भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 42

42.001

:ए इत्य् आदिमहापुराणे आग्नेये पातालयोगकथनं नाम
एकचत्वारिंशो ऽध्यायः ॥
% छप्तेर् {42}
:श् अथ द्वाचत्वारिंशो ऽध्यायः
प्रासादलक्षणकथनं
हयग्रीव उवाच
प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु ।अप्_42.001अब्।
चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः

42.002

मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितं ।अप्_42.002अब्।
:न्
1 समप्रासादमानत इति ङ, चिह्नितपुस्तकपाठः
:प् 122
द्वदशैव तु भागानि भित्त्यर्थं परिकल्पयेत्

42.003

जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेण चायतं(1) ।अप्_42.003अब्।
जङ्घायां द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः

42.004

तुर्यभागेन मञ्जर्याः कार्यः सम्यक् प्रदक्षिणः(2) ।अप्_42.004अब्।
तन्माननिर्गमं कार्यमुभयोः पार्श्वयोः समं

42.005

शिखरेण समं कार्यमग्रे जगति विस्तरं ।अप्_42.005अब्।
द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः

42.006

विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।अप्_42.006अब्।
दैर्घ्यात्पादाधिकं कुर्यान्मध्यस्तम्भैर् विभूषितं

42.007

प्रासादगर्भमानं वा कुर्वीत मुखमण्डपं ।अप्_42.007अब्।
एकाशीतिपदैर् व्यास्तुं पश्चात् मण्डपमारभेत्

42.008

शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान् ।अप्_42.008अब्।
तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान्(3)

42.009

सर्वसाधारणं चैतत् प्रासादस्य च लक्षणं ।अप्_42.009अब्।
मानेन प्रतिमाया वा प्रासादमपरं शृणु

42.010

प्रतिमायाः प्रमाणन कर्तव्या पिण्डिका शुभा ।अप्_42.010अब्।
गर्भस्तु पिण्डिकार्धेन गर्भमानास्तु भित्तयः

42.011

भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत् ।अप्_42.011अब्।
भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्पयेद् बुधः

42.012

शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।अप्_42.012अब्।
शिखरस्य चतुर्थेन व्यग्रतो मुखमण्डपं

42.013

:न्
1 चत्युर्भागेण वा युतमिति ख, चिह्नितपुस्तकपाठः । चतुर्भागेण
संयुतमिति ग, चिह्नितपुस्तकपाठः
2 सम्यक् कुर्यात् प्रदक्षिणमिति ख, चिह्नितपुस्तकपाठः
3 द्वात्रिंशदन्तरे इति ख, चिह्नितपुस्तकपाठः
:प् 123
अष्टमांसेन गर्भस्य रथकानान्तु निर्गमः ।अप्_42.013अब्।
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत्

42.014

तत्तृतीयेण(4) वा कुर्याद्रथकानान्तु निर्गमं ।अप्_42.014अब्।
वामत्रयं स्थापनीयं रथकत्रितये सदा

42.015

शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् ।अप्_42.015अब्।
शुकनाशोर्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत्

42.016

शिखरस्यार्धभागस्थं सिंहं तत्र तु कारयेत् ।अप्_42.016अब्।
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत्

42.017

अपरे च तथा पार्श्वं तद्वत् सूत्रं निधापयेत् ।अप्_42.017अब्।
तदूर्ध्वन्तु भवेद्वेदी सकण्टा मनसारकं

42.018

स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।अप्_42.018अब्।
ऊर्ध्वं च वेदिकामानात् कलशं परिकल्पयेत्

42.019

विस्ताराद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनं ।अप्_42.019अब्।
उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः

42.020

द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्दकौ ।अप्_42.020अब्।
विश्वक्सेनवत्सदण्डौ शिखोर्ध्वोडुम्बरे श्रियं

42.021

दिग्गजैः स्नाप्यमानान्तां घटेः साब्जां सुरूपिकां ।अप्_42.021अब्।
प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत्

42.022

प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।अप्_42.022अब्।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका

42.023

गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च ।अप्_42.023अब्।
कुर्याद्धि प्रतिमायान्तु दिक्षु चाष्टमासु चोपरि

42.024

पूर्वे वराहं दक्षे च नृसिंहं श्रीधरं जले ।अप्_42.024अब्।
उत्तरे तु हयग्रीवनाग्नेय्यां जामदग्न्यकं

42.025

:न्
1 तत्तुरीयेणेति ख, चिह्नितपुस्तकपाठः
:प् 124
नैरृत्यां रामकं वायौ वामनं वासुदेवकं ।अप्_42.025अब्।
ईशे प्रासादरचना देया वस्वर्ककादिभिः ।अप्_42.025च्द्।
द्वारस्य चाष्टमाद्यंशं त्यत्का बेधो न दोषभाक्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc