अग्नि पुराण · अध्याय 41
:ए इत्य् आदिमहापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशो
ऽध्यायः ॥
% छप्तेर् {41}
:श् अथैकचत्वारिंशो ऽध्यायः
शिलाविन्यासविधानं
भगवानुवाच
पादप्रतिष्ठां वक्षामि शिलाविन्यासलक्षणं ।अप्_41.001अब्।
अग्रतो मण्डपः कार्यः कुण्डलानान्तु चतुष्टयं
कुम्भन्यासेष्टकान्यासो द्वारस्तम्भोच्छ्रयं शुभं ।अप्_41.002अब्।
पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे
इष्टकाश् च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः ।अप्_41.003अब्।
सविस्तारत्रिभागेन वैपुल्येन(1) समन्विताः
करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये(2) ।अप्_41.004अब्।
नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान्
अद्भिः पञ्चकषायेण सर्वौषधिजलेन च ।अप्_41.005अब्।
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः
हिरण्यव्रीहिसंयुक्तैर् गन्धचन्दनचर्चितैः ।अप्_41.006अब्।
आपो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ
तरत् समन्दीरिति च(3) पावमानीभिरेव च ।अप्_41.007अब्।
उदुत्तमं वरुणमिति कथानश् च तथैव च
:न्
1 सुविस्तारं विभागेन नैपुण्यनेति ख, चिह्नितपुस्तकपाठः
2 शिला स्यान्न शिलामये इति ग, चिह्नितपुस्तकपाठः
3 भवतत्समन्दीरितीति ख, ग, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 119
वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि ।अप्_41.008अब्।
श्रीसूक्तेन तथा शिलाः संस्थाप्य संघटाः(1)
शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्चयेत् ।अप्_41.009अब्।
जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः
आघारावाज्यभागौ तु प्रणवेनैव कारयेत् ।अप्_41.010अब्।
अष्टाहुतीस् तथाष्टान्तैर् आज्यं(2) व्याहृतिभिः क्रमात्
लोकेशानामग्नये वै सोमायावग्रहेषु च(3) ।अप्_41.011अब्।
पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः
प्रायश्चित्तं ततः पूर्णां मूर्तिमांसघृतांस्तिलान् ।अप्_41.012अब्।
वेदाद्यैर् द्वादशान्तेन(4) कुम्भेषु च पृथक् पृथक्
प्राङ्मुखस्तु गुरुः कुर्यादष्टदिक्षु विलिप्य च ।अप्_41.013अब्।
मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात्
पद्मं चैव महापद्मं मकरं कच्छपं तथा ।अप्_41.014अब्।
कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीं
कुम्भान्न चालयेत्तेषु इष्टकानान्तु देवताः ।अप्_41.015अब्।
ईशानान्ताश् च पूर्वादाविष्टकां प्रथमं न्यसेत्
शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः ।अप्_41.016अब्।
न्यसनीया यथा योगं मध्ये न्यस्या त्वनुग्रहा
अव्यङ्गे चाक्षत पूर्णं मुनेरङ्गिरसः सुते ।अप्_41.017अब्।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं
मन्त्रेणानेन विन्यस्य इष्टका देशक्रमोत्तमः ।अप्_41.018अब्।
:न्
1 सम्युता इति ङ, चिह्नितपुस्तकपाठः .।
2 अष्टाहुतीप्लथा पूर्णैर् आज्यमिति ग, घ, ङ, इति
पुस्तकत्रयपाठः
3 सोमाय च ग्रहाय चेति ङ, चिह्नितपुस्तकपाठः
4 द्वादशार्णेन इति ख, चिह्नितपुस्तकपाठः
:प् 120
गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः
कुम्भोपरिष्ठादेवेशं पद्मिनीं न्यस्य देवतां ।अप्_41.019अब्।
मृत्तिकाश् चैव पुष्पाणि धातवो रत्नमेव च(1)
लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने ।अप्_41.020अब्।
द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये
पद्माकारे ताम्रमये भाजने पृथिवीं यजेत् ।अप्_41.021अब्।
एकान्ते सर्वभूतेशे पर्वतासनमण्डिते
समुद्रपरिवारे त्वं देवि गर्भं समाश्रय ।अप्_41.022अब्।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया(2) सह
जये भार्गवदायादे प्रजानां विजयावहे ।अप्_41.023अब्।
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व मां
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।अप्_41.024अब्।
सर्ववीजसमायुक्ते सर्वरत्नौषधीवृते
जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह ।अप्_41.025अब्।
प्रजापतिसुते देवि चतुरस्रे महीयसि
सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यतां ।अप्_41.026अब्।
पूजिते परमाश् चर्ये गन्धमाल्यैर् अलङ्कृते
भवभूतिकरी देवि गृहे भार्गवि रम्यतां ।अप्_41.027अब्।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे
मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव ।अप्_41.028अब्।
एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत्
कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि ।अप्_41.029अब्।
गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनं
:न्
1 रसमेव चेति ग. घ. ङ. चिह्नितपुस्तकद्वयपाठः
2 प्रिययेति ग, चिह्नितपुस्तकपाठः
:प् 121
गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत् ।अप्_41.030अब्।
पीठबन्धमतः कुर्यान्मितप्रासादमानतः(1)
पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्धविस्तरात् ।अप्_41.031अब्।
पदहीनं मध्यमं स्यात् कनिष्ठं चोत्तमार्धतः
पीठबन्धोपरिष्ठात्तु वास्तुयागं पुनर्यजेत् ।अप्_41.032अब्।
पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते
देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।अप्_41.033अब्।
तस्य कायगतं पापं तदह्ना हि प्रणश्यति
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ।अप्_41.034अब्।
अष्टेष्टकसमायुक्तं यः कुर्याद्देवतालयं
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ।अप्_41.035अब्।
अनेनैवानुमेयं हि फलं प्रासादविस्तरात्
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत् ।अप्_41.036अब्।
विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत् ।अप्_41.036च्द्।
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0