अग्नि पुराण · अध्याय 39
:ए इत्य् आदिमहापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम
अष्टत्रिंशोध्यायः ॥
:न्
1 कृष्णाश्रये गता इति ख, घ, ङ,
चिह्नितपुस्तकत्रयपाठः
2 प्रतिष्ठाद्यमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 113
% छप्तेर् {39}
:श् अथोनचत्वारिंशो ऽध्यायः
भूपरिग्रहविधानं
हयग्रीव उवाच
विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे ।अप्_39.001अब्।
प्रोक्तानि पञ्चरातराणि सप्तरात्राणि वै मया
व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया ।अप्_39.002अब्।
हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनं
वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवं ।अप्_39.003अब्।
नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं(1) तथा
सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरं ।अप्_39.004अब्।
स्वायम्भुवं कपिलञ्च तार्क्षं नारायणीयकं
आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणं ।अप्_39.005अब्।
बौधायनं तथार्षं तु(2) विश्वोक्तं तस्य सारतः
प्रतिष्ठां हि द्विजः कुर्यान्मध्यदेशादिसम्भवः ।अप्_39.006अब्।
नकच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः
कामरूपकलिङ्गोप्त्यः काञ्चीकाश्मीरकोशलः(3) ।अप्_39.007अब्।
आकाशवायुतेजोम्बु भूरेताः पञ्च रात्रयः
अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितं ।अप्_39.008अब्।
ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः
सर्वलक्षणहीणोपि स गुरुस्तन्त्रपारगः ।अप्_39.009अब्।
:न्
1 चैश्वरं तथेति ग, ङ, घ, चिह्नितपुस्तकत्रयपाठः
2 तथाष्टाङ्गमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
3 काश्मीरके स्थित इति ग, चिह्नितपुस्तकपाठः
:प् 114
नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः
कुरुक्षेत्रे गयादौ च नदीनान्तु(1) समीपतः ।अप्_39.010अब्।
ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनं
अग्नावग्नेश् च मातॄणां भूतानाञ्च यमस्य च ।अप्_39.011अब्।
दक्षिणे चण्डिकायाश् च पितृदैत्यादिकस्य च
वैरृते मन्दिरं कुर्यात् वरुणाददेश् च वारुणे ।अप्_39.012अब्।
वायोर् नागस्य वायव्ये सौम्ये यक्षगुहस्य च
चण्डीशस्य महेशस्य ऐशे विष्णोश् च सर्वशः ।अप्_39.013अब्।
पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ
समं वाप्यधिकं वापि न कर्तव्यं विजानता ।अप्_39.014अब्।
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मितां
प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः ।अप्_39.015अब्।
भूमौ तु शोधितायां तु कुर्याद्भुमिपरिग्रहं
प्राकारसीमापर्यन्तं ततो भुतबलिं हरेत् ।अप्_39.016अब्।
माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः
अष्टाक्षरेण सक्तूंश् च पातायित्वाष्टदिक्षु च ।अप्_39.017अब्।
राक्षसाश् च पिशाचाश् च येस्मिंस्तिष्ठन्ति भूतले
सर्वे ते व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।अप्_39.018अब्।
हलेन वाहयित्वा गां गोभिश् चैवावदारयेत्
प्रमाण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते ॥19
तैर् अष्टभिस्तु बालाग्रं लिख्या तैर् अष्टभिर्मता ।अप्_39.020अब्।
ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः
:न्
1 नद्यद्रिषु इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
:प् 115
यवाष्टकैर् अङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः ।अप्_39.021अब्।
चतुरङ्गुलसंयुक्तः स हस्तः(1) पद्महस्तकः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0