माकमिति ख, चिह्नितपुस्तकपाठः
2 विश्वाधिपतये इति ख, चिह्नितपुअतकपाठः
3 प्रपन्नो ऽस्मि इति ख, चिह्नितपुस्तकपाठः
4 ओं ओं ह्रीं फडिति ग, चिह्नितपुस्तकपाठः
5 विश्वकर्मणिमिति ख, ग, चिह्नितपुअतकपाठः
6 विश्वात्मकमिति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः
:प् 127
शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् ।अप्_43.028अब्।
रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि ।अप्_43.028च्द्।
पूजयित्वाथ घटयेत् प्रतिमां स तु कर्मकृत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc