भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 40

40.001

:ए इत्य् आदिमहापुराणे आग्नेये प्रतिष्ठायां भूपरिग्रहो
नामोनचत्वारिंशोध्यायः ॥
% छप्तेर् {40}
:श् अथ चत्वारिंशो ऽध्यायः
अर्घ्यदानविधानं
भगवानुवाच
पूर्वमासित् महद्भूतं सर्वभूतभयङ्करं ।अप्_40.001अब्।
तद्देवैर् निहितं भुमौ स वास्तुपुरुषः स्मृतः

40.002

चतुःषष्टिपदे क्षेत्रे ईशं कोणार्धसंस्थितं ।अप्_40.002अब्।
घृताक्षतैस्तर्पयेत्तं पर्जन्यं पदगतं ततः

40.003

उत्पलादिभिर्जयन्तञ्च द्विपदस्थं पताकया ।अप्_40.003अब्।
महेन्द्रञ्चैककोष्ठस्थं सर्वरक्तैः पदे रविं

40.004

वितानेनार्धपदगं सत्यं पदे भृशं घृतैः ।अप्_40.004अब्।
व्योम शाकुनमांसेन(2) कोणार्धपदसंस्थितं

40.005

स्रुचा चार्धपदे वह्निं पूषाणं लाजयैकतः ।अप्_40.005अब्।
स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतं

40.006

मांसौदनेन धर्मेशमेकैकस्मिन् स्थितं द्वयं ।अप्_40.006अब्।
गन्धर्वं द्विपदं गन्धैर् भृशं शाकुनजिह्वया

40.007

एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस् तथा ।अप्_40.007अब्।
पितॄन् कृशरयार्धस्थं दन्तकाष्ठैः पदस्थितं

40.008

:न्
1 नृहस्त इति ख, चिह्नितपुस्तकपाठः
2 व्योम शाकुलमांसेनेति ख, चिह्नितपुस्तकपाठः
:प् 116
दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु ।अप्_40.008अब्।
पुष्पदन्तं कुशस्तम्बैः पद्मैर् वरुणमेकतः

40.009

असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा ।अप्_40.009अब्।
यवैः पापं पदार्धस्थं रोगमर्धे च मण्डकैः

40.010

नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर् द्विसंस्थितं ।अप्_40.010अब्।
मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा

40.011

मधुना पायसेनाथ शालूकेन ऋषिं द्वये ।अप्_40.011अब्।
पदे दितिं लोपिकाभिरर्धे दितिमथापरं

40.012

पूरिकाभिस्ततश्चापमीशाधः पयसा पदे ।अप्_40.012अब्।
ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितं

40.013

लड्डुकैश् च मरीचिन्तु पूर्वकोष्ठचतुष्टये(1) ।अप्_40.013अब्।
सवित्रे रक्तपुष्पाणि ब्रह्माधःकोणकोष्ठके

40.014

तदधःकोष्ठके दद्यात् सावित्र्यै च कुशोदकं ।अप्_40.014अब्।
विवस्ते ऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु

40.015

रक्षोधःकोणकोष्ठे तु इन्द्रायान्नं निशान्वितं ।अप्_40.015अब्।
इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके

40.016

चतुष्पदेषु दातव्यमिन्द्राय गुडपायसं ।अप्_40.016अब्।
वाय्वधःकोणदेशे तु रुद्राय पक्वमांसकं

40.017

तदधःकोणकोष्ठे तु यक्षायार्द्रं फलन्तथा ।अप्_40.017अब्।
महीधराय मांसान्नं माघञ्च चतुरङ्घ्रिषु

40.018

मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः ।अप्_40.018अब्।
चरकीं माषसर्पिभ्यां स्कन्दं कृशरयासृजा

40.019

रक्तपद्मैर् विदारीञ्च कन्दर्पञ्च पलोदनैः ।अप्_40.019अब्।
पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकं

40.020

:न्
1 मध्यचतुष्टये इति ख, चिह्नितपुस्तकपाठः
:प् 117
पित्तासृगस्थिभिः पापां पिलिपिञ्जं(1) स्रजासृजा ।अप्_40.020अब्।
ईशाद्यान् रक्तमांसेन अभावादक्षतैर् यजेत्

40.021

रक्षोमातृगणेभ्यश् च पिशाचादिभ्य एव च ।अप्_40.021अब्।
पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः

40.022

आहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत् ।अप्_40.022अब्।
ब्रहमस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्चयेत्

40.023

महीश्वरं वास्तुमयं(2) वर्धन्या सहितं घटं ।अप्_40.023अब्।
ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश् च दिगीश्वरान्

40.024

दद्यात् पूर्णाहुतिं पश्चात् स्वस्ति वाच्य प्रणम्य च ।अप्_40.024अब्।
प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणं

40.025

सूत्रमार्देण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत् ।अप्_40.025अब्।
पूर्ववत्तेन मार्गेण सप्त वीजानि वापयेत्

40.026

प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत् ।अप्_40.026अब्।
ततो गर्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः

40.027

चतुरङ्गुलकं चाधश्चोपलिप्यार्चयेत्ततः ।अप्_40.027अब्।
ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः

40.028

कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत् ।अप्_40.028अब्।
दक्षिणावर्तकं श्रेष्ठं बीजैर् मृद्द्भिश् च पूरयेत्

40.029

अर्घ्यादानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ ।अप्_40.029अब्।
कालज्ञाय स्थपतये वैष्णवादिभ्य अर्चयेत्

40.030

ततस्तु खानयेद्यत्नज्जलान्तं यावदेव तु ।अप्_40.030अब्।
पुरुषाधःस्थितं शल्यं(3) न गृहे दोषदं भवेत्

40.031

:न्
1 पिलिपिच्छमिति ङ, चिह्नितपुस्तकपाठः
2 महीधरं वास्तुमयमिति ख, ङ, चिह्नितपुस्तकपाठः
3 पुरुषाधिष्ठितं शल्यमिति ग, चिह्नितपुस्तकपाठः
:प् 118
अस्थिशल्ये विद्यते वै भित्तिर्वै गृहिणो ऽसुखं ।अप्_40.031अब्।
यन्नामशब्दं शृणुयात्तत्र शल्यं तदुद्भवं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc