अग्नि पुराण · अध्याय 381
:ए इत्य् आग्नेये महापुराणे गीतासारो नामाशीत्यधिकत्रिशततमो
ऽध्यायः ॥
% छप्तेर् {381}
:श् अथैकाशीत्यधिकत्रिशततमो ऽध्यायः
यमगीता
अग्निर् उवाच
यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे ।अप्_381.001अब्।
पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनां सतां
यम उवाच
आसनं शयनं यानपरिधानगृहादिकम् ।अप्_381.002अब्।
वाञ्छत्यहो ऽतिमोहेन सुस्थिरं स्वयमस्थिरः
भोगेषु शक्तिः सततं तथैवात्मावलोकनं ।अप्_381.003अब्।
श्रेयः परं मनुष्यानां कपिलोद्गीतमेव हि
सर्वत्र समदर्शित्वं निर्मसत्वमसङ्गता ।अप्_381.004अब्।
श्रेयः परम् मनुष्यानां गीतं पञ्चशिखेन हि
आगर्भजन्मबाल्यादिवयो ऽवस्थादिवेदनं ।अप्_381.005अब्।
श्रेयः परं मनुष्याणाम् गङ्गाविष्णुप्रगीतकं
आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया ।अप्_381.006अब्।
श्रेयः परं मन्ष्याणां जनकोद्गीतमेव च
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः ।अप्_381.007अब्।
तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतं
:प् 351
कर्तव्यमिति यत्कर्म ऋग्यजुःसामसंज्ञितं ।अप्_381.008अब्।
कुरुते श्रेयसे सङ्गान् जैगीषव्येण गीयते
हानिः सर्वविधित्सानामात्मनः सुखहैतुकी ।अप्_381.009अब्।
श्रेयः परं मनुष्याणां देवलोद्गीतमीरितं
कामत्यागात्तु विज्ञानं सुखं ब्रह्म परं पदं ।अप्_381.010अब्।
कामिनां न हि विज्ञानं सनकोद्गीतमेव तत्
प्रवृत्तञ्च निवृत्तञ्च कार्यं कर्मपरो ऽब्रवीत् ।अप्_381.011अब्।
श्रेयसां श्रेय एतद्धि नैष्कर्म्यं ब्रह्म तद्धरिः
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः ।अप्_381.012अब्।
ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ।अप्_381.013अब्।
तपसा लभ्यते सर्वं मनसा यद्यदिच्छति
नास्ति विष्णुसमन्ध्येयं तपो नानशनात्परं ।अप्_381.014अब्।
नास्त्यारोग्यसमं धन्यं नास्ति गङ्गासमा सरित्
न सो ऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुं ।अप्_381.015अब्।
अधश्चोर्धं हरिश्चाग्रे देहेन्द्रियमनोमुखे
इत्येवं संस्मरन् प्राणान् यस्त्यजेत्स हरिर्भवेत् ।अप्_381.016अब्।
यत्तद् ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम्
अग्राह्यकमनिर्देश्यं सुप्रतिष्ठञ्च यत्परं ।अप्_381.017अब्।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं ।अप्_381.018अब्।
केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं
इन्द्रादिनामभिः केचित् सूर्यं सोमञ्च कालकम् ।अप्_381.019अब्।
:प् 352
ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च
स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः ।अप्_381.020अब्।
सुवर्णादिमहादानपुण्यतीर्थावगाहनैः
ध्यानैर् व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् ।अप्_381.021अब्।
आत्मानं रथिनं विद्धि शरीरं रथमेव तु
बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ।अप्_381.022अब्।
इन्द्रयाणि हयानाहुर्विषयांश्चेषुगोचरान्
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।अप्_381.023अब्।
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा
न सत्पदमवाप्नोति संसारञ्चाधिगच्छति ।अप्_381.024अब्।
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ।अप्_381.025अब्।
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः
सो ऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् ।अप्_381.026अब्।
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः
मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ।अप्_381.027अब्।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ।अप्_381.028अब्।
एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते
दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।अप्_381.029अब्।
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि ।अप्_381.030अब्।
ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर् ब्रह्म सद्भवेत्
:प् 353
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।अप्_381.031अब्।
यमाश् च नियमाः पञ्च शौचं सन्तोषसत्तपः
स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकं ।अप्_381.032अब्।
प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः
शुभे ह्य् एकत्र विषये चेतसो यत् प्रधारणं ।अप्_381.033अब्।
निश् चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते
पौनःपुन्येन तत्रैव विषयेष्वेव धारणा ।अप्_381.034अब्।
ध्यानं स्मृतं समाधिस्तु अहं ब्रह्मात्मसंस्थितिः
घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।अप्_381.035अब्।
मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत्
आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा ।अप्_381.036अब्।
जीवो ह्य् अज्ञानतत्कार्यमुक्तः स्यादजरामरः
अग्निर् उवाच
वशिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा ।अप्_381.037अब्।
आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0