अग्नि पुराण · अध्याय 382
:ए इत्य् आग्नेये महापुराणे यमगीता नामैकाशीत्यधिकत्रिशततमो
ऽध्यायः ॥
:प् 354
% छप्तेर् {382}
:श् अथ द्व्यशीत्यधिकत्रिशततमो ऽध्यायः
आग्नेयपुराणमाहात्म्यं
अग्निर् उवाच
आग्नेयं ब्रह्मरूपन्ते पुराणं कथतं मया ।अप्_382.001अब्।
सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत्
ऋग्यजुःसामाथर्वाख्या विद्या विष्णुर्जगज्जनिः ।अप्_382.002अब्।
छन्दः शिक्षा व्याकरणं निघण्टुज्योतिराख्यकाः
निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः ।अप्_382.003अब्।
आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः
विद्या सैवार्थशास्त्राख्या देवान्तान्या हरिर्महान् ।अप्_382.004अब्।
इत्येषा चापरा विद्या परिविद्याक्षरं परं
यस्य भावो ऽखिलं विष्णुस्तस्य नो बाधते कलिः ।अप्_382.005अब्।
अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां
कृष्णमभ्यर्चयन्भक्त्या नैनसो भाजनं भवेत् ।अप्_382.006अब्।
सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति
अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः ।अप्_382.007अब्।
कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते
तद्ध्यानं यत्र गोविन्दः स कथा यत्र केशवः ।अप्_382.008अब्।
तत् कर्म यत्तदर्थीयं किमन्यैर् बहुभाषितैः
न तत् पिता तु पुत्राय न शिष्याय गुरुर्द्विज ।अप्_382.009अब्।
परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु ।अप्_382.010अब्।
:प् 355
सुहृदश् च तथैवान्ये नोपदेशो द्विजेदृशः
किं पुत्रदारैर् मित्रैर् वा किं मित्रक्षेत्रवान्धवैः ।अप्_382.011अब्।
उपदेशः परो वन्धुरीदृशो यो विमुक्तये
द्विविधो भूतमार्गीयं दैव आसुर एव च ।अप्_382.012अब्।
विष्णुभक्तिपरो दैवो विपरीतस् तथासुरः
एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं ।अप्_382.013अब्।
सुखप्रीतिकरं नॄणां मोक्षकृद्यत्तवेरितं
येषां गृहेषु लिखितमाग्नेयं हि पुराणकं ।अप्_382.014अब्।
पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः
किं तीर्थैर् गोप्रदानैर् वा किं यज्ञैः किमुपोषितैः ।अप्_382.015अब्।
आग्नेयं ये हि शृण्वन्ति अहन्यहनि मानवाः
ये ददाति तिलप्रस्थं सुवर्णस्य च माषकं ।अप्_382.016अब्।
शृणोति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात्
अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते ।अप्_382.017अब्।
अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति
कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे ।अप्_382.018अब्।
तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात्
प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं ।अप्_382.019अब्।
आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि
पठन्नाग्नेयकं नित्यं शृण्वन् वापि पुराणकं ।अप्_382.020अब्।
भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते
नोपसर्गा न चानर्था न चौरारिभयं गृहे ।अप्_382.021अब्।
तस्मन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं
:प् 356
न गर्भहारिणीभीतिर्न च बालग्रहा गृहे ।अप्_382.022अब्।
यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं
शृण्वन्विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः ।अप्_382.023अब्।
ऋद्धिं प्राप्नोति वैश्यश् च शूद्रश्चारोग्यमृच्छति
यः पठेत्शृणुयान्नित्यं समदृग्विष्णुमानसः ।अप्_382.024अब्।
ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः
दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः ।अप्_382.025अब्।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः
पठतः शृण्वतः पुंसः पुस्तकं यजतो महत् ।अप्_382.026अब्।
आग्नेयं श्रीपुराणं हि हेमन्ते यः शृणोति वै
प्रपूज्य गन्धपुष्पाध्यैर् अग्निष्टोमफलं लभेत् ।अप्_382.027अब्।
शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम्
ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति ।अप्_382.028अब्।
गोसहस्रस्य शरदि फलं तत्पठतो ह्य् ऋतौ
आग्नेयं हि पुराणं यो भक्त्याग्रे पठेते हरेः ।अप्_382.029अब्।
सो ऽर्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम्
यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः ।अप्_382.030अब्।
लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करे ऽस्ति हि
इति कालाग्निरूपेण गीतं मे हरिणा पुरा ।अप्_382.031अब्।
आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् ।अप्_382.031च्द्।
विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि
वसिष्ठ उवाच
व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं ।अप्_382.032अब्।
कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा
:प् 357
सार्धं देवैश् च मुनिभिर्मह्यं सर्वाथदर्शकं ।अप्_382.033अब्।
पुराणमग्निना गौतमाग्नेयं ब्रह्मसन्मितं
यः पठेच्छृणुयाद्ध्यास लिखेद्वा लेखयेदपि ।अप्_382.034अब्।
श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि
सर्वपापविनिर्मुक्तः प्राप्रकामो दिवं व्रजेत् ।अप्_382.035अब्।
लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् ।अप्_382.036अब्।
एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते
तस्माद्व्यास सदा श्राव्यं शिष्येभ्यः सर्वदर्शनं ।अप्_382.037अब्।
शुकाद्यैर् मुनिभिः सर्धं श्रोतुकामैः पुराणकं
आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं ।अप्_382.038अब्।
अग्नये तु नमस्तस्मै येन गीतं पुरानकं
व्यास उवाच
वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं ।अप्_382.039अब्।
पराविद्यापराविद्यास्वरूपं परमं पदम्
आग्नेयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः ।अप्_382.040अब्।
ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः
विद्यार्थिनस् तथा विद्यां राज्यं राज्यार्थिनो गताः ।अप्_382.041अब्।
अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः
सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः ।अप्_382.042अब्।
लिखन्तो लेखयन्तश् च निष्पापश् च श्रियं गताः
शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं ।अप्_382.043अब्।
रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः
श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश् च पुराणकम् ।अप्_382.044अब्।
:प् 358
सूत उवाच
व्यास प्रसादादाग्नेयं पुराणं श्रुतमादरात्
आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः ।अप्_382.045अब्।
भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं
तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् ।अप्_382.046अब्।
अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं
ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् ।अप्_382.047अब्।
नास्मात्परतरः सारो नास्मात्परतरः सुहृत्
नास्मात्परतरो ग्रन्थो नास्मात्परतरो गतिः ।अप्_382.048अब्।
नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः
नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः ।अप्_382.049अब्।
नास्मात्परो ह्य् आगमो ऽस्ति नास्माद्विद्या परास्ति हि
नास्मात्परः स्यात्सिद्धन्तो नास्मात्परममङ्गलम् ।अप्_382.050अब्।
नास्मात्परो ऽस्ति वेदान्तः पुराणं परमन्त्विदं
नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् ।अप्_382.051अब्।
आग्नेये हि पुराणे ऽस्मिन् सर्वविद्याः प्रदर्शिताः
सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह ।अप्_382.052अब्।
हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः
आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया ।अप्_382.053अब्।
पवित्रारोहणादीनि प्रतिमालक्षणादिकं
प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिमुक्तिदाः ।अप्_382.054अब्।
शैवागमस्तदर्थश् च शाक्तेयः सौर एव च
मण्डलानि च वास्तुश् च मन्ताणि विविधानि च ।अप्_382.055अब्।
प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं
:प् 359
गीतो भुवनकोषश् च द्वीपवर्षादिनिम्नगाः ।अप्_382.056अब्।
गयागङ्गाप्रयागादि तीर्थमाहात्म्यमीरितं
ज्योतिश् चक्रं ज्योतिषादि गीतो युद्धजयार्णवः ।अप्_382.057अब्।
मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च
अशौचं द्रव्यशुद्धिश् च प्रायश्चित्तं प्रदर्शितं ।अप्_382.058अब्।
राजधर्मा दानधर्मा व्रतानि विविधानि च
व्यवहाराः शान्तयश् च ऋग्वेदादिविधानकं ।अप्_382.059अब्।
सूर्यवंशः सोमवंशो धनुर्वेदश् च वैद्यकं
गान्धर्ववेदो ऽर्थशास्त्रं मीमांसा न्यायविस्तरः ।अप्_382.060अब्।
पुराणसंख्यामाहत्म्यं छन्दो व्यकरणं स्मृतं
अलङ्कारो विघण्डुश् च शिक्षाकल्प इहोदितः स्मृतः ।अप्_382.061अब्।
नैमित्तिकः प्राकृतिको लय आत्यन्तिकः
वेदान्तं ब्रह्मविज्ञानं योगो ह्य् अष्टाङ्ग ईरितः ।अप्_382.062अब्।
स्तोत्रं पुराणमाहात्म्यं विद्या ह्य् अष्टादश स्मृताः
ऋग्वेदाद्याः परा ह्य् अत्र पराविद्याक्षरं परं ।अप्_382.063अब्।
सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं
इदं पञ्चदशसोहस्रं शतकोटिप्रविस्तरं ।अप्_382.064अब्।
देवलोके दैवतैश् च पुराणं पठ्यते सदा
लोकानां हितकामेन संक्षिप्योद्गीतमग्निना ।अप्_382.065अब्।
सर्वं ब्रह्मेति जानीध्वं मुनयः शौनकादयः
शृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि ।अप्_382.066अब्।
लिखेल्लेखापयेद्वापि युजयेत्कीर्तयेदपि
पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः ।अप्_382.067अब्।
:प् 360
गोभूहिरण्यदानाद्यैर् वस्त्रालङ्कारतर्पणैः
तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं ।अप्_382.068अब्।
पुराणान्ते च वै कुर्यादवश्यं द्विजभोजनं
निर्मलः प्राप्तसर्वार्थः सकुलः स्वर्गमाप्नुयात् ।अप्_382.069अब्।
शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं
पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् ।अप्_382.070अब्।
यो दद्याद्ब्रह्मलोकी स्यात् पुस्तकं यस्य वै गृहे
तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् ।अप्_382.071अब्।
यूयं समरत चाग्नेयं पुराणं रूपमैश्वरं ।अप्_382.071च्द्।
सूतो गतः पुजितस्तैः शौनकाद्या हरिं यायः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0